भाषा

ENहिગુ
ग्रंथ पाठ

कामसूत्र · अध्याय 1.4

1.4.1

गृहीत-विद्यः प्रतिग्रह-जय-क्रय-निर्वेशाधिगतैर् अर्थैर् अन्वयागतैर् उभयैर् वा गार्हस्थ्यम् अधिगम्य नागरक-वृत्तं वर्तेत.

1.4.2

नगरे पत्तने खर्वटे महति वा सज्-जनाश्रये स्थानम्. यात्रा-वशाद् वा.

1.4.3

तत्र भवनम् आसन्नोदकं वृक्ष-वाटिकवद् विभक्त-कर्म-कक्षं द्वि-वास-गृहं कारयेत्.

1.4.4

बाह्ये च वास-गृहे सु:श्लक्ष्णम् उभयोपधानं मध्ये विनतं शुक्लोत्तर-च्छदं शयनीयं स्यात्. प्रतिशय्यिका च. तस्य शिरो-भागे कूर्च-स्थानं वेदिका च. तत्र रात्रि-शेषम् अनुलेपनं माल्यं सिक्थ-करण्डकं सौगन्धिक-पुटिका मातुलुङ्ग-त्वचस् ताम्बूलानि च स्युः. भूमौ पतद्ग्रहः. नाग-दन्तावसक्ता वीणा. चित्र-फलकम्. वर्तिकासमुद्गकः. यः कश् चित् पुस्तकः. कुरण्टक-मालाश् च. नातिदूरे भूमौ वृत्तास्तरणं समस्तकम्. आकर्ष-फलकं द्यूत-फलकं च. तस्य बहिः क्रीडा-शकुनि- पञ्जराणि. एकान्ते च तक्ष-तक्षञ-स्थानम् अन्यासां च क्रीडानाम्. स्व्:आस्तीर्णा प्रेङ्खदोला वृक्ष-वाटिकायां स:प्रच्छाया. स्थण्डिल-पीठिका च स:कुसुमेति भवन-न्यासः.

1.4.5

स प्रातर् उत्थाय कृत-नियत-कृत्यः गृहीत-दन्त-धावनः मात्रयानुलेपनं धूपं स्रजम् इति च गृहीत्वा दत्त्वा सिक्थकम् अलक्तकं च दृष्ट्वादर्शे मुख्म् गृहीत-मुख-वास- ताम्बूलः कार्याण्य् अनुतिष्ठेत्.

1.4.6

नित्यं स्नानम्. द्वितीयकम् उत्सादनम्. तृतीयकः फेनकः. चतुर्थकम् आयुष्यम्. पञ्चमकं दशमकं वा प्रत्यायुष्यम् इत्य् अ:हीनम्. सातत्याच् च संवृत-कक्षास्वेदापनोदः.

1.4.7

पूर्वाह्णापराह्णयोर् भोजनम्. सायं चारायणस्य.

1.4.8

भोजनानतरं शुक-सारिका-प्रलापन-व्यापाराः. लावक-कुक्कुट-मेष-युद्धानि तास् ताश् च कला-क्रीडाः. पीठमर्द-विट-विदूषकायत्ता व्यापाराः. दिवा-शय्या च.

1.4.9

गृहीत-प्रसाधनस्यापराह्णे गोष्ठी-विहाराः.

1.4.10

प्रदोषे च संगीतकानि. तद्-अन्ते च प्रसाधिते वास-गृहे संचारित-सुरभि-धूपे स:सहायस्य शय्यायाम् अभिसारिकाणां प्रतीक्षणम्.

1.4.11

दूतीनां प्रेषणम् स्वयं वा गमनम्.

1.4.12

आगतानां च मनोहरैर् आलापैर् उपचारैश् च स:सहायस्योपक्रमाः..1.4.13 वर्ष-प्रमृष्ट-नेपथ्यानां दुर्:दिनाभिसारिकाणाम् स्वयम् एव पुनर्-मण्डनम् मित्र-जनेन वा परिचरणम् इत्य् आहोरात्रिकम्.

1.4.14

घटा-निबन्धनम् गोष्ठी-समवायः समापानकम् उद्यान-गमनम् समस्याः क्रीडाश् च प्रवर्तयेत्.

1.4.15

पक्षस्य मासस्य वा प्रज्ञाते ऽहनि सरस्वत्या भवने निय्क्तानां नित्यं समाजः.

1.4.16

कुशीलवाश् चागन्तवः प्रेक्षणकम् एषां दद्युः. द्वितीये ऽहनि तेभ्यः पूजा नियतं लभेरन्. ततो यथा-श्रद्धम् एषां दर्शनम् उत्सर्गो वा. व्यसनोत्सवेषु चैषां पर्स्परस्यैक-कार्यता.

