कल्पद्रुमावदानमाला · श्लोक 21-40
धन्यास् ते भिक्षवो ह्य् एते सद्धर्मसुखचारिणः
अहम् अपि च भूयासं तादृग्धर्मसमाहितः ॥
इति प्रणिधिं कुर्वाणो जीविताद् व्यवरोपितः
तत्रैव गरुडेनैवं भक्षितो ऽभूत् स नागकः ॥
ततः कालगतस् तत्र श्रावस्त्यां पुरि + + +
भूतिनाम्ना द्विजस्यासौ भार्याया गर्भम् आविशत्* ॥
ततश् च क्रमतस् तस्या गर्भः समनुवर्धितः
ततस् तत्समये प्राप्ते दारकः समजायत ॥
ततः पिता च तं दृष्टा दारकं संप्रसादिकम्*
दर्शनीयं सुभद्राङ्गं मुहुः पश्यन्न् अनन्द सः ॥
ततो जातिमहं कृत्वा ज्ञानीनाहूय चादरात्*
भवन्तो ऽस्य नु किं नाम क्रियताम् इति सो ऽब्रवीत्* ॥
ज्ञातयो ऽपि तथा श्रुत्वा दृष्ट्वा चैनं च बालकम्*
सर्वे हर्षसमापन्ना भूतिं तम् अब्रुवंस् तथा ॥
यस्माद् भूतेर् अयं पुत्रं सुजातो लक्षणान्वितः
तस्मात् सुभूतिर् इत्य् एव नाम्ना भवतु विश्रुतः ॥
तथा क्रमाद् विवृद्धो ऽसौ सुभूतिर् बालसुन्दरः
कुमारत्वं क्रमात् प्राप्तो रराम स वयोन्वितः ॥
पूर्वकर्मबलाधानात् क्रोधनः क्रूरभाषणः
किंचिन् निमित्तसंरुष्टो विग्रहे निरतो ऽभवत् ॥
परुषीभूतचित्तत्वान् न तस्य को ऽप्य् अभूत् सुहृत्*
सर्वज्ञातिविरुद्धत्वात् पितृभ्याम् अप्य् उपेक्षितः ॥
बन्धुभिश् च परित्यक्तो नैव कस्याप्य् अभूत् प्रियः
विश्रम्भप्रणयं तस्मिन् नैव कश्चिद् अभाषत ॥
स्थातुं गन्तुं तथा भोक्तुं शयितुं वाभिलापितुम्*
तेनैव क्रोधिना सार्धं समुत्सेहुर् न केचन ॥
तदा पित्रा नियुक्तो ऽसौ लिपिशालाम् उपागमत्*
सुभूतिश् च गुरुं नत्वा लिपिम् अन्वग्रहीत् क्रमात्* ॥
ततो व्याकरणादीनि सर्वशास्त्राण्य् अनुक्रमात्*
सो ऽधीत्यैषां सुशीघ्रेण पारं प्राप सुबुद्धिमान्* ॥
तथा वेदान् अधीत्यैवं साङ्गोपाङ्गान् यथाक्रमम्*
अथर्वम् अप्य् अधीतुं स प्रारभत् तीक्ष्णमानसः ॥
तत्र पिता द्विजो भूतिर् अथर्वाधीतसंरतम्*
सुभूतिं स्वात्मजं पुत्रं दृष्ट्वैवं समचिन्तयत्* ॥
सुभूतिर् मम पुत्रो ऽयम् अग्निकल्पः सुतीक्ष्णधीः
कदाचित् कुपितो रोषाल् लोके ऽनर्थं करिष्यति ॥
तद् अन्वाहरितव्यो ऽयम् आथर्वणात् प्रयत्नतः
ऋषिषु प्रेषयित्वैनं योजयिष्ये च संयमे ॥
इति मत्वा पिता भूतिः सुभूतिं स्वात्मजं तथा
आथर्वणाद् विनिर्हृत्य प्रबोधयंस् तम् अब्रवीत्* ॥
मूल पाठ: Kalpadrumāvadānamālā · Edition: the text appended to P.L. Vaidya's edition of the Avadanasataka (Darbhanga 1958, Buddhist Sanskrit Texts ; 19) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0