भाषा

ENहिગુ
ग्रंथ पाठ

कामसूत्र · अध्याय 2.4

2.4.1

राग-वृद्धौ संघर्षात्मकं नख-विलेखनम्.

2.4.2

तस्य प्रथम-समागमे प्रवास-प्रत्यागमने प्रवास-गमने क्रुद्ध-प्रसन्नायां मत्तायां च प्रयोगः. न नित्यम् अ:चण्ड-वेगयोः.

2.4.3

तथा दशन-च्छेद्यस्य सात्म्य-वशाद् वा.

2.4.4

तद् [1] आच्छुरितकम् [2] अर्ध-चन्द्रो [3] मण्डलं [4] रेखा [5] व्याघ्र-नखं [6] मयूर-पदकं [7] शश-प्लुतकम् [8] उत्पल-पत्त्रकम् इति रूपतो ऽष्ट-विकल्पम्.

2.4.5

कक्षौ स्तनौ गलः पृष्ठं जघनम् ऊरू च स्थानानि.

2.4.6

प्रवृत्त-रति-चक्राणां न स्थानम् अ:स्थानं वा विद्यत इति सुवर्णनाभः.

2.4.7

तत्र सव्य-हस्तानि प्रत्य्:अग्र-शिखराणि द्वि-त्रि-शिखराणि चण्ड-वेगयोर् नखानि स्युः.

2.4.8

अनुगत-राजि समम् उज्ज्वलम् अ:मलिनम् अ:विपाटितं विवर्धिष्णु मृदु स्निग्ध-दर्शनम् इति नख-गुणाः.

2.4.9

दीर्घाणि हस्त-शोभीन्य् आलोके च योषितां चित्त-ग्राहीणि गौडाणां नखानि स्युः.

2.4.10

ह्रस्वानि कर्म-सहिष्णूनि विकल्प-योजनासु च स्वेच्छापातीनि दाक्षिणत्यानाम्.

2.4.11

मध्यमान्य् उभय-भाञ्जि महाराष्ट्रकाणाम् इति.

2.4.12

तैः सु:नियमितैर् हनु-देशे स्तनयोर् अधरे वा लघु-करणम् अन्:उद्गत-लेखं स्पर्श-मात्र-जननाद् रोमाञ्च-करम् अन्ते संनिपात-वर्धमान-शब्दम् [1] आच्छुरितकम्.

2.4.13

प्रयोज्यायां च तस्याङ्ग-संवाहने शिरसः कण्डूयने पिटक-भेदने व्याकुली-करणे भीषणेन प्रयोगः.

2.4.14

ग्रीवायां स्तन-पृष्ठे च वक्रो नख-पद-निवेशो [2] अर्ध-चन्द्रः.

2.4.15

ताव् एव द्वौ पर्स-पराभिमुखौ मण्डलम्.

2.4.16

नाभि-मूल-ककुन्दर-वंक्षणेषु((10)) तस्य प्रयोगः.

2.4.17

सर्व-स्थानेषु नाति:दीर्घा [4] लेखा((11)).

2.4.18

सैव वक्रा [5] व्याघ्र-नखकम् आ स्तन-मुखम्.

2.4.19

पञ्चभिर् अभिमुखैर् लेखा चूचुकाभिमुखी((12)) [6] मयूर-पदकम्.

2.4.20

तत्-संप्रयोग-श्लाघायाः स्तन-चूचुके संनिकृष्टानि पञ्च-नख-पदानि [7] शश-प्लुतकम्.

2.4.21

स्तन-पृष्ठे मेखला-पथे चोत्पल-पत्त्राकृतीत्य् [8] उत्पल-पत्त्रकम्.

2.4.22

ऊर्वोः स्तन-पृष्ठे च प्रवासं गच्छतः स्मारणीयकं संहताश् चतस्रस् तिस्रो वा लेखाः.
इति नख-कर्माणि.

2.4.23

आकृति-विकार-युक्तानि चान्यान्य् अपि कुर्वीत.

2.4.24

विकल्पानाम् अन्:अन्तत्वाद् आनन्त्याच् च कौशल-विधेर् अभ्यासस्य च सर्व-गामित्वाद् रागात्मकत्वाच् छेद्यस्य प्रकारान् को ऽभिसमीक्षितुम् अर्हतीत्य् आचार्याः..2.4.25 भवति हि रागे ऽपि चित्रापेक्षा. वैचित्र्याच् च परस्परं रागो जनयितव्यः. वैचक्षण्य-युक्ताश् च गणिकास् तत्-कामिनश् च परस्परं प्रार्थनीया भवन्ति. धनुर्-वेदादिष्व् अपि हि शस्त्र-कर्म-शास्त्रेषु वैचित्र्यम् एवापेक्ष्यते किं पुनर् इहेति वात्स्यायनः.

2.4.26

न तु पर-परिगृहीतास्व् एवं कुर्यात्. प्रच्छन्नेषु प्रदेशेषु तासाम् अनुस्मरणार्थं राग-वर्धनाच् च विशेषान् दर्शयेत्.

2.4.27

नख-क्षतानि पश्यन्त्या गूढ-स्थानेषु योषितः. चिरोत्सृष्टाप्य् अभिनवा प्रीतिर् भवति पेशला((13))..

2.4.28

चिरोसृष्टेषु रागेषु प्रीतिर् गच्छेत् पराभवम्. रागायतन-संस्मारि यदि न स्यान् नख-क्षतम्..

2.4.29

पश्यतो युवतिं दूरान् नखोच्छिष्ट-पयोधराम्. बहु-मानः परस्यापि राग-योगश् च जायते..

2.4.30

पुरुषश् च प्रदेशेषु नख-चिह्नैर् विचिह्नितः. चित्तं स्थिरम् अपि प्रायश् चलयत्य् एव योषितः..

2.4.31

नान्यत् पटुतरं किं चिद् अस्ति राग-विवर्धनम्. नख-दन्त-समुत्थानां कर्मणां गतयो यथा.

मूल पाठ: Kāmasūtra · Data entry Jean Fezas · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc