कामसूत्र · अध्याय 1.3
धर्मार्थाङ्गविद्या-कालान् अन्:उपरोधयन् काम-सूत्रं तद्-अङ्ग-विद्याश् च पुरुषो ऽधीयीत.
प्राग् यौवनात् स्त्री. प्रत्ता च पत्युर् अभिप्रायात्.
योषितां शास्त्र-ग्रहणस्याभावाद् अन्:अर्थकम् इह शास्त्रे स्त्री-शासनम् इत्य् आचार्याः.
प्रयोग-ग्रहणं त्व् आसाम्. प्रयोगस्य च शास्त्र-पूर्वकत्वाद् इति वात्स्यायनः.
तन् न केवलम् इहैव. सर्वत्र हि लोके कति चिद् एव शास्त्र-ज्ञाः. सर्व-जन-विषयश् च प्रयोगः.
प्रयोगस्य च दूरस्थम् अपि शास्त्रम् एव हेतुः.
अस्ति व्याकरणम् इत्य् अवैयाकरणा अपि याज्ञिका ऊहं क्रतुषु प्रयुञ्जते.
अस्ति ज्यौतिषम् इति पुण्याहेषु कर्म कुर्वते.
तथाश्वारोहा गजारोहाश् चाश्वान् गजांश् चान्:अधिगत-शास्त्रा अपि विनयन्ते.
तथास्ति राजेति दूरस्था अपि जनपदा न मर्यादाम् अतिवर्तन्ते तद्वद् एतत्.
सन्त्य् अपि खलु शास्त्र-प्रहत-बुद्धयो गणिका राज-पुत्र्यो महामात्र-दुहितरश् च.
तस्माद् वैश्वासिकाज् जनाद् रहसि प्रयोगाञ् छास्त्रम् एकदेशं वा स्त्री गृह्णीयात्.
अभ्यास-प्रयोज्यांश् च चातुःषष्टिकान् योगान् कन्या रहस्य् एकाकिन्य् अभ्यसेत्.
आचार्यास् तु कन्यानां प्रवृत्त-पुरुष-संप्रयोगा सह:संप्रवृद्धा धात्रेयिका. तथा:भूता वा निर्:अत्यय-संभाषणा सखी. सवयाश् च मातृ-श्वसा. विस्रब्धा तत्-स्थानीया वृद्ध-दासी. पूर्व-संसृष्टा वा भिक्षुकी. स्वसा च विश्वास-प्रयोगात्.
गीतम् (1), वाद्यम् (2), नृत्यम् (3), आलेख्यम् (4), विशेषकच्छेद्यम् (5), तण्डुल-कुसुम-वलि- विकाराः (6), पुष्पास्तरणम् (7), दशन-वसनागरागः (8), मणि-भूमिका-कर्म (9), शयन-रचनम् (10), उदक-वाद्यम् (11), उदकाघातः (), चित्राश् च योगाः (13), माल्य-ग्रथन- विकल्पाः (14), शेखरकापीड-योजनम् (15), नेपथ्य-प्रयोगाः (16), कर्ण-पत्त्र- भङ्गाः (17), गन्ध-युक्तिः (18), भूषण-योजनम् (19), ऐन्द्रजालाः (20), कौचुमाराश् च (21), हस्त-लाघवम् (22), विचित्र-शाक-यूष-भक्ष्य-विकार-क्रिया (23),.पानकरसरागासव-योजनम् (24), सूचीवान-कर्माणि (25), सूत्रक्रीडा (26), वीणा-डमरुक-वाद्यानि (27), प्रहेलिका (28), प्रतिमाला (29), दुर्वाचक-योगाः (30), पुस्तक-वाचनम् (31), नाटकाख्यायिका-दर्शनम् (32), काव्य-समस्यापूरणम् (33), पट्टिकावान-वेत्र-विकल्पाः (34),तक्ष-कर्माणि (35), तक्षणम् (36), वास्तु-विद्या (37), रूप्य-परीक्षा (38), धातु-वादः (39), मणि-रागाकर-ज्ञानम् (40), वृक्षायुर्वेद-योगाः (41), मेष-कुक्कुट-लावक-युद्ध-विधिः (42), शुक-सारिका-प्रलापनम् (43), उत्सादने संवाहने केशमर्दने च कौशलम् (44),अक्षर-मुष्तिकाकथनम्
(45), म्लेच्छित-विकल्पाः (46), देश-भाषा-विज्ञानम् (47), पुष्प-शकटिका (48), निमित्त-ज्ञानम् (49), यन्त्र-मातृका (50), धारण-मातृका (51), सम्पाठ्यम् (52), मानसी काव्य-क्रिया (53), अभिधानकोशः (54), छन्दो-ज्ञानम् (55), क्रिया-कल्पः (56), छलितक-योगाः (57), वस्त्रगोपनानि (58), द्यूत-विशेषः (59), आकर्ष-क्रीडा (60), बाल-क्रीडनकानि (61), वैनयिकीनाम् (62), वैजयिकीनाम् (63), व्यायामिकीनां च (64) विद्यानां ज्ञानम् इति चतुः-षष्टिर् अङ्ग-विद्या. कामसूत्रावयविन्यः.
पाञ्चालिकी च चतुःषष्टिर् अपरा. तस्याः प्रयोगान् अन्ववेत्य सांप्रयोगिके वक्ष्यामः. कामस्य तद्-आत्मकत्वात्.
आभिर् अभ्युच्छ्रिता वेश्या शील-रूप-गुणान्विता. लभते गणिका-शब्दं स्थानं च जन-संसदि..
पूजिता सा सदा राज्ञा गुणवद्भिश् च संस्तुता. प्रार्थनीयाभिगम्या च लक्ष्य-भूता च जायते..
योग-ज्ञा राज-पुत्री च महामात्र-सुता तथा. सहस्रान्तः-पुरम् अपि स्व-वशे कुरुते पतिम्..
तथा पति-वियोगे च व्यसनं दारुणं गता. देशान्तरे ऽपि विद्याभिः सा सुखेनैव जीवति..
नरः कलासु कुशलो वाचालश् चाटु-कारकः. अ:संस्तुतो ऽपि नारीणां चित्तम् आश्व् एव विन्दति..
कलानां ग्रहणाद् एव सौभाग्यम् उपजायते. देश-कालौ त्व् अपेक्ष्यासां प्रयोगः संभवेन् न वा..
मूल पाठ: Kāmasūtra · Data entry Jean Fezas · GRETIL (Göttingen) · CC BY-NC-SA 4.0