कामसूत्र · अध्याय 3.1
स:वर्नायाम् अन्:अन्यपूर्वायां शास्त्रतो ऽधिगतायां धर्मो ऽर्थः पुत्राः संबन्धः पक्ष-वृद्धिर् अन्:उपस्कृता((60)) रतिश् च((61)).
तस्मात् कन्याम् अभिजनोपेतां माता-पितृमतीं त्रि-वर्षात् प्रभृति न्यून-वयसं श्लाघ्याचारे धनवति पक्षवति कुले संबन्धि-प्रिये संबन्धिभिर् आकुले प्रसूतां प्रभूत-मातृ-पितृ-पक्षां रूप-शील-लक्षण-संपन्नाम् अ:न्यूनाधिका:विनष्ट-दन्त-नख- कर्ण-केषाक्षि-स्तनीम् अ:रोगि-प्रकृति-शरीरां तथा:विध एव श्रुतवाञ् शीलयेत्((62)).
या गृहीत्वा कृतिनम् आत्मानं मन्येत न च समानैर् निन्द्येत तस्यां प्रवृत्तिर् इति घोटकमुखः.
तस्या वरणे माता-पितरौ संबन्धिनश् च प्रयतेरन्. मित्राणि च गृहीत-वाक्यान्य् उभय-संबद्धानि.
तान्य् अन्येषां वरयितॄणां दोषान् प्रत्यक्षान् आगमिकांश् च श्रावयेयुः. कौलान् पौरुषेयान् अभिप्राय-संवर्धकांश् च नायक-गुणान्. विशेषतश् च कन्या-मातुर् अनुकूलांस् तदात्वायति-युक्तान् दर्शयेयुः.
दैव-चिन्तक-रूपश् च शकुन-निमित्त-ग्रह-लग्न-बल-लक्षण-दर्शनेन नायकस्य भविष्यन्तम् अर्थ-संयोगं कल्याणम् अनुवर्णयेत्.
अपरे पुनर् अस्यान्यतो विशिष्टेन कन्या-लाभेन कन्या-मातरम् उन्मादयेयुः.
दैव-निमित्त-शकुनोपश्रुतीनाम् आनुलोम्येन कन्यां वरयेद् दद्याच् च.
न यदृच्छया केवल-मानुषायेति घोटकमुखः.
सुप्तां रुदतीं निष्क्रान्तां वरणे परिवर्जयेत्.
अ:प्रशस्त-नामधेयां च गुप्तां दत्तां घोनां((63)) पृषताम्((64)) ऋषभां((65)) विनतां विकटां((66)) विमुण्डां((67)) शुचि-दूषितां((68)) सांकरिकीं((69)) राकां((70)) फलिनीं मित्रां स्वनुजां वर्षकरीं च वर्जयेत्.
नक्षत्राख्यां नदी-नाम्नीं वृक्ष-नाम्नीं च गर्हिताम्. ल-कार-रेफोपान्तां च वरणे परिवर्जयेत्..
यस्यां मनश्-चक्षोर् निबन्धस् तस्याम् ऋद्धिः. नेतराम् आद्रियेत. इत्य् एके.
तस्मात् प्रदान-समये कन्याम् उदार-वेषां स्थापयेयुः. अपराह्णिकं च. नित्यं प्रासाधितायाः सखीभिः सह क्रीडा. यज्ञ-विवाहादिषु जन-संद्रावेषु प्रायत्निकं दर्शनम्. तथोत्सवेषु च. पण्य-स:धर्मत्वात्.
वरणार्थम् उपगतांश् च भद्र-दर्शनान् प्रदक्षिण-वाचश् च तत्-संबन्धि-सङ्गतान् पुरुषान् मङ्गलैः प्रतिगृह्णीयुः.
कन्यां चैषाम् अलंकृताम् अन्यापदेशेन दर्शयेयुः.
दैवं परीक्षणं चावधिं स्थापयेयुः. आ प्रदान-निश्चयात्.
स्नानादिषु नियुज्यमाना वरयितारः सर्वं भविष्यतीत्य् उक्त्वा न तद्-अहर् एवाभ्युपगच्छेयुः.
देश-प्रवृत्ति-सात्म्याद् वा ब्राह्म-प्राजापत्यार्ष-दैवानाम् अन्यतमेन विवाहेन शास्त्रतः परिणयेत्.
इति वरणविधानम्((71)).
सेच्तिओन् (प्रकरण)24
भवन्ति चात्र श्लोकाः.
समस्याद्याः सह-क्रीडा विवाहाः सङ्गतानि च. समानैर् एव कर्याणि नोत्तमैर् नापि वाधमैर्..
कन्यां गृहीत्वा वर्तेत प्रेष्यवद् यत्र नायकः. तं विद्याद् उच्च-संबन्धं परित्यक्तं मनस्विभिः..
स्वामिवद् विचरेद् यत्र बान्धवैः स्वैः पुरस्:कृतः. अ:श्लाघ्यो हीन-संबन्धः सो ऽपि सद्भिर् विनिन्द्यते..
परस्पर-सुखास्वादा क्रीडा यत्र प्रयुज्यते. विशेषयन्ती चान्योन्यं संबन्धः स विधीयते..
कृत्वापि चोच्च-संबन्धं पश्चाज् ज्ञातिषु संनमेत्. न त्व् एव हीन-संबन्धं कुर्यात् सद्भिर् विनिन्दितम्((72))..
मूल पाठ: Kāmasūtra · Data entry Jean Fezas · GRETIL (Göttingen) · CC BY-NC-SA 4.0