भाषा

ENहिગુ
ग्रंथ पाठ

कल्पद्रुमावदानमाला · श्लोक 381-400

381

स्वात्मजाः पितरं यच् च स्नेहसत्कारपालकम्*
अविगणय्य पापानि घ्नन्ति क्रोधप्रभावतः ॥

382

गुरून् सद्धर्मशास्तॄंश् च कल्याणाध्वावतारकान्*
अनादृत्य भयं पापा घ्नन्ति क्रोधोद्धता नराः ॥

383

यत् पिता स्वात्मजं पुत्रं पुत्रीं वा बालकाम् अपि
निर्दयस् ताडयन् हन्ति तस्मात् क्रोधो महारिपुः ॥

384

भ्रातरः सहजाश् चापि रोषिता भेदिताशयाः
विगृह्णन्ति महाक्रुद्धास् तस्मात् क्रोधो महारिपुः ॥

385

यत् स्वयं परिणीतापि भार्या धर्मानुचारिणी
ताडिता त्यज्यते भर्त्रा क्रोधात् ततो महद् भयं* ॥

386

प्रमदापि च भर्तारं स्वामिनं स्नेहकारिणम्*
कुलधर्मम् अनादृत्य जहाति क्रोधतस् तथा ॥

387

ये शान्ता यतयो धीराश् चतुर्ब्रह्मविहारिणः
तान् अपि संमुखं दुष्टास् ताडयन्ति रुषान्विताः ॥

388

शान्तात्मा हितकृद्योगी क्षान्तिवादी वने वसन्*
सो ऽपि शकलितो राज्ञा स्वयम् एवासिना रुषा ॥

389

दानवा घ्नन्ति देवांश् च देवाश् च घ्नन्ति दानवान्*
अन्योन्यं विग्रहं कृत्वा प्रमथ्नन्ति रुषाकुलाः ॥

390

आत्मानम् आत्मना हत्वा विषशस्त्रानलादिभिः
वसन्ति नरके घोरे ते ऽपि सर्वे रुषान्विताः ॥

391

ये ये दुष्टाशयाः क्रूराः स्वपरार्थाभिघातकाः
पतन्ति नरके घोरे ते ऽपि सर्वे रुषाश्रयात्* ॥

392

क्रोधेन भिद्यते लोकः क्रोधेन परिभाष्यते
क्रोधेन हिंस्यते जन्तुस् तस्मात् क्रोधो महारिपुः ॥

393

क्रोधेनैव महारुद्रश् चिच् छेद ब्रह्मणः शिरः
तेनैव पातकेनैव भ्रान्तचित्तो ऽभवच् छिवः ॥

394

क्रोधेनैव तथा रुद्रः सुरज्येष्ठात्मजस्य च
श्वशुरस्यापि दक्षस्य च्छेदयामास मस्तकम्*
तत्पापकर्मणा ह्य् एव शिवो ऽप्य् अभूद् दिगम्बरः ॥

395

क्रोधेन ध्वंस्यते धर्मः क्रोधेन विलयं गतः
क्रोधेन त्यज्यते सत्यं तस्मात् क्रोधो महारिपुः ॥

396

यानि महान्ति पापानि महादुःखभयानि च
तानि सर्वाणि दुष्टानि क्रोधचित्तोद्भवानि च ॥

397

तत्क्रोधाद् अपरो वैरः पातको ऽन्यो न विद्यते
तस्मात् क्रोधविनाशाय प्रयतध्वं समाहिताः ॥

398

येन क्रोधो जितो वैरो ज्ञानवज्रेण साधुना
तेन सर्वे जिता दुष्टा शत्रवो दुःखदायकाः ॥

399

यस्य चित्ते दया नास्ति क्रोधानलविदाहिनि
स साधुपुरुषश् चापि नैव विश्वस्यते जनैः ॥

400

क्रोधकलङ्कितो यो हि सद्गुणालंकृतो यदि
स विद्वान् अपि नासेव्यो यथा वृक्षो ऽहिवेष्टितः ॥

मूल पाठ: Kalpadrumāvadānamālā · Edition: the text appended to P.L. Vaidya's edition of the Avadanasataka (Darbhanga 1958, Buddhist Sanskrit Texts ; 19) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc