कल्पद्रुमावदानमाला · श्लोक 461-480
तस्मिंश् च समये बुद्धः काश्यपो नाम नायकः
विद्याचरणसंपन्नः सुगतो लोकविज् जिनः ॥
शास्ता देवमनुष्याणां पुरुषदम्यसारथिः
सर्वज्ञो भगवान् नाथः षडभिज्ञो मुनीश्वरः ॥
वाराणसीम् उपाश्रित्य मृगदावे जिनाश्रमे
व्यहरत् सर्वसत्वानाम् सद्धर्मं समुपादिशन्* ॥
तस्यैव शासने शुद्धे स्वाख्याते धर्मवैनये
अयं प्रव्रजितो भूत्वा महादाताप्य् अभूत् तदा ॥
दश वर्षसहस्राणि ब्रह्मचर्यम् अपालयत्*
प्रणिधानं तथा चायम् अकरोद् ब्रह्मवित्तमः ॥
अनेन कुशलेनाहं भवेयं बौद्धसद्यतिः
यो ऽसौ भगवतानेन काश्यपेन सुतायिना ॥
माणव उत्तरो नाम व्याकृत इति बोधये
माणव त्वं प्रजानां तु यदा वर्षशतायुषि ॥
शाक्यमुनिर् महाबुद्धः सर्वज्ञो लोकनायकः
संबुद्धो भगावन् नाथस् तथागतो भविष्यसि ॥
अस्यैव शसने चाहं भवेयं श्रावकोत्तमः
अर्हताम् अग्रसंप्राप्तो भूत्वारणाविहारिणाम्* ॥
तेनैव कर्मणा चाद्य प्रविष्टो मम शासने
अर्हतां ज्येष्ठतां प्राप्तस् तथारणाविहारिणाम्* ॥
कानि पुनर् अनेनैव कर्माणि प्रकृतान्य् अपि
येनैव नागयोनौ च समुत्पन्नो बभूव सः ॥
यत् तः क्लेशाप्रहीणत्वाद् उद्भ्रान्तेन्द्रियचेतसा
शैक्षाशैक्षगाणानां च भिक्षूणां ब्रह्मचारिणाम्* ॥
अनेन रुष्टचित्तेन परुषाबद्धचेतसा
चित्तानि संप्रदूष्यैव विकलानि कृतान्य् अपि ॥
सदाशीविषवादेन विक्रुश्याभाणि सांघिके
तेनैव पातकेनैवं पञ्च जन्मशतान्य् अपि ॥
नागयोनिसमुत्पन्नो बभूवायं महाविषः
यच् चानेन पुनस् तत्र प्रव्रज्य बुद्धशासने ॥
सदा दानानि संदत्वा ब्रह्मचर्यं च पालितम्*
तेनेदानीं तथार्हत्वं प्राप्य साक्षात्कृतं मुदा ॥
अरणाविहारिणां चाग्रो निर्दिष्टो ऽयं मया खलु
इति हि भिक्षवो यूयं जानीध्वं कर्मताफलम्* ॥
येनैव यत् कृतं कर्म तस्यैव तत् फलं ध्रुवम्*
न नश्यन्ति हि कर्माणि कल्पकोटिशतैर् अपि
सामग्रीं प्राप्य कालं च फलन्ति खलु देहिनां ॥
अभुक्तं क्षीयते नैव कर्म क्वापि कथंचन
नाग्निभिर् दह्यते कर्म वायुभिर् नापि शुष्यति
उदकैः क्लिद्यते नैव भूमिष्व् अपि न नश्यति ॥
अन्यथापि च नो भूता सर्वथा कर्मणां गतिः
शुक्लानां शुक्लता नित्यं कृष्णानां कृष्णता खलु
मिश्रतैव तु मिश्राणां षड्गतौ भुज्यते ध्रुवम्* ॥
मूल पाठ: Kalpadrumāvadānamālā · Edition: the text appended to P.L. Vaidya's edition of the Avadanasataka (Darbhanga 1958, Buddhist Sanskrit Texts ; 19) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0