कल्पद्रुमावदानमाला · श्लोक 301-320
यदि ते ऽस्ति कृपा देवि मयि मोक्षार्थसाधिनि
संबुद्धं दर्शय क्षिप्रं तद्धर्मेषु निवेशय ॥
त्रिरत्नशरणं गत्वा चरिष्ये तद् व्रतोत्तमम्*
तथाशु कृपया नीत्वा मां विहारे प्रवेशय ॥
इति श्रुत्वा वचस् तस्य सुभूतेर् वनदेवता
विज्ञाय बोधिमार्गेषु चित्तं तथानुमोदितम्* ॥
तत एव समागृह्य सुभूतिं ब्रह्मचारिणम्*
ऋद्ध्या साकाशमार्गेण निनाय जिनमन्दिरम्* ॥
सुभूतिस् तत्र संप्राप्तो ददर्श जिनभास्करम्*
भगवन्तं महासौम्यं लक्षणैः समलंकृतम्* ॥
व्यञ्जनैश् च विराजन्तं व्यामप्रभामहोज्ज्वलम्*
सहस्रकिरणाधिक्यं रत्नाङ्गम् इव जङ्गमम्* ॥
समन्ततो महाभद्रं जगन्नाथं मुनीश्वरम्*
सर्वदेवाधिपं सम्यक् संबोधिगुणसागरम्* ॥
दृष्ट्वैव सहसा चाथ सुभूतेस् तस्य सर्वथा
आधातो यश् च सत्वेषु स प्रतिविगतो ऽप्य् अभूत्* ॥
ततः प्रसादजातो ऽसौ सुभूतिर् द्विजसत्तमः
नत्वा पादौ मुनेर् धर्मं श्रोतुं तस्थौ मुदाः पुरः ॥
ततो ऽसौ भगवांस् तस्य सुभूतेश् चित्तशुद्धताम्*
ज्ञात्वार्यसत्यधर्माणि दिदेशैवं सविस्तरम् ॥
शृणु विप्र महाभाग सर्वसत्वहितार्थतः
यदि ते धर्मवाञ्छास्ति संबोधिपदसाधने ॥
भावनीया सदा मैत्री सत्वेष् एवं यथात्मजे
धर्ममाता यतो मैत्री तन् न त्याज्या कदाचन ॥
करुणा च तथा कार्या सत्वेष् अपि यथात्मजे
कारुण्याद् वर्धते धर्मस् त कारुण्यं सदा कुरु ॥
मुदितापि सदा साध्या सत्वेषु च यथात्मजे
मुदितां हि समालम्ब्य बोधिपदम् अवाप्नुयाः ॥
उपेक्षापि सदा धार्या सत्वेष्व् अपि यथात्मजे
उपेक्षातो लभेत् सौख्यं तदुपेक्षां सदा भज ॥
इमे धर्मा हि चत्वारश् चतुर्वर्गफलाप्तये
तत्प्राप्त्यै साध्यतां यत्नाच् चतुर्ब्रह्मविहारता ॥
इति श्रुत्वार्यधर्माणि स सुभूतिः प्रमोदितः
क्लेशसंघान् विनिर्जित्य बुद्धधर्मं समैक्षत ॥
सत्कायदृष्टिशैलं च विंशतिशिखरोद्गतम्*
विदार्य ज्ञानवज्रेण संसाररतिनिःस्पृहः ॥
स्रोतापत्तिफलं साक्षात् कृत्वा शिष्यो ऽभवन् मुनेः
दृष्टसत्यो ऽथ संबुद्धं नत्वा चैव कृताञ्जलिः ॥
प्रव्रज्याप्रार्थनां चक्रे स्वाख्यातधर्मसाधने
नमस् ते भगवन् नाथ सर्वसत्वानुपालक ॥
मूल पाठ: Kalpadrumāvadānamālā · Edition: the text appended to P.L. Vaidya's edition of the Avadanasataka (Darbhanga 1958, Buddhist Sanskrit Texts ; 19) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0