कल्पद्रुमावदानमाला · श्लोक 421-440
मैत्रीमान् पुरुषः साधुर् देवैर् अपि प्रशस्यते
विश्वस्यते सदा सद्भिर् बान्धवैः स्वजनैर् जनैः ॥
मैत्रीमान् सज्जनो लोके निर्गुणो ऽपि प्रशोभते
मैत्रीमान् सन्मतिर् बन्धुर् लोकानां जगताम् अपि ॥
मैत्रीमाञ् जगताम् इष्टो मैत्रीमाञ् जगतां सुहृत्*
मैत्रीमाञ् जगतां मित्रो मैत्रीमाञ् जगतां सखा ॥
मैत्रीमान् पुरुषः श्रीमान् यत्र यत्र प्रगच्छति
तत्र तत्रैव सर्वत्र पूज्यते स्वजनैर् यथा ॥
बुद्धो हि जगतां बन्धुस् त्रैलोक्याधिपनायकः
सो ऽपि शास्ता विभात्य् एवं मैत्र्या संस्कारयञ् जगत्* ॥
ये ये सत्वा महाभिज्ञाः सर्वलोकानुकम्पकाः
पूज्यन्ते सत्वलोकैश् च ते ऽपि मैत्र्याः प्रभावतः ॥
बोधिसत्वा महासत्वा बोधिसंभारसाधकाः
सर्वसत्वहितार्थस्थास् ते ऽपि मैत्रीप्रचारिणः ॥
यन् माता दुःखिताप्य् एवम् आ गर्भाद् बालकं सुतम्*
पाति स्नेहोपचारेण तच् च मैत्रीप्रभावतः ॥
यत् पिता बालकं पुत्रम् अभुञ्जानः स्वयं सुखम्*
पाति स्नेहोपचारेण तच् च मैत्रीप्रभावतः ॥
यच् च राजा प्रजाः पाति स्वयं वीरव्रतं दधत्*
दुर्जनान् मर्दयन् सर्वान् तच् च मैत्रीप्रभावतः ॥
यच् च विद्वान् गुरुः शिष्यान् सद्धर्मार्थोपदर्शयन्*
प्रबोध्य बालकाञ् छास्ति तच् च मैत्रीप्रभावतः ॥
यच् च वीरा रणे स्थित्वा सहन्त्यरीन् प्रहारिणः
प्ररक्षन्ति स्वपक्षांश् च तच् च मैत्रीप्रभावतः ॥
सार्थवाहो ऽम्बुधिं गत्वा यत्नै रत्नानि साधयन्*
सत्वान् पाति ददद् दानं तच् च मैत्रीप्रभावतः ॥
यच् च भार्यानुयात्य् एव मृतेन स्वामिना सह
अनपेक्ष्य स्वजीवे ऽपि तच् च मैत्रीप्रभावतः ॥
पितृभ्यो मृतकेभ्यो ऽपि ददाति पिण्डम् आदरात्*
अनुशोचन् मुहुश् चापि तच् च मैत्रीप्रभावतः ॥
तिर्यग्योन्युद्भवाश् चापि पशवः क्रूरमानसाः
स्वसुतान् स्नेहतः पान्ति तच् च मैत्रीप्रभावतः ॥
कृम्याधिकीटयश् चापि क्रूरा गृध्रादिपक्षिणः
स्वबन्धून् स्नेहतः पान्ति तद् धि मैत्रीप्रभावतः ॥
चण्डाला निर्घृणा रौद्राः सत्वहिंसारताः खलाः
बान्धवांस् ते ऽपि रक्षन्ति तद् धि मैत्रीप्रभावतः ॥
यद् ददन्ति महासत्वाः स्वदेहे ऽप्य् अनपेक्षिताः
अर्थिभ्यः प्रार्थितं वस्तु तद् धि मैत्रीप्रभावतः ॥
एवम् अन्ये ऽपि ये लोका भोजयन्तः परस्परम्*
पालयन्ति महास्नेहात् तच् च मैत्रीप्रभावतः ॥
मूल पाठ: Kalpadrumāvadānamālā · Edition: the text appended to P.L. Vaidya's edition of the Avadanasataka (Darbhanga 1958, Buddhist Sanskrit Texts ; 19) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0