भाषा

ENहिગુ
ग्रंथ पाठ

कल्पद्रुमावदानमाला · श्लोक 441-460

441

मैत्री हि जगतां माता पिता शास्ता गुरुः प्रभुः
पतिर् मित्रः सुहृद् बन्धुस् तस्मान् मैत्री प्रसाध्यताम्+ ॥

442

मैत्रीं विना न जायेत करुणा स्वात्मजे ऽपि च
न मुदिता न चोपेक्षा तस्मान् मैत्री प्रधीयताम्* ॥

443

एता ब्रह्मविहाराख्याः संबोधिपदसाधकाः
त्रैलोक्यभर्तृका नाथाः सर्वसत्वानुपालकाः ॥

444

एता विना न शोभन्ति महाभिज्ञास् तपस्विनः
कल्पकोटिसहस्राणि तप्त्वापि दुष्करं तपः ॥

445

एता हि परमाचार्याः सद्धर्मगुणदायकाः
एता विना न सिध्यन्ति सर्वपारमितारताः ॥

446

यावन्ति सुखभोग्यानि पुण्यसिद्धानि सर्वथा
तानि सर्वाणि जानीत मैत्रीमूलोद्भवानि हि ॥

447

तस्मात् सर्वप्रयत्नेन क्रोधं जित्वांवरैर् अपि
मैत्रीं चित्ते समाधाय कुरुध्वं प्राणिषु क्षमाम्* ॥

448

ततो धर्मप्रभावेण यूयं सर्वे ऽनुमोदिताः
यावज्जीवं सुखं भुक्त्वा सौखावतीं गमिष्यथ ॥

449

इति श्रुत्वा वचस् तस्य नागाश् च गरुडा यतेः
वैरानुशयतां त्यक्त्वा बभूवुर् मैत्रिचारिणः ॥

450

इति दृष्ट्वा च ते सत्वा विस्मयहर्षसंयुताः
धर्मानुमोदनं कृत्वा बभूवुर् मैत्रिचारिणः ॥

451

एवं सुभूतिना तेन नागाश् च गरुडाश् च ते
मैत्रीधर्मोपदेशेन विनीता धर्मसत्पथे ॥

452

अथ श्रीभगवान् बुद्धः सर्वदर्शी विनायकः
भिक्षून् आमन्त्रयामास संवृतिचारकान् अपि ॥

453

पश्यध्वं भिक्षवो यूयं सुभूतिं ब्रह्मचारिणम्*
येनैते गरुडा नागा विनीता धर्मसत्पथे ॥

454

एष मे श्रावकाणां च भिक्षूणां ब्रह्मचारिणाम्*
सुभूतिः कुलपुत्रो ऽयम् अग्रो ऽरणाविहारिणाम्* ॥

455

इति तेन मुनीन्द्रेण सुभूतिर् एव सद्यतिः
निर्दिष्टः सर्वभिक्षूणाम् अग्रो ऽरणाविहारिणाम्* ॥

456

अथ ते भिक्षवः सर्वे संशयोद्धतमानसाः
च्छेतारं संशयानां तं पप्रच्छुर् एवम् ईश्वरम्* ॥

457

कानि भदन्त कर्माणि कृतान्य् अपि सुभूतिना
निर्दिष्टो भवता येन ज्येष्ठो ऽरणाविहारिणाम्* ॥

458

इति तैर् भिक्षुभिः पृष्टो भगवान् इत्य् उदाहरत्*
शृणुध्वं भिक्षवः सर्वे तत् कृतं यत् सुभूतिना ॥

459

सुभूतिना कृतं कर्म तत् को ऽन्यः परिभोक्ष्यते
येनैव यत् कृतं कर्म तेनैव तत् प्रभुज्यते ॥

460

भूतपूर्वम् अतीते ऽध्वन्य् अस्मिन्* कल्पे च भद्रके
वर्षसहस्रम् आयुष् च विंशतिगुणितं यदा ॥

मूल पाठ: Kalpadrumāvadānamālā · Edition: the text appended to P.L. Vaidya's edition of the Avadanasataka (Darbhanga 1958, Buddhist Sanskrit Texts ; 19) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc