भाषा

ENहिગુ
ग्रंथ पाठ

कामसूत्र · अध्याय 1.5

1.5.1

कामश् चतुर्षु वर्णेषु स:वर्णतः शास्त्रतश् चान्:अन्य-पूर्वायां प्रयुज्यमानः पुत्रीयो यशस्यो लौकिकश् च भवति.

1.5.2

तद्-विपरीत उत्तम-वर्नासु परपरिगृहीतासु च. प्रतिषिद्धो ऽवर-वर्णास्व् अ:निरवसितासु. वेश्यासु पुनर्भूषु च न शिष्टो न प्रतिषिद्धः. सुखार्थत्वात्.

1.5.3

तत्र नायिकास् तिस्रः कन्या पुनर्भूर् वेश्या च. इति.

1.5.4

अन्य-कारण-वशात् पर-परिगृहीतापि पाक्षिकी चतुर्थीति गोणिकापुत्रः.

1.5.5

स यदा मन्यते स्वैरिणीयम्..1.5.6 अन्यतो ऽपि बहुशो व्यवसित-चारित्रा तस्यां वेश्यायाम् इव गमनम् उत्तम-वर्णिन्याम् अपि न धर्म-पीडां करिष्यति पुनर्भूर् इयम्.

1.5.7

अन्यपूर्वावरुद्धा नात्र शङ्कास्ति.

1.5.8

पतिं वा महान्तम् ईश्वरम् अस्मद्-अ:मित्र-संसृष्टम् इयम् अवगृह्य प्रभुत्वेन चरति. सा मया संसृष्टा स्नेहाद् एनं व्यावर्तयिष्यति.

1.5.9

वि:रसं वा मयि शक्तम् अपकर्तु-कामं च प्रकृतिम् आपादयिष्यति.

1.5.10

तया वा मित्री-कृतेन मित्र-कार्यम् अ:मित्र-प्रतीघातम् अन्यद् वा दुष्:प्रतिपादकं कार्यं साधयिष्यामि.

1.5.11

संसृष्टो वानया हत्वास्याः पतिम् अस्मद्-भाव्यं तद्-ऐश्वर्यम् एवम् अधिगमिष्यामि.

1.5.12

निर्:अत्ययं वास्या गमनम् अर्थानुबद्धम्. अहं च निः:सारत्वात् क्षीण-वृत्त्य्-उपायः. सो ऽहम् अनेनोपायेन तद्-धनम् अतिमहद् अ:कृच्छ्राद् अधिगमिष्यामि.

1.5.13

मर्म-ज्ञा वा मयि दृढम् अभिकामा सा माम् अन्:इच्छन्तं दोष-विख्यापनेन दूषयिष्यति.

1.5.14

अ:सद्-भूतं वा दोषं श्रद्धेयं दुष्:परिहारं मयि क्षेप्स्यति येन मे विनाशः स्यात्.

1.5.15

आयतिमन्तं वा वश्यं पतिं मत्तो विभिद्य द्विषतः संग्राहयिष्यति.

1.5.16

स्वयं वा तैः सह संसृज्येत. मद्-अवरोधानां वा दूषयिता पतिर् अस्यास् तद् अस्याहम् अपि दारान् एव दूषयन् प्रतिकरिष्यामि.

1.5.17

राज-नियोगाच् चान्तर्:वर्तिनं शत्रुं वास्य निर्हनिष्यामि.

1.5.18

याम् अन्यां कामयिष्ये सास्या वशगा. ताम् अनेन संक्रमेणाधिगमिष्यामि.

1.5.19

कन्याम् अ:लभ्यां वात्माधीनाम् अर्थ-रूपवतीं मयि संक्रामयिष्यति.

1.5.20

ममा:मित्रो वास्याः पत्या सहैकी:भावम् उपगतस् तम् अनया रसेन योजयिष्यामीत्य् एवम्:आदिभिः कारणैः पर-स्त्रियम् अपि प्रकुर्वीत.

