कल्पद्रुमावदानमाला · श्लोक 101-120
वृद्धिं प्राप्य गुणाश् चेत्थम् एकैकं गुणवृद्धितः
+ + + + + + + + + + + + + + + + + ॥
आकाशस्य गुणश् चैकः शब्द एव न चापरः
शब्दस्पर्शौ च वायोर् वै द्वौ गुणौ परिकीर्तितौ ॥
अग्नेः शब्दश् च स्पर्शश् च रूपम् एव त्रयो गुणाः
शब्दस्पर्शरूपरसाश् चत्वार्य् एव समीरणे ॥
स्पर्शः शब्दो रसो रूपं गन्धश् च पृथिवीगुणाः
एवं मिलितयोगैश् च ब्रह्माणोत्पत्तिर् उच्यते ॥
सर्वे जीवा मिलित्वैव ब्रह्माणांश् च समुद्भवाः
चतुरशीति लक्षाश् च प्रोक्ता वै जीवजातयः ॥
धर्मतः सुखिनो भूताः पापतो दुःखभागिनः
मिश्रतो मिश्रभुक्तार इत्य् उक्तम् अवदानिकैः ॥
भारते ऽपि तथा प्रोक्तम् ऋषिभिः कर्मवादिभिः
सप्त व्याधा दशारण्ये मृगाः कालिञ्जरे गिरौ ॥
चक्रवाकौ शरद्वीपे हंसाः सरसि मानसे
ते ऽपि जाताः कुरुक्षेत्रे ब्राह्मणा वेदपारगाः ॥
उक्तं च मानवे धर्मे मुनिना मुनिना + +
मिथ्याजीवेन जीवन् यः पतितो ब्राह्मणो ह्य् असौ ॥
वृषलीफेनपीतस्य निःश्वासोपहतस्य च
तयैव सहसुप्तस्य निष्कृतिर् नोपलभ्यते ॥
शूद्रीहस्तेन यो भुञ्क्ते मासम् एकं निरन्तरम्*
जीवमानो भवेच् छूद्रो मृतश् च स प्रजायते ॥
अधीत्य चतुरो वेदान् साङ्गोपाङ्गांश् च तत्वतः
शूद्रात् प्रतिग्रहग्राही ब्राह्मणो जायते खरः ॥
खरो द्वादश जन्मानि षष्टि जन्मानि सूकरः
श्वानः सप्तति जन्मानि इत्य् एवं मनुर् अब्रवीत्* ॥
तथोक्तम् अवदाने ऽपि बुद्धेनाद्वयवादिना
ब्राह्मणो ऽदत्तम् आदाय बभूव वानराधिपः ॥
तत्र स बुद्धनाथाय ददौ च पणसं मुदा
ततश् च मानवो भूत्वा पांशुदाता ह्य् अभूच् छिशुः ॥
तत्कर्मफलतो राजा सर्वानन्दो बभूव सः
तत्रापि बुद्धनाथाय पिण्डपातं ददौ मुदा ॥
तद्दीपंकरप्रसादेन बोधिसत्वो ऽभवन् नृपः
सर्वपारमिताः पूर्य बुद्धो ऽपि स भविष्यति ॥
इत्य् उक्तम् अवदाने ऽपि जिनेनाद्वयवादिना
तस्माच् चैवं विजानीया न जीवो ब्राह्मणः खलु ॥
जात्यापि ब्राह्मणो नैव संस्कृतस् तु द्विजो भवेत्*
जात्या चेद् ब्राह्मणो भूतो वृथा स्यात् संस्कृतेर् विधिः ॥
स्मृतौ हि तत् तथा प्रोक्तं ना जात्या धर्मतो द्विजः
+ + + + + + + + + + + + + + + + ॥
मूल पाठ: Kalpadrumāvadānamālā · Edition: the text appended to P.L. Vaidya's edition of the Avadanasataka (Darbhanga 1958, Buddhist Sanskrit Texts ; 19) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0