कल्पद्रुमावदानमाला · श्लोक 221-240
प्रक्षिप्तं यत्र यद् द्रव्यं तद् भाण्डं तेन लक्ष्यते
ज्ञानधर्मगुणाचारैर् लक्ष्यते मानवस् तथा ॥
ज्ञानधर्मगुणाचारैर् विहीनो मानवः पशुः
ज्ञानविज्ञानभेदेन वर्तते गुणभेदता ॥
गुणभेदाद् भवेद् धर्म भेदा च संप्रजायते
धर्मभेदात् ततः कर्म भेदता संप्रवर्तते ॥
कर्मभेदात् तथाचार भेदता च प्रवर्तते
तथाचारविशेषेण जातिभेदाः प्रवर्तिताः ॥
महाभूतसमुद्भूत स्कन्धेष्व् आयतनेषु च
सर्वजन्तुशरीरेषु समेषु का विशेषता ॥
ज्ञानविज्ञानमात्रेण भिद्यन्ते खलु मानवाः
ज्ञानविज्ञानपात्रत्वात् पूज्यन्ते नीचजा अपि ॥
ज्ञानविज्ञानहीनत्वान् मानवो ऽपि न पूज्यते
पशुवत्स नराकारः ततः पूजा न चाकृतेः ॥
ज्ञानेनापि द्विजो नैव कर्माचारप्रमाणतः
ज्ञानेन यदि वा विप्रः शूद्रो ऽपि ब्राह्मणो भवेत्* ॥
अन्ये ऽपि बहवः सन्ति सकैवर्तादिनीचजाः
ज्ञानवन्तश् च ये धीरास् ते ऽपि स्युर् ब्राह्मणाः खलु ॥
तमाच् च ज्ञानमात्रेण ब्राह्मणो न भवेत् खलु
कर्माचारप्रमाणेन न ज्ञानस्य प्रमाणता ॥
कर्मणापि द्विजो नैव शुद्धाचारप्रमाणतः
कर्मणा वै द्विजाश् चैवं सर्वे स्युर् ब्राह्मणाः खलु ॥
सन्ति हि बहवो लोके महायज्ञादिकर्मिणः
क्षत्रियवैश्यशूद्राश् च कथं न ब्राह्मणा नु ते ॥
तस्मान् न कर्ममात्रेण ब्राह्मणाः स्युर् नराः खलु
नापि स्वाचारमात्रेण ब्राह्मणाः स्युस् तथा नराः ॥
यदि स्वाचारतो विप्रः सर्वे स्युर् ब्राह्मणाः खलु
ये ये स्वाचारवन्तश् च ते ते स्युर् ब्राह्मणाः किल ॥
सन्ति च बहवः शूद्राः शुद्धाचारसमन्विताः
व्रतोपवासधर्मिष्टा नीचजा अपि सन्ति च ॥
ते ऽपि स्युर् ब्राह्मणाश् चैवं यद्य् आचारप्रमाणता
तस्माद् आचारमात्रेण ब्राह्मणा नैव मानुषाः ॥
वेदेनापि तथा नैव ब्राह्मणाः स्युर् नरोत्तमाः
यदि वेदैर् भवेद् विप्रो राक्षसो ऽपि द्विजः खलु ॥
तथाभूद् रावणो नाम राक्षसो वेदपारगः
सर्वे ऽपि राक्षसाश् चैवं वेदकर्मानुचारकाः ॥
कथं ते ब्राह्मणा नैव यदि वेदाद् द्विजो भवेत्*
तस्माच् च वेदमात्रेण नैव स्युर् ब्राह्मणाः खलु ॥
सत्यधर्मप्रमाणेन सर्वम् एकं जगद् ध्रुवम्*
चातुर्वर्ण्यम् इदं लोकं तीर्थिकैर् इति कल्पितम्* ॥
मूल पाठ: Kalpadrumāvadānamālā · Edition: the text appended to P.L. Vaidya's edition of the Avadanasataka (Darbhanga 1958, Buddhist Sanskrit Texts ; 19) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0