1.5.21

इति साहसिक्यं न केवलं रागाद् एव.
इति पर-परिग्रह-गमण-कारणानि.

1.5.22

एतैर् एव कारणैर् महा-मात्र-संबद्धा राज-संबद्धा वा तत्रैक-देश-चारिणी का चिद् अन्या वा कार्य-संपादिनी विधवा पञ्चमीति चारायणः.

1.5.23

सैव प्रव्रजिता षष्ठीति सुवर्णनाभः.

1.5.24

गणिकाया दुहिता परिचारिका वान्:अन्य-पूर्वा सप्तमीति घोटकमुखः.

1.5.25

उत्क्रान्त-बाल-भावा कुल-युवतिर् उपचारान्यत्वाद् अष्टमीति गोनर्दीयः.

1.5.26

कार्यान्तरा:भावाद् एतासाम् अपि पूर्वास्व् एवोपलक्षणम् तस्माच् चतस्र एव नायिका इति वात्स्यायनः.

1.5.27

भिन्नत्वात् तृतीय-प्रकृतिः पञ्चमीत्य् एके.

1.5.28

एक एव तु सार्वलौकिको नायकः. प्रच्छन्नस् तु द्वितीयः. विशेषालाभात्. उत्तमाधम-मध्यमतां तु गुण-गुणतो विद्यात्. तांस् तूभयोर् अपि गुणा:गुणान् वैशिके वक्ष्यामः.

1.5.29

अ:गम्यास् त्व् एवैताः कुष्ठिन्य् उन्मत्ता पतिता भिन्न-रहस्या प्रकाश-प्रार्थिनी गत-प्राय- यौवनातिश्वेतातिकृष्णा दुर्:गन्धा संबन्धिनी सखी प्रव्रजिता संबन्धि-सखि-श्रोत्रिय- राज-दाराश् च.

1.5.30

दृष्ट-पञ्च-पुरुषा ना:गम्या का चिद् अस्तीति बाभ्रवीयाः.

1.5.31

संबन्धि-सखि-श्रोत्रिय-राज-दार-वर्जम् इति गोणिकापुत्रः.

1.5.32

सह-पांसु-क्रीडितम् उपकार-संबद्धं समान-शील-व्यसनं सहाध्यायिनं यश् चास्य मर्मणि रहस्यानि च विद्यात् यस्य चायं विद्याद् वा धात्र्-अपत्यं सह-संवृद्धं मित्रम्.

1.5.33

पितृ-पैतामहम् अ:विसंवादकम् अ:दृष्ट-वैकृतं वश्यं ध्रुवम् अ:लोभ-शीलम् अ:परिहार्यम् अ:मन्त्र-विस्रावीति मित्र-संपत्.

1.5.34

रजक-नापित-मालाकार-गान्धिक-सौरिक-भिक्षुक-गोपालक-ताम्बूलिक-सौवर्णिक-पीठमर्द- विट-विदूषकादयो मित्राणि. तद्-योषिन् मित्राश् च नागरकाः स्युर् इति वात्स्यायनः.

1.5.35

यद् उभयोः साधारणम् उभयत्रोदारं विशेषतो नायिकायाः सु:विस्रब्धं तत्र दूत-कर्म.

1.5.36

पटुता धाष्ट्र्यम् इङ्गिताकार-ज्ञता प्रतारण-काल-ज्ञता विषह्य-बुद्धित्वं लघ्वी प्रतिपत्तिः सोपाया च
इति दूत-गुणाः.

1.5.37

भवति चात्र श्लोकः.
आत्मवान् मित्रवान् युक्तो भावज्ञो देश-काल-वित्. अ:लभ्याम् अप्य् अ:यत्नेन स्त्रियं संसाधयेन् नरः..

मूल पाठ: Kāmasūtra · Data entry Jean Fezas · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc