भाषा

ENहिગુ
ग्रंथ पाठ

कामसूत्र · अध्याय 2.3

2.3.1

चुम्बन-नख-दशन-च्छेद्यानां न पौर्वापर्यम् अस्ति. राग-योगात् प्राक् संयोगाद् एषां प्राधायेन प्रयोगः. प्रहण-सीत्कृतयोश् च संप्रयोगे.

2.3.2

सर्वं सर्वत्र. रागस्यान्:अपेक्षितत्वात्. इति वात्स्यायनः.

2.3.3

तानि प्रथम-रते नातिव्यक्तानि विश्रब्धिकायां विकल्पेन च प्रयुञ्जीत. तथा-भूतत्वाद् रागस्य. ततः परम् अतित्वरया विशेषवत् समुच्चयेन राग-संधुक्षणार्थम्.

2.3.4

ललाटालक-कपोल-नयन-वक्षः-स्तनोष्ठान्तर्:मुखेषु चुम्बनम्.

2.3.5

ऊरु-संधि-बाहु-नाभि-मूलयोर् लाटानाम्.

2.3.6

राग-वशाद् देश-प्रवृत्तेश् च सन्ति तानि तानि स्थानानि न तु सर्व-जन-प्रयोजानीति वात्स्यायनः.

2.3.7

तद् यथा ण् [1] निमित्तिकं [2] स्फुरितकं [3] घट्टितकम् इति त्रीणि कन्या-चुम्बनानि.

2.3.8

बलात्-कारेण नियुक्ता मुखम् आधत्ते न तु विचेष्टत इति [1] निमित्तकम्.

2.3.9

वदने प्रवेशितं चौष्ठं मनाग् अपत्रपावग्रहीतुम् इच्छन्ती स्पन्दयति स्वम् ओष्ठं नोत्तरम् उत्सहत इति [2] स्फुरितकम्.

2.3.10

ईषत् परिगृह्य वि:निमीलित-नयना करेण च तस्य नयने अवच्छादयन्ति जिह्वाग्रेण घट्टयतीति [3] घट्टितकम्.

2.3.11

समं तिर्यग् उद्भ्रान्तम् अवपीडितकम् इति चतुर्विधम् अपरे.

2.3.12

अङ्गुलि-संपुटेन पिण्डी-कृत्य निर्दशनम् ओष्ठ-पुटेनावपीडयेद् इत्य् अवपीडितकं पञ्चमम् अपि करणम्.

2.3.13

द्यूतं चात्र प्रवर्तयेत्.

2.3.14

पूर्वम् अधर-संपादनेन जितम् इदं स्यात्.

2.3.15

तत्र जिता सार्ध-रुदितं करं विधुनुयात् प्रणुदेद् दशेत् परिवर्तयेद् बलाद् आहृता विवदेत् पुनर् अप्य् अस्तु पण इति ब्रूयात्. तत्रापि जिता द्वि-गुणम् आयस्यएत्.

2.3.16

विश्रब्धस्य प्रमत्तस्य वाधरम् अवगृह्य दशनान्तर्गतम् अ:निर्गमं कृत्वा हसेद् उत्क्रिशेत् तर्जयेद् वल्गेद् आह्लयेत् प्रनर्तितत्-भ्रूणा च विचल-नयनेन मुखेन विहसन्तीतानि तानि च ब्रूयात्. इति चुम्बन-द्यूत-कलहः.

2.3.17

एतेन नख-दशन-च्छेद्य-प्रहणन-द्यूत-कलहा व्याख्याताः.

2.3.18

चण्ड-वेगयोर् एव त्व् एषां प्रयोगः. तत्-सात्म्यात्.

2.3.19

तस्यां चुम्बन्त्याम् अयम् अप्य् उत्तरं गृह्णीयात्. इत्य् उत्तर-चुम्बितम्..2.3.20 ओष्ठ-संदंशेनावगृह्याउष्ठ-द्वयम् अपि चुम्बेत. इति संपुटकं स्त्रियाः पुंसो वा:जात-व्यञ्जनस्य.

2.3.21

तस्मिन्न् इतरो ऽपि जिह्वयास्या दशनान् घट्टयेत् तालु जिह्वां चेति जिह्वा-युद्धम्.

2.3.22

एतेन बलाद् वदन-रदन-ग्रहणं दानं च व्याख्यातम्.

2.3.23

समं पीडितम् अञ्चितं मृदु शेषाङ्गेषु चुम्बनं स्थान-विशेष-योगात्. इति चुम्बन-विशेषाः.

2.3.24

सुप्तसय मुखम् अवलोकयन्त्या स्वाभिप्रायेण चुम्बनं राग-दीपनम्.

2.3.25

प्रमत्तस्य विवदमानस्य वान्यतो ऽभिमुखस्य सुप्ताभिमुखस्य वा निद्रा-व्याघातार्थं चलितकम्.

2.3.26

चिर-रात्राव् आगतस्य शयन-सुप्तायाः स्वाभिप्राय-चुम्बनं प्रातिबोधकम्.

2.3.27

सापि तु भाव-जिज्ञासार्थिनी नायकस्यागमन-कालं संलक्ष्य व्याजेन सुप्ता स्यात्.

2.3.28

आदर्शे कुड्ये सलिले वा प्रयोज्यायाश् छाया-चुम्बनम् आकार-प्रदर्शनार्थम् एव कार्यम्.

2.3.29

बालस्य चित्र-कर्मणः प्रतिमायाश् च चुम्बनं संक्रान्तकम् आलिङ्गनं च.

2.3.30

तथा निशि प्रेक्षणके स्वजन-समाजे वा समीपे गतस्य प्रयोज्याया हस्ताङ्गुलि-चुम्बनं संविष्टस्य वा पादाङ्गुलि-चुम्बनम्.

2.3.31

संवाहिकायास् तु नायकम् आकारयन्त्या निद्रा-वशाद् अ:कामाया इव तस्योर्वोर् वदनस्य निधानम् ऊरु-चुम्बनं चेत्य् आभियोगिकानि.

2.3.32

भवति चात्र श्लोकः.
कृते प्रतिकृतं कुर्याद् ताडिते प्रतिताडितम्. करणेन च तेनैव चुम्बिते प्रतिचुम्बितम्..

मूल पाठ: Kāmasūtra · Data entry Jean Fezas · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc