भाषा

ENहिગુ
ग्रंथ पाठ

कल्पद्रुमावदानमाला · श्लोक 81-100

81

इत्य् एनं क्रोधसंरक्तं वेदसिद्धान्तमानिनम्*
सुभूतिं ब्राह्मणं दृष्ट्वा गुरुश् चैवम् अचिन्तयत्* ॥

82

अहो दैवबलाधानात् सुभूतिर् ब्राह्मणो ऽप्य् अयम्*
स्वसिद्धान्तसमानो ऽद्य क्रूरवाग्विग्रहोत्सुकः ॥

83

अग्निकल्पो महातीक्ष्णः सर्वशास्त्रार्थकोविदः
विशारदो महाभिज्ञो धर्मसंयमतत्परः ॥

84

तपश् चरणसंरक्तस् तीक्ष्णबुद्धिः कृतोद्यमः
महोत्साहो महावीरः सिद्धविद्यो महोत्कटः ॥

85

सर्वशास्त्रकलाभिज्ञो मन्त्रसिद्धिप्रयोगवित्*
वेदसिद्धान्तयोगानां पारगश् च महासुधीः ॥

86

किं तु क्रोधाविशुद्धात्मा विग्रही वादसंरतः
किंचिन् निमित्तमात्रे ऽपि विक्रुष्टो ऽथ रुषाशयः ॥

87

कदाचित् कुपितो रुष्टेः संक्लेशाधीरचेतनः
शापाशनिप्रहारेण लोके ऽनर्थं करिष्यति ॥

88

तद् अहं संप्रबोध्यैनं सुभूतिं द्विजसत्तमम्*
समाधिध्यानवर्यासु योजयेयं स सर्वथा ॥

89

इति मत्वा गुरुश् चैनं सुभूतिं समबोधयत्*
शृणु वत्स हितं वक्ष्ये तत्र भव समाहितः ॥

90

सर्ववर्णाग्रजो विप्रः सर्वजातिवरोत्तमः
ब्राह्मणो ऽस्मीत्य् अहंकारो न कर्तव्यः कदाचन ॥

91

न जीवो ब्राह्मणस् तावद् यस्मात् संस्कारतो द्विजः
जीवश् चेद् ब्राह्मणस् तावद् वृथा स्याद् धर्मसंस्कृतैः ॥

92

आद्यन्ते पशवो देवा इति वेदे ऽपि कथ्यते
ततो धर्माभिसंस्कारैः सर्वे स्युर् मानवा द्विजाः ॥

93

श्वपचा अपि धर्मस्थाः संस्कृताः स्युर् द्विजाधमाः
गुणधर्मानुसारैश् च देवा दैत्याश् च मानुषाः ॥

94

सत्वधर्मधरा देवा रजोधर्मधरा नराः
तमोधर्मधरा दैत्या इति सिद्धान्तसंमतम्* ॥

95

इति धर्मगुणाधानात् त्रैधातुकभवालये
चतुर्योनिसमुद्भूताः षड्गतिषु भ्रमन्ति ते ॥

96

तत्रापि कर्मभेदेन जातिभेदा ह्य् अनेकशः
जातिष्व् अपि च सर्वासु स्वकर्मपरिणामतः ॥

97

सत्वा नैकविधा जाता अधमोत्तमम् अध्यमाः
ये सत्वास् तामसा रौद्रा हिंसाकर्मानुसंरताः
ते ऽधोभुवनसंजाता वसन्ति क्लेशभागिनः ॥

98

रजोधर्मरता ये हि रागचर्यानुसारिणः
ते सत्वा भूमिसंजाता वसन्ति मानुषादयः ॥

99

सत्वधर्मरता ये तु सात्विकाः शान्तचारिणः
ते देवा निर्मलानन्दा वसन्ति स्वर्गतिं गताः ॥

100

तथैते सर्वसत्वाश् च गुणधर्मानुसारतः
स्वकृतं कर्म भुञ्जन्तो भ्राम्यन्ति त्रिभवालये ॥

मूल पाठ: Kalpadrumāvadānamālā · Edition: the text appended to P.L. Vaidya's edition of the Avadanasataka (Darbhanga 1958, Buddhist Sanskrit Texts ; 19) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc