भाषा

ENहिગુ
ग्रंथ पाठ

कल्पद्रुमावदानमाला · श्लोक 261-280

261

एकवर्णम् इदं विश्वं पूर्वम् आसीद् युधिष्ठिर
कर्मक्रियाविशेषेण चातुर्वर्ण्यं प्रतिष्ठितम्* ॥

262

सर्वे वै योनिजा मर्त्याः सर्वे मूत्रपुरीषिणः
एकेन्द्रियक्रियार्थाश् च तस्माच् छीलगुणैर् द्विजाः ॥

263

शूद्रो ऽपि शीलसंपन्नो गुणवान् ब्राह्मणो भवेत्*
ब्राह्मणो ऽपि क्रियाहीनः शूद्रात् प्रत्यवरो भवेत्* ॥

264

पञ्चेन्द्रियार्णवं घोरं यदि शूद्रो ऽपि तीर्णवान्*
तस्मै दानं प्रदातव्यम् अप्रमेयं युधिष्ठिर ॥

265

न जातिर् दृश्यते राजन् गुणाः कल्याणकारकाः
गुणविद्यानिधिर् विद्वान् ब्राह्मणो ब्रह्मचाराणात्* ॥

266

जीवितं यस्य लोकार्थे धर्मार्थे यस्य जीवितम्*
अहोरात्रं चरेन् मुक्तस् तं देवा ब्राह्मणं विदुः ॥

267

परित्यज्य गृहावासं ये स्थिता मोक्षकाङ्क्षिणः
कामेष्व् असक्ताः कौन्तेय ब्राह्मणास् ते युधिष्ठिर ॥

268

अहिंसा निर्ममत्वं वा सत्कृत्यस्य विवर्जनम्*
रागद्वेषनिवृत्तिश् च एतद् ब्राह्मणलक्षणम्* ॥

269

क्षमा दया दमो दानं सत्यं शौचं स्मृतिर् घृणा
विद्या विद्यानमाधीत्यम् एतद् ब्राह्मणलक्षणम्* ॥

270

गायत्रीमात्रसारो ऽपि वरं विप्रः सुयन्त्रितः
नाधित्य चतुरो वेदान् सर्वाशी सर्वविक्रयी ॥

271

एकरात्रोषितस्यापि या गतिर् ब्रह्मचारिणः
न तां क्रतुसहस्रेण प्राप्नुवन्ति युधिष्ठिर ॥

272

पारगः सर्ववेदानां सर्वतीर्थाभिषिञ्चनैः
युक्तश् चरति धर्मं यो तं देवा ब्राह्मणं विदुः ॥

273

यदा न कुरुते पापं सर्वभूतेषु दारुणम्*
कायेन मनसा वाचा ब्रह्म संपद्यते तदा ॥

274

यस्य लोकहिते चित्तं मैत्रीयुक्तम् इवात्मजे
तेन संपद्यते ब्रह्म तस्मान् मैत्रीं विभावय ॥

275

यस्य लोकेषु कारुण्यं स्वात्मजे इव दुःखिते
तेन संपद्यते ब्रह्म तस्मात् कारुणिको भव ॥

276

यच् चित्तं मुदितं लोके सुखीभूते इवात्मजे
तस्य संजायते ब्रह्म तल् लोके मोदवांश् चर ॥

277

यस्योपेक्षायुतं चित्तं सर्वलोकेष्व् इवात्मजे
तस्य संजायते ब्रह्म तद् उपेक्षायुतश् चर ॥

278

एतद् धि परमं ब्रह्म विहारं ब्रह्मसाधनम्*
ज्ञात्वा लोकहितार्थेन चर ब्रह्मविहारिणम्* ॥

279

ततः क्लेशान् विनिर्जित्वा स्वात्मचित्तसमाहितः
ब्रह्मप्रणिधिम् आलम्ब्य स्थिरीभव समाधिषु ॥

280

तथा ब्रह्मगुणाधानाद् ब्रह्मर्षिस् त्वं भवेः किल
पञ्चाभिज्ञपदप्राप्तो ब्रह्मलोकम् अवाप्नुयाः ॥

मूल पाठ: Kalpadrumāvadānamālā · Edition: the text appended to P.L. Vaidya's edition of the Avadanasataka (Darbhanga 1958, Buddhist Sanskrit Texts ; 19) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc