भाषा

ENहिગુ
ग्रंथ पाठ

कल्पद्रुमावदानमाला · श्लोक 241-260

241

तथा च कल्प्यते लोक बोधार्थम् इति तीर्थिकैः
स्वयंभूदेहसंभूतं चातुर्वर्ण्यम् इदं खलु ॥

242

मुखतो ब्राह्मणो जातो बाहुभ्यां क्षत्रियः स्मृतः
ऊरुभ्यां संभवो वैश्यः पद्भ्यां शूद्रः समुद्भवः ॥

243

तथा चेद् धि भवेद् दोषो धर्मेषु वर्णवादिनाम्*
अगम्यगमनाच् चैवं कथं धर्मविशुद्धिता ॥

244

यदि विप्रो मुखाज् जातो ब्राह्मणी कुत्र संभवा
ब्राह्मण्य् अपि मुखाज् जाता स्वसा भार्या कथं ननु ॥

245

तथा च क्षत्रिया जाता बाहुभ्याम् एव चेत् तथा
क्षत्रियस्य भवेद् भार्या क्षत्रिया भगिनी खलु ॥

246

वैश्यापि हि तथा चैवम् ऊरुभ्याम् एव संभवा
वैश्यस्यापि भवेद् भार्या वैश्या तु भगिनी विशः ॥

247

पद्भ्यां जातो यथा शूद्रः शूद्री चापि तथोद्भवा
शूद्रस्यापि भवेद् भार्या शूद्री हि भगिनी खलु ॥

248

न युक्ता भगिनी भार्या तथा धर्मः कथं भवेत्*
अगम्यगमनाच् चैवम् अधर्म एव संभवेत्* ॥

249

ततो ऽत्यन्तविरुद्धं स्याद् ब्रह्मजा ब्राह्मणा यदि
धर्मक्रियाविशेषात् तु वर्णावस्थाः प्रतिष्ठिताः ॥

250

भारते ऽपि तथा चैवं धर्मराजो युधिष्ठिरः
वैशम्पायनम् आगम्य प्राञ्जलिः पर्यपृच्छत ॥

251

के ते ये ब्राह्मणाः प्रोक्ताः किं वा ब्राह्मणलक्षणम्*
एतद् इच्छामि भो ज्ञातुं तद्भवान् व्याकरोतु मे ॥

252

इति श्रुत्वा महाविज्ञो वैशम्पायन आदरात्*
प्रत्युवाचेति कौन्तेय शृणु तत् कथ्यते मया ॥

253

क्षान्त्यादिभिर् गुणैर् युक्तस् त्यक्तदण्डो निरामिषः
न हन्ति सर्वभूतानि प्रथमं ब्राह्मलक्षणम्* ॥

254

यदा सर्वपरद्रव्यं पथि वा यदि वा गृहे
अदत्तं नैव गृह्णाति द्वितीयं ब्राह्मलक्षणम्* ॥

255

त्यक्तक्रूरस्वभावस् तु निर्ममो निःपरिग्रहः
मुक्तश् चरति यो नित्यं तृतीयं ब्राह्मलक्षणम्* ॥

256

देवमनुष्यनारीणां तिर्यग्योनिगतेष्व् अपि
मैथुनं हि सदा त्यक्तं चतुर्थं ब्राह्मलक्षणम्* ॥

257

सत्यं शौचं दया शौचं शौचम् इन्द्रियनिग्रहः
सर्वभूतदया शौचं तपः शौचं च पञ्चमम्* ॥

258

पञ्चलक्षणसंपन्न ईदृशो यो भवेद् द्विजः
तम् अहं ब्राह्मणं ब्रूयां शेषाः शुद्रा युधिष्ठिर ॥

259

न कुलेन न जात्या च क्रियाभिर् ब्राह्मणो न च
चाण्डालो ऽपि हि वृत्तस्थो ब्राह्मणः स युधिष्ठिर ॥

260

अहिंसा ब्रह्मचर्यं च विशुद्धात्मापरिग्रहः
फलेष्व् अनभिलिप्साथ ब्राह्मणः स्याद् युधिष्ठिर ॥

मूल पाठ: Kalpadrumāvadānamālā · Edition: the text appended to P.L. Vaidya's edition of the Avadanasataka (Darbhanga 1958, Buddhist Sanskrit Texts ; 19) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc