कल्पद्रुमावदानमाला · श्लोक 1-20
अथाशोको महाराजः सर्वशोकविनोदितः
उपगुप्तं गुरुं नत्वा कृताञ्जलिपुटो ऽवदत्* ॥
भदन्त श्रोतुम् इच्छामि पुनर् अन्यत् सुभाषितम्*
यद् उक्तं शाक्यसिंहेन तन् मे गदितुम् अर्हसि ॥
इति पृष्टो नृपेणासाव् उपगुप्तो यतीश्वरः
पर्षदं च समालोक्य संबभाष सुभाषितम्* ॥
शृणु राजन् महाबाहो सर्वलोकहितार्थतः
सुभूतेर् अवदानं यत् तत् प्रवक्ष्ये यथाश्रुतम्* ॥
पुरा श्रीभगवान् बुद्धो धर्मराजस् तथागतः
विद्याचरणसंपन्नः सुगतो लोकविज्जिनः ॥
शास्ता देवमनुष्याणां सम्यक्संबोधिदेशकः
सत्कृतो मानितः सत्वैर् गुरुकृतश् च पूजितः ॥
राजभी राजमात्रैश् च धनिभिः पुरवासिभिः
श्रेष्ठिभिः सार्थवाहैश् च नानादेशसमागतैः ॥
देवासुरमहानागैर् यक्षगन्धर्वकिन्नरैः
गुरुडैश् च महासर्पैस् तथान्यसत्वजातिकैः ॥
सुसंज्ञातो महापुण्यो लाभी चीवरवाससाम्*
पिण्डपातासनादीनां शय्यादीनां तथैव च ॥
औषधादिपरिष्कार वस्तूनां सर्वतः सदा
सार्धं सश्रावकैः संघैर् भिक्षुभिश् च जितेन्द्रियैः ॥
भिक्षुण्युपासिकाभिश् च चेलकोपासकैस् तथा
बोधिसत्वमहासत्वैः सत्वार्थबोधिवाञ्छिभिः ॥
श्रावस्त्यां राजधान्यां वै जेतवने मनोरमे
विहारे व्यहरद् धर्मं देशयञ् छुभयस् सदा ॥
तदा भगवता सत्व विनयानुग्रहार्थिना
आमन्त्र्य भिक्षवः सर्वे सम्यगाज्ञापिता इति ॥
गच्छत भिक्षवो यूयं सत्वानां विनयार्थतः
देशान् प्रत्यभिगच्छन्तः प्रकाशयत संवृतिम्* ॥
तथेत्य् एव प्रतिश्रुत्य शास्तुः पादौ प्रणम्य च
श्रावका भिक्षवश् चैव प्रतस्थुस् ते नियोगिनः ॥
गुरो आज्ञां वहन्तस् ते केचित् प्राचीं दिशं गताः
देशयन्ति स्म सद्धर्मं प्रतिदेशानुपास्थिताः ॥
दक्षिणस्यां तथा केचित् केचिच् च पश्चिमां दिशम्*
तथोत्तरां दिशं गत्वा विदिक्षु चापि सर्वतः ॥
तेषां ध्यानरता ये वै ते विविक्तसुखैषिणः
मेरोर् उपरिषण्डायाम् अध्यूषुर् ध्यानतत्पराः ॥
तदाब्धेर् गरुडेनैको नागपोतः समुद्धृतः
तम् आश्रमम् उपानीय भक्षितुम् उपचक्रमे ॥
तत्रस्थास् तेन नागेन भिक्षवो ध्यानसंरताः
दृष्ट्वैव सुप्रसन्नेन मनसा प्रणिधिर् दधे ॥
मूल पाठ: Kalpadrumāvadānamālā · Edition: the text appended to P.L. Vaidya's edition of the Avadanasataka (Darbhanga 1958, Buddhist Sanskrit Texts ; 19) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0