कल्पद्रुमावदानमाला · श्लोक 201-220
न सत्वा ब्रह्मणो जाताः कर्मसंस्कारजास् त्वमी
निहीनोत्कृष्टमध्याश् च सत्वा नानाश्रयाः पृथक्* ॥
तेषां हि जातिसामान्याद् ब्राह्मणे क्षत्रिये तथा
वैश्यशूद्रे तथान्येषु समं ज्ञानं प्रवर्तते ॥
शीलं प्रधानं न कुलं प्रधानं कुलेन किं शीलविवर्जितेन
बहवो नरा नीचकुलप्रसूताः स्वर्गं गताः शीलम् उपेत्य धीराः ॥
न जातिर् दृश्यते देवैः शीलः कल्याणकारकः
चण्डालो ऽपि हि शीलस्थस् तं देवा ब्राह्मणं विदुः ॥
सत्यं ब्रह्म तपो ब्रह्म शीलश् चेन्द्रियसंयमः
सर्वभूतदया ब्रह्म एतद् ब्राह्मणलक्षणम्* ॥
सत्यं नास्ति तपो नास्ति नास्ति चेन्द्रियसंयमः
सर्वभूतदया नास्ति एतच् चण्डाललक्षणम्* ॥
देवमनुष्यनारीणां तिर्यग्योनिगतेष्व् अपि
मैथुनं नाधिगच्छन्ति ते नरा ब्राह्मणाः खलु ॥
शूद्रीहस्तेन यो भुङ्क्ते मासम् एकं निरन्तरम्*
जीवमानो भवेच् छूद्रो मृतः स श्वा प्रजायते ॥
शूद्रीपरिवृतो विप्रः शूद्री च गृहमेधिनी
वर्जितः पितृदेवैश् च रौरवं सो ऽधिगच्छति ॥
तस्माद् धर्मतपःशील संयमज्ञानतो द्विजः
न त्व् एतैर् हि विना विप्रः किं स्यात् संस्कारमात्रतः ॥
तन् न शरीरसंस्कार मात्रेण ब्राह्मणो भवेत्*
संस्कृतेन द्विजो वा चेच् छूद्रो ऽपि संस्कृतो द्विजः ॥
यदि विप्रः शरीरः स्यात् पावको ब्रह्महा भवेत्*
ब्रह्महत्या च बन्धूनां शरीरदहनाद् भवेत्* ॥
ब्राह्मणबीजसंभूतः शूद्रो ऽपि न कथं द्विजः
तस्माद् धि ब्राह्मणो नैव देहसंस्कारमात्रतः ॥
सद्यः पतति मांसेन धात्वन्नक्षिरविक्रयी
ब्राह्मणो ऽपि भवेच् छूद्रः सुरया लवणेन च ॥
आकाशगामिनो प्रियाः पतिता मांसभक्षणात्*
विप्राणां पतनं दृष्ट्वा ततो मांसानि वर्जयेत् ॥
भक्ष्यन्ते येन मांसानि भक्ष्यते तेन किं न हि
अभक्ष्यभक्षणाच् चैव ब्राह्मणः पतितो भवेत्* ॥
पतितो ब्राह्मणश् चैवं संस्कारं नार्हति पुनः
तस्माज् ज्ञानं विना नैव शरीरो ब्राह्मणो भवेत्* ॥
ज्ञानवान् हि भवेत् पूज्यो ब्राह्मणा अपि मानवाः
समानेषु च देहेषु कुत्राप्य् अस्ति विशेषता ॥
तस्माज् ज्ञानप्रमाणेन न शरीरप्रमाणता
यथा करोति भाण्दानि मृत्तिकयैव भार्गवः ॥
मृत्तिकाया न भेदो ऽस्ति तत्कृतभाजनेष्व् अपि
किं तु प्रक्षिप्तवस्तूनां संज्ञयाख्यायते खलु ॥
मूल पाठ: Kalpadrumāvadānamālā · Edition: the text appended to P.L. Vaidya's edition of the Avadanasataka (Darbhanga 1958, Buddhist Sanskrit Texts ; 19) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0