कामसूत्र · अध्याय 2.2
संप्रयोगाङ्गं चतुःषष्टिर् इत्य् आचक्षते. चतुःषष्टि-प्रकरणत्वात्.
शास्त्रम् एवेदं चतुःषष्टिर् इत्य् आचार्य-वादः.
कलानां चतुःषष्टित्वात् तासां च संप्रयोगाङ्ग-भूतत्वात् कला-समूहो वा चतुःषष्टिर् इति. ऋचां दशतयीनां च संज्ञितत्वात्. इहापि तद्-अर्थ-संबन्धात्. पञ्चाल-संबन्धाच् च बह्व्-ऋचैर् एषा पूजार्थं संज्ञा प्रवर्तिता इत्य् एके.
आलिङ्गन-चुम्बन-नख-च्छेद्य-दशन-च्छेद्य-संवेशन-सीत्:कृत-पुरुषायितौपरिष्टकानाम् आष्टानाम् अष्टधा विकल्प-भेदाद् अष्टाव् अष्टकाश् चतुःषष्टिर् इति बाभ्रवीयाः.
विकल्प-वर्गाणाम् अष्टानां न्यूनादिकत्व-दर्शनात् प्रहण-विरुत-पुरुषोपसृप्ति-चित्र-रतादीनाम् अन्येषाम् अपि वर्गाणाम् इह प्रवेशनात् प्रायो-वादो ऽयम्. यथा सप्त-पर्णो वृक्षः पञ्च-वर्णो बलिर् इति वात्स्यायनः.
तत्रा:समागतयोः प्रीति-लिङ्ग-द्योतनार्थम् आलिङ्गन-चतुष्टयम्. [1] स्पृष्टकम् [2] विद्धकम् [3] उद्घृष्टकम् [4] पीडितकम् इति.
सर्वत्र संज्ञार्थेनैव कर्मातिदेशः.
संमुखागतायां प्रयोज्यायाम् अन्यापदेशेन गच्छतो गात्रेण गात्रस्य स्पर्शनं [1] स्पृष्टकम्.
प्रयोज्यं स्थितम् उपविष्टं वा वि:जने किं चिद् गृह्णाति पयो-धरेण विद्ध्येत्. नायको ऽपि ताम् अवपीड्य गृह्णीयाद् इति [2] विद्धकम्.
तद् उभयम् अन्:अति:प्रवृत्त-संभाषणयोः.
तमसि जन-संबाधे वि:जने वाथ शनकैर् गच्छतोर् नाति:ह्रस्व-कालम् उद्घर्षणं परस्-परस्य गात्राणाम् [3] उद्घृष्टकम्.
तद् एव कुड्य-संदेशेन स्तम्भ-संदेशेन वा स्फुटकम् अवपीडयेद् इति [4] पीडितकम्.
तद् उभयम् अवगत-परस्पराकारयोः.
[1] लतावेष्टितकं [2] वृक्षाधिरूढकं [3] तिल-तण्डुलकं [4] क्षीर-नीरकम् इति चत्वारि संप्रयोग-काले..2.2.15 लतेव शालम् आवेष्टयन्ती चुम्बनार्थं मुखम् अवनमयेत्. उद्धृत्य मन्द-सीत्कृता तम् आश्रिता वा किंचिद् रामणीयकं पश्येत् तल् [1] लतावेष्टितकम्.
चरणेन चरणम् आक्रम्य द्वितीयेनोरु-देशम् आक्रमन्ती वेष्टयन्ती वा तत्-पृष्ठ-सक्तैक- बाहुर् द्वितीयेनांसम् अवनमयन्ती ईषन् मन्द-सीत्कृत-कूजिता चुमबनार्थम् एवाधिरोढुम् इच्छेद् इति [2] वृक्षाधिरूढकम्.
तद् उभयम् स्थित-कर्म.
शयन-गताव् एवोरु-व्यत्यासं भुज-व्यत्यासं च स:संघर्षम् इव घनं संस्वजेते तत् [3] तिल-तण्डुलकम्.
रागान्धाव् अन्:अपेक्षितात्ययौ परस्परम् अनुविशत इवोत्सङ्ग-गतायाम् अभिमुखोपविष्टायां शयने वेति [4] क्षीर-जलकम्.
तद् उभयं राग-काले.
इत्य् उपगूहन-योगा बाभ्रवीयाः.
सुवर्णनाभस्य त्व् अधिकम् एकाङ्गोपगूहन-चतुष्टयम्.
तत्रोरु-संदंशेनैकम् ऊरुम् ऊरुद्वयं वा सर्वप्राणं पीडयेद् इत्य् ऊरूपगूहनम्[1].
जघनेन जघनम् अवपीड्य प्रकीर्यमाण-केश-हस्ता नख-दशन-प्रहणन-चुम्बन- प्रयोजनाय तद् उपरि लङ्घयेत् तज् जघनोपगूहनम्[2].
स्तनाभ्याम् उरः प्रविश्य तत्रैव भारम् आरोपयेद् इति स्तनालिङ्गनम्[3].
मुखे मुखम् आसज्याक्षिणी अक्ष्णोर् ललाटेन ललाटम् आहन्यात् साललाटिका[4].
संवाहनम् अप्य् उपगूहन-प्रकारम् इत्य् एके मन्यन्ते. संस्पर्शत्वात्.
पृथक्-कालत्वाद् भिन्न-प्रयोजनत्वाद् अ:साधारणत्वान् नेति वात्स्यायनः
पृच्छतां शृण्वतां वापि तथा कथयताम् अपि. उपगूह-विधिं कृत्स्नं रिरंसा जायते नृणाम्..
ये ऽपि ह्य् अ:शास्त्रिताः केचित् संयोगा राग-वर्धनाः. आदरेणैव ते ऽप्य् अत्र प्रयोज्याः सांप्रयोगिकाः..
शास्त्राणां विषयस् तावद् यावन् मन्द-रसा नराः. रतिचक्रे-प्रवृत्ते तु नैव शास्त्रम् न च क्रमः..
मूल पाठ: Kāmasūtra · Data entry Jean Fezas · GRETIL (Göttingen) · CC BY-NC-SA 4.0