भाषा

ENहिગુ
ग्रंथ पाठ

कल्पद्रुमावदानमाला · श्लोक 161-180

161

गुणधर्मानुचारेण जातिभेदा भवन्ति हि
चातुर्वर्ण्यम् इदं लोके सर्वं हि मनुसंभवम्* ॥

162

गुणधर्मप्रमाणेन जातेर् नैव प्रमाणता
तथा च प्रोच्यते बौद्धैर् अवदानार्थकोविदैः ॥

163

मानवा ये प्रशान्तास्था सत्यधर्मव्रतान्विताः
ब्राह्मणास् ते महाशुद्धाश् चतुर्ब्रह्मविहारिणः ॥

164

परिग्रहान् परित्यज्य वनप्रस्थनिवासिनः
ये भजन्ति सदा ब्रह्म वानप्रस्था हि ते द्विजाः ॥

165

षट्कर्मनिरता ये तु श्रोत्रिया गृहवासिनः
महायज्ञसमाचारा उपाध्याया हि ते द्विजाः ॥

166

निरपेक्षाः स्वदेहे ऽपि त्यक्तमाराभिगोचराः
भिक्षाशिनो व्रतस्थास् ते भिक्षवो ब्रह्मवादिनः ॥

167

ये च मारान् विनिर्जित्य निःसङ्गा धीरमानसाः
तपन्ति पुण्यक्षेत्रेषु मानवास् ते तपस्विनः ॥

168

दशाकुशलनिर्भुक्ता दशाकुशलसंरताः
सत्यवाचो व्रतस्था ये ऋषयस् ते द्विजोत्तमाः ॥

169

ये च लोकप्रचारेषु विरता धर्ममानसाः
वाचंयमाश् च ते भद्रा मुनयः सत्यवादिनः ॥

170

ये च जितेन्द्रियग्रामा निर्मुक्तभवचारकाः
निर्ममा निरहंकारा यतयो योगिनो ऽपि ते ॥

171

ये च स्थण्डिलम् आश्रित्य चरन्ति व्रतम् आदरात्*
ते ऽपि च मानवा धीराः स्थण्डिला जटिलास् तथा ॥

172

ये च भस्मविलिप्ताङ्गा हाराभरणभूषिताः
कापालिकाश् च ते वीराः श्मशानव्रतचारिणः ॥

173

ये समिद्धव्यद्रव्याणि जुह्वत्यग्नौ समाहिताः
ते होतारश् च यज्वानो वेदधर्मार्थसाधकाः ॥

174

ये च क्षत्राणि रक्षन्तः पालयन्ति सदा प्रजाः
सत्वरक्षाव्रताचाराः क्षत्रियास् ते नृपा नराः ॥

175

ये रञ्जयन्ति धर्मार्थे लोकान् नीतिप्रयोजकाः
राजानस् ते महावीराः सर्वधर्माभिपालकाः ॥

176

ये च सत्वहिताधाने विविधार्थानुकारिणः
वेशयन्ति प्रजा धर्मे वैश्यास् ते हि नरोत्तमाः ॥

177

व्रताचारविहीना ये सत्वरक्षार्थचारिणः
मन्यन्ते सेवया शुद्धिं शूद्रास् ते श्रेष्ठिनस् तथा ॥

178

ये च क्षेत्राणि कर्षन्ति धान्यादिव्रीहिसाधकाः
कृषिकास् ते नरा धान्यैः सत्वजीवानुपोषकाः ॥

179

साधयन्ति महत्कार्यं धनादिवस्तुसंग्रहैः
वणिक्कर्माभिसंयुक्ता वणिजस् ते महोद्यमाः ॥

180

ये च सार्थान् समाहृत्य रत्नाकरसमागताः
साधयन्ति च रत्नानि सार्थवाहाश् च ते नराः ॥

मूल पाठ: Kalpadrumāvadānamālā · Edition: the text appended to P.L. Vaidya's edition of the Avadanasataka (Darbhanga 1958, Buddhist Sanskrit Texts ; 19) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc