भाषा

ENहिગુ
ग्रंथ पाठ

कामसूत्र · अध्याय 2.1

2.1.1

शशो वृषो ऽश्व इति लिङ्गतो नायक-विशेषाः. नायिका पुनर् मृगी बडवा हस्तिनी चेति.

2.1.2

तत्र स:दृश-संप्रयोगे सम-रतानि त्रीणि.

2.1.3

विपर्ययेण वि:षमाणि षट्. वि:षमेष्व् अपि पुरुषाधिक्यं चेद् अन्:अन्तर-संप्रयोगे द्वे उच्च-रते. व्यवहितम् एकम् उच्च-तर-रतम्. विपर्यये पुनर् द्वे नीच-रते. व्यवहितम् एकं नीच-तर-रतं च. तेषु समानि श्रेष्ठानि. तर-शब्दाङ्किते द्वे कनिष्ठे. शेषाणि मध्यमानि.

2.1.4

साम्ये ऽप्य् उच्चाङ्कं नीचाङ्काज् ज्यायः. इति प्रमाणतो नव-रतानि.

2.1.5

यस्य संप्रयोग-काले प्रीतिर् उदासीना वीर्यम् अल्पं क्षतानि च न सहते स मन्द-वेगः.

2.1.6

तद्-विपर्ययौ मध्यम-चण्ड-वेगौ भवतः. तथा नायिकापि.

2.1.7

तत्रापि प्रमाणवद् एव नव-रतानि.

2.1.8

तद्वत् कालतो ऽपि शीघ्र-मध्य-चिर-काला नायकाः.

2.1.9

तत्र स्त्रियां विवादः.

2.1.10

न स्त्री पुरुषवद् एव भावम् अधिगच्छति.

2.1.11

सातत्यात् त्व् अस्याः पुरुषेण कण्डूतिर् अपनुद्यते.

2.1.12

सा पुनर् आभिमानिकेन सुखेन संसृष्टा रसान्तरं जनयति तस्मिन् सुख-बुद्धिर् अस्याः.

2.1.13

पुरुष-प्रतीतेश् चान्:अभिज्ञत्वात् कथं ते सुखम् इति प्रष्टुम् अ:शक्यत्वात्.

2.1.14

कथम् एतद् उपलभ्यत इति चेत् पुरुषो हि रतिम् अधिगम्य स्वेच्छया विरमति न स्त्रियम् अपेक्षते न त्व् एवं स्त्रीत्य् औद्दालिकः.

2.1.15

तत्रैतत् स्यात् चिर-वेगे नायके स्त्रियो ऽनुरज्यन्ते शीघ्र-वेगस्य भावम् अन्:आसाद्यावसाने ऽभ्यसूयिन्यो भवन्ति. तत् सर्वं भाव-प्राप्तेर् अ:प्राप्तेश् च लक्षणम्.

2.1.16

तच् च न. कण्डूति-प्रतीकारो ऽपि हि दीर्घ-कालं प्रिय इति. एतद् उपपद्यत एव. तस्मात् संदिग्धत्वाद् अ:लक्षणम् इति.

2.1.17

संयोगे योषितः पुंसा कण्डूतिर् अपनुद्यते. तच् चाभिमान-संसृष्टं सुखम् इत्य् अभिधीयते..

2.1.18

सातत्याद् युवतिर् आरम्भात् प्रभृति भावम् अधिगच्छति. पुरुषः पुनर् अन्त एव. एतद् उपपन्नतरम्. न ह्य् अ:सत्यां भाव-प्राप्तौ गर्भ-संभव इति बाभ्रवीयाः.

2.1.19

तत्रापि ताव् एवाशङ्का-परिहारौ भूयः.

2.1.20

तत्रैतत् स्यात् ण् सातत्येन रस-प्राप्ताव् आरम्भ-काले मध्यस्थ-चित्तता नाति:सहिष्णुता च. ततः क्रमेणाधिको राग-योगः शरीरे निर्:अपेक्षत्वम् अन्ते च विरामाभीप्सेत्य् एतद् उपपन्नम् इति.

2.1.21

तच् च न. सामान्ये ऽपि भ्रान्ति-संस्कारे कुलाल-चक्रस्य भ्रमरकस्य वा भ्रान्ताव् एव वर्तमानस्य प्रारम्भे मन्द-वेगता ततश् च क्रमेण पूरणं वेगस्येत्य् उपपद्यते. धातु-क्षयाच् च विरामाभीप्सेति. तस्माद् अन्:आक्षेपः.

2.1.22

सुरतान्ते सुखं पुंसां स्त्रीणां तु सततं सुखम्. धातु-क्षय-निमित्ता च विरामेच्छोपजायते..

2.1.23

तस्मात् पुरुषवद् एव योषितो ऽपि रस-व्यक्तिर् द्रष्टव्या.

2.1.24

कथं हि समानायाम् एवाकृताव् एकार्थम् अभिप्रपन्नयोः कार्य-वैलक्षण्यं स्यात्.

2.1.25

उपाय-वैलक्षण्याद् अभिमान-वैलक्षण्याच् च.