1.4.17

आगन्तूनां च कृत-समवायानां पूजनम् अभ्युपत्तिश् च.
इत्य् गण-धर्मः.

1.4.18

एतेन तं तं देवता-विशेषम् उद्दिश्य संभावित-स्थितयो घटा व्याख्याताः.

1.4.19

वेश्या-भवने सभायाम् अन्यतमस्योद्वसिते वा समान-विद्या-बुद्धि-शील-वित्त-वयसां सह वेश्याभिर् अनुरूपैर् आलापैर् आसन-बन्धो गोष्ठी.

1.4.20

तत्र चैशां काव्य-समस्या कला-समस्या वा.

1.4.21

तस्याम् उज्ज्वला लोक-कान्ताः पूज्याः. प्रीति-समानाश् चाहारितः.

1.4.22

परस्पर-भवनेषु चापानकानि.

1.4.23

तत्र मधु-मैरेय-सुरान् विविध-लवण-फल-हरित-शाक-तिक्त-कटुकाम्लोपदंशान् वेश्याः पाययेयुर् अनुपिबेयुश् च.

1.4.24

एतेनोद्यान-गमनं व्याख्यातम्.

1.4.25

पूर्वाह्ण एव स्व्:अलंकृतास् तुरगाधिरूढा वेश्याभिः सह परिचारकानुगता गच्छेयुः. दैवसिकीं च यात्रां तत्रानुभूय कुक्कुट-युद्ध-द्यूतैः प्रेक्षाभिर् अनुकूलैश् च चेष्टितैः कालं गमयित्वा अपराह्णे गृहीत-तद्-उपभोग-चिह्नास् तथैव प्रत्याव्रजेयुः.

1.4.26

एतेन रचितोद्ग्राहोदकानां ग्रीष्मे जल-क्रीडा-गमनं व्याख्यातम्.

1.4.27

यक्ष-रात्रिः. कौमुदी-जागरः. सु:वसन्तकः.

1.4.28

सह-कार-भञ्जिका, अभ्यूषखादिका बिसखादिका नव-पत्त्रिका उदक-क्ष्वेडिका पाञ्चालानुयानम् एकशाल्मली कदम्ब-युद्धानि तास् ताश् च माहिमान्यो देश्याश् च क्रीडा जनेभ्यो विशिष्टम् आचरेयुः. इति संभूय-क्रीडाः.

1.4.29

एकचारिणश् च विभव-सामर्थ्यात्.

1.4.30

गणिकाया नायिकायाश् च सखीभिर् नागरकैश् च सह चरितम् एतेन व्याख्यातम्.

1.4.31

अ:विभवस् तु शरीर-मात्रो मल्लिका-फेनक-कषाय-मात्र-परिच्छदः पूज्याद् देशाद् आगतः कलासु विचक्षणस् तद्-उपदेशेन गोष्ठ्यां वेशोचिते च वृत्ते साधयेद् आत्मानम् इति पीठ-मर्दः.

1.4.32

भुक्त-विभवस् तु गुणवान् स:कलत्रो वेशे गोष्ठ्यां च बहु-मतस् तद्-उपजीवी च विटः.

1.4.33

एक-देश-विद्यस् तु क्रीडनको विश्वास्यश् च विदूषकः. वैहासिको वा.

1.4.34

एते वेश्यानां नागरकाणां च मन्त्रिणः संधि-विग्रह-नियुक्ताः.

1.4.35

तैर् भिक्षुक्यः कला-विदग्धा मुण्डा वृषल्यो वृद्ध-गणिकाश् च व्याख्याताः.

1.4.36

ग्राम-वासी च स:जातान् विचक्षणान् कौतूहलिकान् प्रोत्साह्य नागरक-जनस्य वृत्तं वर्णयञ् श्रधांश् च जनयंस् तद् एवानुकुर्वीत. गोष्ठीश् च प्रवर्तयेत्. संगत्या जनम् अनुरञ्जयेत्. कर्मसु च साहाय्येन चानुगृह्णीयात्. उपकारयेच् च.
इति नागरक-वृत्तम्.

1.4.37

नात्यन्तं संस्कृतेनैव नात्यन्तं देश-भाषया. कथां गोष्ठीषु कथयंल् लोके बहु-मतो भवेत्..

1.4.38

या गोष्ठी लोक-विद्विष्टा या च स्वैर-विसर्पिणी. पर-हिंसात्मिका या च न ताम् अवतरेद् बुधः..

1.4.39

लोक-चित्तानुवर्तिन्या क्रीडा-मात्रैक-कार्यया. गोष्ठ्या सह-चरन् विद्वांल् लोके सिद्धिं नियच्छति..

मूल पाठ: Kāmasūtra · Data entry Jean Fezas · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc