कल्पद्रुमावदानमाला · श्लोक 141-160
यथा च कृमिकीटानां कायसंस्थानभेदता
तथैव नरजातीनां नैवास्ति भेदलक्षणम्* ॥
यथा भूरुहवृक्षाणां पत्राद्याकारभेदता
तथा नास्ति मनुष्याणाम् आकृतेर् भेदलक्षणम्* ॥
तृणौषधादिशस्यानां यथाकृतिविशेषता
मानवानां तथा नास्ति संस्थानं भिन्नलक्षणम्* ॥
धान्यादिव्रीहिजातीनां वर्णाकारादिलक्षणम्*
तथा नास्ति मनुष्याणां वर्णाकारविशेषता ॥
जातिकुन्दादिपुष्पाणां यथा वर्णादिभेदता
मानवानां तथा नास्ति वर्णगन्धादिभेदता ॥
जलजानां च पुष्पाणां पद्मादीनां विशेषता
वर्णसंस्थानगन्धाश् च नराणां तु तथा न हि ॥
यथाम्रादिफलानां च स्वादादिगुणभेदता
मनुजानां तथा नास्ति मांसास्थिगुणभेदता ॥
यथा षड्रसजातीनां गुणास्वादादिभेदता
तथा नास्ति मनुष्याणां षडिन्द्रियविशेषता ॥
यथा हेमादिधातूनां द्रव्यवर्णादिभेदता
तथा नास्ति मनुष्याणां संस्थानवर्णभेदता ॥
यथा वज्रादिरत्नानां संस्थानवर्णभेदता
तथा नास्ति मनुष्याणां शरीराकारभेदता ॥
सममांसादिभेदाश् च षडिन्द्रियसमास् तथा
एकांशतो विशेषो न कुतो देहेषु भेदता ॥
यथा हि बालका बाला क्रीडमाना महापथे
पांशुपुञ्जानि संपिण्ड्य स्वयं नामानि कुर्वते ॥
इदं क्षीरम् इदं मांसम् इदं घृतम् इदं दधि
न च बालस्य वचनात् पांशवो ऽन्ना भवन्ति हि ॥
वर्णास् तथैव चत्वारः सुभूत इति कल्पिताः
पांशुपुञ्जाभिधानेन योगो ऽप्य् एष न विद्यते ॥
न केशेन न कऋणेन न शीर्षेण न चक्षुषा
न मुखेन न नासाया न ग्रीवया न बाहुना ॥
नोरसा न च पार्श्वेन न पृष्ठेनोदरेण वा
नोरुभ्याम् अथ जङ्गाभ्यां पाणिपादनखैर् न च ॥
न स्वरेण न वर्नेन न सर्वांशैर् न मैथुनैः
नैका विशेषता वापि मनुष्येषु न विद्यते ॥
तथा नास्ति यथान्यासु जातेर् लिङ्गं पृथक् पृथक्*
सामान्य् अकारणं मन्ये किंचिन् न भेदलक्षणम्* ॥
संज्ञामात्रेण कल्प्यन्ते ब्राह्मणाः क्षत्रियास् तथा
वैश्याः शूद्रास् तथान्ये ऽपि संज्ञामात्रे हि कीर्तिताः ॥
यथैकवृक्षजातानां फलानां नास्ति भेदता
तथैकम् अनुजातानां किं विशेषत्वलक्षणम्* ॥
मूल पाठ: Kalpadrumāvadānamālā · Edition: the text appended to P.L. Vaidya's edition of the Avadanasataka (Darbhanga 1958, Buddhist Sanskrit Texts ; 19) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0