2.1.26

कथम् उपाय-वैलक्षण्यं तु सर्गात्. कर्ता हि पुरुषो ऽधिकरणं युवतिः. अन्यथा हि कर्ता क्रियां प्रतिपद्यते ऽन्यथा चाधारः. तस्माच् चोपाय-वैलक्षण्यात् सर्गाद् अभिमान-वैलक्षण्यम् अपि भवति. अभियोक्ताहम् इति पुरुषो ऽनुरज्यते. अभियुक्ताहम् अनेनेति युवतिर् इति वात्स्यायनः.

2.1.27

तत्रैतत् स्याद् उपाय-वैलक्षण्यवद् एव हि कार्य-वैलक्षण्यम् अपि कस्मान् न स्याद् इति. तच् च न. हेतुमद् उपाय-वैलक्षण्यम्. तत्र कर्त्र्-आधारयोर् भिन्न-लक्षणत्वाद् अ:हेतुमत्-कार्य-वैलक्षण्यम् अन्याय्यं स्यात्. आकृतेर् अ:भेदाद् इति.

2.1.28

तत्रैतत् स्यात्. संहत्य कारकैर् एको ऽर्थो ऽभिनिर्वर्त्यते. पृथक् पृथक् स्वार्थ-साधकौ पुनर् इमौ तद् अ:युक्तम् इति.

2.1.29

तच् च न. युगपद् अन्:एकार्थ-सिद्धिर् अपि दृश्यते. यथा मेषयोर् अभिघाते कपित्थयोर् भेदे मल्लयोर् युद्ध इति. न तत्र कारक-भेद इति चेद् इहापि न वस्तु-भेद इति. उपाय-वैलक्षण्यं तु सर्गाद् इति तद् अभिहितं पुरस्तात्. तेनोभयोर् अपि सदृशी सुख-प्रतिपत्तिर् इति.

2.1.30

जातेर् अ:भेदाद् दंपत्योः स:दृशम् सुखम् इष्यते. तस्मात् तथोपचर्या स्त्री यथाग्रे प्राप्नुयाद् रतिम्...2.1.31 स:दृशत्वस्य सिद्धत्वात् काल-योगीन्य् अपि भावतो ऽपि कालतः प्रमाणवद् एव नव रतानि.

2.1.32

रसो रतिः प्रीतिर् भावो रागो वेगः समाप्तिर् इति रति-पर्यायाः. संप्रयोगो रतं रहः शयनं मोहनं सुरत-पर्यायाः.

2.1.33

प्रमाण-काल-भाव-जानां संप्रयोगानाम् एकैकस्य नव-विधत्वात् तेषां व्यतिकरे सुरत-संख्या न शक्यते कर्तुम्. अति:बहुत्वात्.

2.1.34

तेषु तर्काद् उपचारान् प्रयोजयेद् इति वात्स्यायनः.

2.1.35

प्रथम-रते चण्ड-वेगता शीघ्र-कालता च पुरुषस्य तद्-विपरीतम् उत्तरेषु. योषितः पुनर् एतद् एव विपरीतम्. आ धातु-क्षयात्.

2.1.36

प्राक् च स्त्री-धातु-क्षयात् पुरुष-धातु-क्षय इति प्रायोवादः.

2.1.37

मृदुत्वाद् उपमृद्यत्वान् निसर्गाच् चैव योषितः. प्राप्नुवन्त्य् आशु ताः प्रीतिम् इत्य् आचार्या व्यवस्थिताः..

2.1.38

एतावद् एव युक्तानां व्याख्यातं साम्प्रयोगिकम्. मन्दानाम् अवबोधार्थं विस्तरो ऽतः प्रवक्ष्यते((7)).
सेच्तिओन् (प्रकरण)7

2.1.39

अभ्यासाद् अभिमानाच् च तथा संप्रत्ययाद् अपि. विषयेभ्यश् च तन्त्र-ज्ञाः प्रीतिम् आहुश् चतुर्-विधाम्..

2.1.40

शब्दादिभ्यो बहिर्:भूता या कर्माभ्यास-लक्षणा. प्रीतिः साभ्यासिकी ज्ञेया मृगयादिषु कर्मसु..

2.1.41

अन्:अभ्यस्तेष्व् अपि पुरा कर्मस्व् अ:विषयात्मिका. संकल्पाज् जायते प्रीतिर् या सा स्याद् आभिमानिकी..

2.1.42

प्रकृतेर् या तृतीयस्याः स्त्रियाश् चैवोपरिष्टके. तेषु तेषु च विज्ञेया चुमबनादिषु कर्मसु..

2.1.43

नान्यो ऽयम् इति यत्र स्याद् अन्यस्मिन् प्रीति-कारणे. तन्त्र-ज्ञैः कथ्यते सापि प्रीतिः संप्रत्ययात्मिका..

2.1.44

प्रत्यक्षा लोकतः सिद्धा या प्रीतिर् विषयात्मिका. प्रधान-फलवत्त्वात् सा तद्-अर्थाश् चेतरा अपि..

2.1.45

प्रीतीर् एताः परामृश्य शास्त्रतः शास्त्र-लक्षणाः. यो यथा वर्तते भावस् तं तथैव प्रयोजयेत्((8))..

मूल पाठ: Kāmasūtra · Data entry Jean Fezas · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc