कल्पद्रुमावदानमाला · श्लोक 281-300
इति श्रुत्वा गुरोर् वाक्य स सुभूतिर् गुणोत्सुकः
तथेति प्रतिसंश्रुत्य ध्यानचर्याम् उपाश्रयत्* ॥
ततो ऽन्यद् वनम् आश्रित्य गुरोर् आज्ञासमाधृतः
सर्वेन्द्रियविनिर्गत्या व्यहरद्ध्यानतत्परः ॥
तत्राधिवसतो ऽस्यापि क्रोधाग्निः समुदीरितः
कर्माधानबलाभ्यासान् नैव शान्तिम् उपाययौ ॥
तत्र च वनषण्डे या वसन्ती वनदेवता
सा सुभूतिं महाक्रोधं दृष्ट्वैवं समचिन्तयत्* ॥
सुभूतिर् ब्राह्मणो ह्य् एष सर्ववेदार्थपारगः
सर्वमन्त्रविधानज्ञः सुतीक्ष्णक्रोधबाहुलः ॥
कदाचित् कुपितश् चायं क्रोधतः शापवह्निना
धक्ष्यति पर्वतांश् चापि सपक्षिजन्तुमानवान्* ॥
समाधिध्यानयुक्तो ऽपि नैव चित्तसमाहितः
ज्ञानविज्ञानधर्मेषु विशेषं नाधिगच्छति ॥
यदि बौद्धेषु धर्मेषु नियुक्तो ऽयं द्विजोत्तमः
क्षिप्रं क्लेशान् विनिर्जित्य बोधिचित्तं च लप्स्यति ॥
बोधिचित्ते प्रलब्धे तु तदा लोकहिते चरेत्*
बोधिसत्वो महाविज्ञो भविष्यति न संशयः ॥
इति निश्चित्य सा देवी कारुण्यहितमानसा
तं सुभूतिं समागम्य जगादैवं पुरः स्थिता ॥
शृणु वत्स महाभाग यन् मया हितम् उच्यते
धन्यो ऽसि त्वं महाधीर महर्षिर् द्विजसत्तम ॥
किमर्थं वससे चैवम् एकाकी निर्जने वने
निश्चित्तः प्रतिसंलीनः काष्ठपाषाणवद्वृथा ॥
धर्मार्थकाममोक्षेषु यदि वाञ्छास्ति ते यते
बुद्धस्य वचनं श्रुत्वा चर संबोधिसत्पथे ॥
बुद्धो हि भगवान् नाथः सर्वज्ञो लोकनायकः
मुनीन्द्रः श्रीधनः शास्ता सर्वधर्मानुपालकः ॥
तस्यैव धर्मता शुद्धा दशकुशलसंमता
षट् च पारमिताः ख्याताः परत्रेह शिवंकराः ॥
धन्यास् ते भिक्षवश् चैव बुद्धस्योपासकाश् च ये
सर्वसत्वहितार्थेन संबोधिगुणसाधकाः ॥
त्वं चापि हि तथा मत्वा स्वपरात्महितार्थतः
त्रिरत्नशरणं गत्वा चर ब्रह्मन् व्रतोत्तमम्* ॥
ततः क्लेशगणान् हित्वा ब्रह्मचारिञ् जिनेन्द्रवत्*
साक्षाद् अर्हत्पदं प्राप्य निर्वृतिसुखम् आप्नुयाः ॥
इति श्रुत्वा सुभूतिः स त्रिरत्नगुणवर्णनाम्*
तथानुमोदितः प्राह तां देवतां पुरः स्थिताम्* ॥
तथाहं देवते यामि संबुद्धदर्शनं प्रति
त्रिरत्नसमयं प्राप्तुम् इच्चामि त्वत्प्रसादतः ॥
मूल पाठ: Kalpadrumāvadānamālā · Edition: the text appended to P.L. Vaidya's edition of the Avadanasataka (Darbhanga 1958, Buddhist Sanskrit Texts ; 19) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0