कल्पद्रुमावदानमाला · श्लोक 41-60
शृणु पुत्र मया प्रोक्तं हितार्थं तव संमतम्*
त्वं हि विद्वान् महाविज्ञः सर्वशास्त्राङ्गपारगः ॥
किं तवाथर्ववेदेन मायाक्लेशार्थसाधिना
विरम्य तदधिष्ठानाद् ऋषिचर्यां समाचर ॥
मुनीनाम् उपदेशानि प्रतिलभ्य जितेन्द्रियः
शान्तात्मा सुखम् आस्थाय चरस्व व्रतम् उत्तमम्* ॥
धन्यास् ते वीतरागा ये गुरुभक्ताश् च निर्मदाः
विविक्तारण्यवासेषु वसन्ति ध्यायिनः सदा ॥
ये ऽपि परिग्रहांस् त्यक्त्वा भवन्ति ब्रह्मचारिणः
देवानाम् अपि ते मान्या वन्दनीयाः सदा खलु ॥
ये प्रव्रज्यां समागृह्य शान्तात्मानो जितेन्द्रियाः
अवसन्ति पुण्यतीर्थेषु ते ऽपि हि परमर्षयः ॥
कामभोग्यानि ये हित्वा साधयन्ते तपोवने
फलमूलोदकैस् तुष्टास् ते ऽपि धन्या द्विजोत्तमाः ॥
ये ऽपि क्लेशान् विनिर्जित्य चतुर्ब्रह्मविहारिणः
भिक्षाशिनः समाधिस्थास् ते हि ब्रह्मविदां वराः ॥
ये चापरिग्रहीतारो निर्लोभाः सत्यवादिनः
निर्मदा निरहंकारास् त एव ब्राह्मणोत्तमाः ॥
यस्य दातुं मनो नास्ति मत्सराक्रान्तचेतसः
वेदशास्त्रागमैस् तस्य किम् एव स्वात्मपोषिणः ॥
यस्य चित्तं ह्य् अविशुद्धं शीलसंवरवर्जितम्*
किं भाति मुनिवेषेण स नटर्षिर् इवोन्मदः ॥
यस्य लोके दया नास्ति बालवृद्धादिदुःखिते
किं तस्य ब्रह्मवृत्तेन चित्ते{न} परिमोहिते ॥
यस्य न कुशलोत्साहं चित्ते लोकार्थं साधितुम्*
तस्य किं तपसा सिद्धे केवलं पापहेतुभिः ॥
यस्य चित्तं प्रविक्षिप्तं क्लेशाद् यैर् असमाहितम्*
स किं गुहानिविष्टो ऽपि न साधुर् दुष्टजन्तुवत्* ॥
यस्य प्रज्ञा विशुद्धा न सद्धर्मगुणसाधने
तस्य किं ब्रह्मचर्येण केवलं दुःखहेतुना ॥
यश् च दाता विशुद्धात्मा सर्वसत्वान् उपालकः
नीचो ऽपि स द्विजकल्पो यतो दाता प्रजापतिः ॥
येन संरक्षितं नित्यं शीलं संयमसंवृत्तम्*
स एव ब्राह्मणः शुद्धः श्रोत्रियो वेदनान् यतिः ॥
यस्य चित्तं दयाशूलं सर्वसत्वहितेषितम्*
चण्डालो ऽपि स विप्रः स्याल् लोकेशो हि क्षमाकरः ॥
येनैव दुष्करं कर्म साधितं सत्वहेतुना
स एव ब्राह्मणो धीरो विश्वकर्मा यतो विधिः ॥
यस्य चित्तं सदा सत्व हितार्थेषु समाधितम्*
स हि विप्रो महाभिज्ञो ब्रह्मा ज्ञानरतो यतः ॥
मूल पाठ: Kalpadrumāvadānamālā · Edition: the text appended to P.L. Vaidya's edition of the Avadanasataka (Darbhanga 1958, Buddhist Sanskrit Texts ; 19) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0