कल्पद्रुमावदानमाला · श्लोक 61-80
यस्य प्रज्ञा जगल्लोक हितानुशासनोज्ज्वला
सैव द्विजवरो विज्ञो वेदधर्मास्थितो द्विजः ॥
येनैव निर्जिताः क्लेशाश् चतुर्ब्रह्मविहारिणा
स्वचित्ते भावितं ब्रह्म स एव ब्राह्मणोत्तमः ॥
तस्मात् पुत्र मया प्रोक्तं श्रुत्वा लोकहितोत्सुकः
सर्वक्लेशान् विनिर्जित्य सद्धर्माभिरतो भव ॥
इति पितुर् वचः श्रुत्वा सुभूतिः सो ऽनुमोदितः
कृताञ्जलिस् तथा नत्वा पितरम् इत्य् अभाषत ॥
तथा सत्यं मनस् तात रोचते तपसे मम
तद् आज्ञां देहि मे तात चरिष्ये ब्रह्मसद्व्रतम्* ॥
तेनैवं प्रार्थ्यमानो ऽसौ सुभूतिना पिता ततः
परिष्वज्यात्मजं पुत्रं पुनर् अप्य् अब्रवीन् मुदा ॥
एवं चेत् तव वाञ्छास्ति पुत्र ब्रह्मसुसाधनैः
चर ब्रह्मव्रतं सम्यग् धीरचित्तसमाहितः ॥
आदौ क्रोधरिपुं जित्वा दुष्टभारान् विनिर्जय
यावत् क्रोधम् अनिर्जित्य दुष्टाञ्जेतुं न शक्नुयाः ॥
यावद् दुष्टान् अनिर्जित्य धर्मे स्थातुं न शक्नुयाः
असुसंस्थितधर्माणं हन्युर् मारा हि सर्वथा ॥
तस्माद् वाञ्छति यो ब्रह्म तेनादौ चित्तकोटरात्*
विनिःकृष्य प्रयत्नेन हन्तव्यः क्रोधपन्नगः ॥
क्रोधो हि वसते यस्य चित्ते मानमदाकुले
तावत् सद्गुणयुक्तो ऽपि सेव्यते नैव सज्जनैः ॥
तस्मात् सर्वप्रयत्नेन क्रोधजिष्णुः समाहितः
प्रव्रज्यां समुपासिश्रित्य चर ब्राह्मण्यम् आदरात्* ॥
तथेत्य् असौ प्रतिश्रुत्य सुभूतिः संप्रमोदितः
सहसा पितरौ नत्वा मुनीनाम् आश्रमं ययौ ॥
तत्र प्राप्तो मुनीन् नत्वा कृताञ्जलिपुटो मुदा
ब्राह्मण्यसंवरं प्राप्तुं प्रव्रज्यां समयाचत ॥
गुरो ब्रह्मविदां श्रेष्ठ कल्याणवर्त्मदेशक
प्रव्रज्यां देहि मे सत्यं चरेयं भवमुक्तये ॥
इति तस्य वचः श्रुत्वा गुरुर् ब्रह्मविदां वरः
एहि वत्स चर ब्रह्म चर्यं जित्वा षड् इन्द्रियम्* ॥
इत्य् उक्तो गुरुणा सो ऽभूत् सुभूतिर् मुनिवेषभृत्*
ब्रह्मविहारसंपन्नो विनीतः श्रद्धयान्वितः ॥
तथापि दैवसामर्थ्यात् क्रोधसंरक्तमानसः
किंचिन् निमित्तमात्रे ऽपि विग्रहवान् असंयतः ॥
वेदसिद्धान्तशास्त्रेषु विवादी क्रोधबाहुलः
अतीव रोषसंक्रुष्टो विचिक्षेप यतीन् अपि ॥
धर्मार्थकाममोक्षेषु निरपेक्षः सुतीक्ष्णवाक्*
सर्वत्र मुनिभिश् चापि विजग्राहासमाहितः ॥
मूल पाठ: Kalpadrumāvadānamālā · Edition: the text appended to P.L. Vaidya's edition of the Avadanasataka (Darbhanga 1958, Buddhist Sanskrit Texts ; 19) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0