कामसूत्र · अध्याय 1.2
शतायुर् वै पुरुषो विभज्य कालम् अन्योन्यानुबद्धं परस्परस्यानुपघातकं त्रिवर्गं सेवेत.
बाल्ये विद्या-ग्रहणादीन् अर्थान्.
कामं च यौवने.
स्थाविरे धर्मं मोक्षं च.
अ:नित्यत्वाद् आयुषो यथोपपादं वा सेवेत.
ब्रह्मचर्यम् एव त्व् आ विद्या-ग्रहणात्. ब्) अवबोधः
अ:लौकिकत्वाद् अ:दृष्टार्थत्वाद् अ:प्रवृत्तानां अज्ञादीनां शास्त्रात् प्रवर्तनम् लौकि[क]त्वाद् दृष्टार्थत्वाच् च प्रवृत्तेभ्यश् च मांस-भक्षणादिभ्यः शास्त्राद् एव निवारणं धर्मः.
तं श्रुतेर् धर्मज्ञ-समवायाच् च प्रतिपद्येत.
विद्या-भूमि-हिरण्य-पशु-धान्य-भाण्डोपस्कर-मित्रादीनाम् अर्जनम् अर्जितस्य विवर्धनम् अर्थः.
तम् अध्यक्ष-प्रचाराद् वार्ता-समय-विद्भ्यो वणिग्भ्यश् चेति.
श्रोत्र-त्वक्-चक्सुर्-जिह्वा-घ्राणानाम् आत्म-संयुक्तेन मनसाधिष्ठितानां स्वेषु स्वेषु विषयेष्व् आनुकूल्यतः प्रवृत्तिः कामः.
स्पर्श-विशेष-विषयात् त्व् अस्याभिमानिक-सुखानुविद्धा फलवत्य् अर्थ-प्रतीतिः प्राधान्यात् कामः.
तं काम-सूत्रान् नागरिक-जन-समवायाच् च प्रतिपद्येत.
एषां समवाये पूर्वः पूर्वो गरीयान्.
अर्थश् च राज्ञः. तन्-मूलत्वाल् लोक-यात्रायाः. वेश्यायाश् च इति त्रिवर्ग-प्रतिपत्तिः((4)). च्) संप्रतिपत्तिः
धर्मस्या:लौकिकत्वात् तद्-अभिदायकं शास्त्रं युक्तम्. उपाय-पूर्वकत्वाद् अर्थ-सिद्धेः. उपाय-प्रतिपत्तिः शास्त्रात्.
तिर्यग्-योनिष्व् अपि तु स्वयं प्रवृत्तत्वात् कामस्य नित्यत्वाच् च न शास्त्रेण कृत्यम् अस्तीत्य् आचार्याः.
संप्रयोग-पराधीनत्वात् स्त्री-पुंसयोर् उपायम् अपेक्षते.
सा चोपाय-प्रतिपत्तिः काम-सूत्राद् इति वात्स्यायनः.
तिर्यग्-योनिषु पुनर् अन्:आवृतत्वात् श्त्री-जातेश् च ऋतौ यावद् अर्थं प्रवृत्तेर् अ:बुद्धि-पूर्वकत्वाच् च प्रवृत्तीनाम् अन्:उपायः प्रत्ययः.
न धर्मांश् चरेत्. एष्यत्-फलत्वात्. संशयिकत्वाच् च.
को ह्य् अ:बालिशो हस्त-गतं पर-गतं कुर्यात्.
वरम् अद्य कपोतः श्वो मयूरात्.
वरं सांशयिकान् निष्काद् अ:सांशयिकः कार्षापणः. इति लौकायतिकाः..1.2.25 शास्त्रस्यान्:अभिशङ्कत्वाद् अभिचारानुव्याहारयोश् च क्व चित् फल-दर्शनान् नक्षत्र-चन्द्र- सूर्य-तारा-ग्रह-चक्रस्य लोकार्थं बुद्धि-पूर्वकम् इव प्रवृत्तेर् दर्शनाद् वर्णाश्रमाचार-स्थिति-लक्षणत्वाच् च लोकयात्राया हस्त-गतस्य च बीजस्य भविष्यतः सस्यार्थे त्याग-दर्शनाच् चरेद् धर्मान् इति वात्स्यायनः.
नार्थांश् चरेत्. प्रयत्नतो ऽपि ह्य् एते ऽनुष्ठीयमाना नैव कदा चित् स्युः अन्:अनुष्ठीयमाना अपि यदृच्छया भवेयुः.
तत् सर्वं काल-कारितम् इति.
काल एव हि पुरुषान् अर्थानर्थयोर् जय-पराजययोः सुख-दुःखयोश् च स्थापयति.
कालेन बलिर् इन्द्रः कृतः. कालेन व्यपरोपितः. काल एव पुनर् अप्य् एनं कर्तेति कालकारणिकाः.
पुरुष-कार-पूर्वकत्वात् सर्व-प्रवृत्तीनाम् उपायः प्रत्ययः.
अ:वश्यं-भाविनो ऽप्य् अर्थस्योपाय-पूर्वकत्वाद् एव. न निष्कर्मणो भद्रम् अस्तीति वात्स्यायनः.
न कामांश् चरेत्. धर्मार्थयोः प्रधानयोर् एवम् अन्येषां च सतां प्रत्यनीकत्वात्. अनर्थजन-संसर्गम् असद्-व्यवसायम् अशौचम् अन्:आयतिं चैते पुरुषस्य जनयन्ति.
तथा प्रमादं लाघवम् अ:प्रत्ययम् अ:ग्राह्यतां च.
बहवश् च काम-वश-गाः स:गणा एव विनष्टाः श्रूयन्ते.
यथा दाण्डक्यो नाम भोजः कामाद् ब्राह्मण-कन्याम् अभिमन्यमानः स:बन्धु-राष्ट्रो विननाश((5)).
देवराजश् च_अहल्याम् अति-बलश् च कीचको द्रौपदीं रावणश् च सीताम् अपरे चान्ये च बहवो दृश्यन्ते काम-वश-गा विनष्टा इत्य् अर्थचिन्तकाः.
शरीर-स्थिति-हेतुत्वाद् आहार-स:धर्माणो हि कामाः. फल-भूताश् च धर्मार्थयोः.
बोद्धव्यं तु दोषेष्व् इव. न हि भिक्षुकाः सन्तीति स्थाल्यो नाधिश्रीयन्ते. न हि मृगाः सन्तीति यवा नोप्यन्त इति वात्स्यायनः.
भवन्ति चात्र श्लोकाः
एवम् अर्थं च कामं च धर्मं चोपाचरन् नरः. इहामुत्र च निःशल्यम् अत्यन्तं सुखम् अश्नुते..
1.2.40व्1 किं स्यात् परत्रेत्य् आशङ्का कार्ये यस्मिन् न जायते. न चार्थ-घ्नं सुखं चेति शिष्टास् तत्र व्यवस्थिताः..
1.2.40व्2 त्रिवर्ग-साधकं यत् स्याद् द्वयोर् एकस्य वा पुनः. कार्यं तद् अपि कुर्वीत न त्व् एकार्थं द्वि-बाधकम्..
मूल पाठ: Kāmasūtra · Data entry Jean Fezas · GRETIL (Göttingen) · CC BY-NC-SA 4.0