कल्पद्रुमावदानमाला · श्लोक 401-420
दानशीलादिसद्धर्म वृत्तैश् च यदि भूषितः
क्रोधवान् न विभात्य् एव अहिपूर्णो यथा ह्रदः ॥
सर्वविद्याकलाज्ञो ऽपि समृद्धः शिल्पवान् अपि
अस्त्रमन्त्राद्यभिज्ञो ऽपि क्रोधवान् नैव सेव्यताम्* ॥
क्रोधवान् हस्यते लोकैः क्रोधवान् वध्यते जनैः
क्रोधवान् हीयते मित्रैः क्रोधवान् परिभूयते ॥
क्रोधो धर्मविरुद्धत्वाच् चतुर्वर्गविनाशकृत्*
तस्मात् क्रोधविनाशाय प्रयतध्वं समाहिताः ॥
क्रोधेन भिद्यते चित्तं भिन्नचित्तो विकीर्यते
विकीर्णः क्लिश्यते मारैः क्लेशितो ऽधैर्यतां व्रजेत् ॥
अधैर्यत्वाद् भवेन् मूढो मूढो दुष्टवशं व्रजेत्*
दुष्टमित्रोपदेशेन कुपथे चरते कुधीः ॥
असन् मार्गो समारूढो विपरीतं समाचरेत्*
विपरीतानुबोधेन भवेद् आर्यापवादकः ॥
सद्धर्मादीन् प्रतिक्षिप्य प्रतिमादीन् विघातयेत्*
इत्यादिपातकं कृत्वा पञ्चानन्तर्यम् आप्नुयात्* ॥
ततश् च नरकान् यायाद् रौरवादीन् समन्ततः
नरकान् नरकं गत्वा महादुःखम् अवाप्नुयात्* ॥
इत्थं दुःखानुवेदी स नरकेषु सदा वसेत्*
नरकेभ्यस् तम् उद्धर्तुं जिनो ऽपि नैव शक्नुयात्* ॥
यावन्ति पापदुःखानि दुर्वृत्तिप्रभवानि हि
तानि सर्वाणि जानीध्वं क्रोधचित्तोद्भवानि हि ॥
सर्वेषां पातकानां तत् क्रोधं मूलं जगुर् जिनाः
धर्माणां तु क्षमा मूलं यतः सौख्यं प्रवर्तते ॥
इति क्रोधं विनिर्जित्य क्षमैव साध्यतां सदा
मैत्रीचित्तं समालम्ब्य विहरध्वं यथासुखं ॥
आत्मनीव दया स्याच् चेत् स्वजने वा यथा जने
कस्य नाम भवेच् चित्तम् अधर्मप्रणयाशिवम्* ॥
दयावियोगतो लोकः परमामेति विक्रियाम्*
मनोवाक्कायविस्पन्दैः स्वजने ऽपि यथा जने ॥
धर्मार्थी न त्यजेद् अस्माद् दयाम् इष्टफलोदयाम्*
सुवृष्टिर् इव शस्यानि गुणान् सा हि प्रसूयते ॥
दयाक्रान्तं चित्तं न भवति परद्रोहरभसं शुचौ तस्मिन् वाणी व्रजति विकृतं नैव च तनुः
विवृद्धा तस्यैवं परहितरुचिर् मैत्र्यनुगता प्रदानक्षान्त्यादीञ् जनयति गुणान् कीर्त्यनुसृतान्* ॥
दयालुर् नोद्वेगं जनयति परेषाम् उपशमाद् दयालुर् विश्वास्यो भवति जगतां बान्धव इव
न संरम्भक्षोभः प्रभवति दयाधीर् अहृदये न कोपाग्निश् चित्ते ज्वलयति हि दयातोयशिशिरे ॥
संक्षेपेण दयामतः स्थिरतया पश्यन्ति धर्मं बुधाः को नामास्ति गुणः स साधुदयितो यो नानुयातो दयाम्*
तस्मात् पुत्र इवात्मनीव च दयां नीत्वा प्रकर्षं जने सन्मैत्र्या विहरन्त एव मुदितां प्रोद्भावयध्वं सदा ॥
दयालोर् हृदये जाता मैत्री सद्धर्मसाधनी
तस्माद् दयां हृदि स्थाप्य मैत्री लोके प्रसार्यताम्* ॥
मूल पाठ: Kalpadrumāvadānamālā · Edition: the text appended to P.L. Vaidya's edition of the Avadanasataka (Darbhanga 1958, Buddhist Sanskrit Texts ; 19) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0