भाषा

ENहिગુ
ग्रंथ पाठ

कल्पद्रुमावदानमाला · श्लोक 181-200

181

तथान्ये शिल्पविद्यादीन् ये च कुर्वन्ति मानवाः
शिल्पिनस् ते तथान्ये ऽपि स्वर्णकारादयो नराः ॥

182

ज्योतिर् विद्याविदो ये च गणयन्ति दिवानिशम्*
युगान्तकालविज्ञाता गणकास् ते ऽपि मानवाः ॥

183

धातुदोषान्य् अभिज्ञाय लोकानां परिचारकाः
भैषज्यं ये ददन्त्य् एव भिषजस् ते हि वैद्यकाः ॥

184

भूतदोषाण्य् अभिज्ञाय बलिपूजाविधानतः
शमयन्ति च ये भूतान् भौतिकास् ते ऽपि मानवाः ॥

185

एवं चान्ये ऽपि ये सत्वा यद् यत् कर्मानुचारिणः
तत् तत् कर्मानुशीलेन जातिधर्मप्रवृत्तिकाः ॥

186

ततो ये मानवाः क्रूरा निर्दयाः सत्वहिंसकाः
चण्डवृत्तिप्रचाराश् च चण्डाला इति ते स्मृताः ॥

187

ये भजन्ति शिवं नित्यं शिवभक्तिपरायणाः
ते शैवा मनुजा ज्ञेयाः शिवधर्मानुचारतः ॥

188

ये भजन्ति विष्णुं नित्यं विष्णुभक्तिपरायणाः
विष्णुधर्मसमाचाराद् वैष्णवास् ते ऽपि मानवाः ॥

189

ब्रह्माणं ये भजयन्त्य् एव ब्रह्मभक्तिपरायणाः
ब्रह्मधर्मसमाचाराद् ब्राह्मणास् ते ऽपि मानवाः ॥

190

ये भजन्ति महारौद्रं भैरवभक्तिमानसाः
महारौद्राश् च ते ख्याता भैरविकाश् च मानवाः ॥

191

ये च माहेश्वरीं देवीं भजन्ति कुलधर्मिणः
माहेश्वरीव्रताधाराः कालिकास् ते ऽपि मानवाः ॥

192

येए भजन्ति सदा बुद्धं बौद्धधर्मपरायणाः
ते ऽपि च मानवा बौद्धाः संबोधिपदसाधिनः ॥

193

ये भजन्ति जिनं चैव जैनधर्मपरायणाः
ते ऽपि च मनुजा जैना जैनधर्मानुचारणात्* ॥

194

एवं चान्ये ऽपि ये सत्वा व्रतचर्यानुलिङ्गिनः
ते ऽपि च मानवाः सर्वे धर्मचर्यानुवर्णिनः ॥

195

यादृशं साध्यते कर्म तादृशी जातिता भवेत्*
प्रजापतिर् हि चैकत्वे निर्विशेषो ऽभवद् यतः ॥

196

न चेन्द्रियेषु नानात्वं क्रियावादेन दृश्यते
ब्राह्मणे चान्यजातौ वा नैषां किंचिद् विशिष्यते ॥

197

न ह्य् आत्मनः समुत्कर्षाच् छ्रेष्ठत्वम् इह युज्यते
शुक्रशोणितसंभूतं योनिजं सर्वम् एव हि ॥

198

चातुर्वर्ण्यम् इदं लोकम् इति तीर्थ्यैर् विकल्पितम्*
ब्रह्मजा ब्राह्मणा नैवं धर्मसंस्कारजाः खलु ॥

199

यदि वा ब्रह्मजा विप्रा ब्राह्मणी कुत्र संभवा
ब्राह्मण्य् अपि तथा चैव ब्रह्मजा यदि सांप्रतम्* ॥

200

ब्राह्मणस्य च सा भार्या स्याच् चैवेदं न युक्तितः
न भार्या भगिनी युक्ता ब्रह्मणां ब्रह्मजा यदि ॥

मूल पाठ: Kalpadrumāvadānamālā · Edition: the text appended to P.L. Vaidya's edition of the Avadanasataka (Darbhanga 1958, Buddhist Sanskrit Texts ; 19) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc