कल्पद्रुमावदानमाला · श्लोक 121-140
धर्मसंस्कृतिवृत्तिस्थः श्वपचो ऽपि द्विजो भवेत्*
तथा हि मानवे धर्मे मनुनाभिहितं खलु ॥
अरणीगर्भसंभूतः कठिनाख्यो महामुनिः
तपसा ब्राह्मणो जातस् तस्माज् जातिर् अकारणम्* ॥
कैवर्तिगर्भसंभूतो व्यासो नाम महामुनिः
तपसा ब्राह्मणो जातस् तस्माज् जातिर् अकारणम्* ॥
उर्वशीगर्भसंभूतो वसिष्ठाख्यो महामुनिः
तपसा ब्राह्मणो जातस् तस्माज् जातिर् अकारणम्* ॥
हरिणीगर्भसंभूतो ऋष्यशृङ्गो महामुनिः
तपसा ब्राह्मणो जातस् तस्माज् जातिर् अकारणम्* ॥
चण्डालीगर्भसंभूतो विश्वामित्रो महामुनिः
तपसा ब्राह्मणो जातस् तस्माज् जातिर् अकारणम्* ॥
तण्डुलीगर्भसंभूतो नारदाख्यो महामुनिः
तपसा ब्राह्मणो जातस् तस्माज् जातिर् अकारणम्* ॥
एवम् अन्ये ऽपि सर्वे च ऋषयो ब्रह्मचारिणः
तपसा ब्राह्मणा भूता ब्राह्मणीगर्भसंभवाः ॥
धर्मसंस्कारतः सर्वे मानवा ब्राह्मणाः खलु
धर्मवृत्तिप्रमाणेन सर्वे स्युर् ब्राह्मणा नराः ॥
एकवर्णम् इदं सर्वं ब्रह्मसृष्टिसमुद्भवम्*
धर्मकल्पविकल्पेन चातुर्वर्ण्यं प्रकल्पितम्* ॥
सर्वे वै योनिजा मर्त्याः सर्वे मूत्रपुरीषिणः
एकेन्द्रियक्रियार्थाश् च तस्माच् छीलगुणैर् द्विजाः ॥
शूद्रो ऽपि शीलसंपन्नो गुणवान् ब्राह्मणो भवेत्*
ब्राह्मणो ऽपि क्रियाहीनः शूद्रात् प्रत्यवरो भवेत्* ॥
गुणैर् धर्मैस् तथा शीलैर् वर्णा ह्य् अनेकजातयः
ब्रह्मजेषु हि सर्वेषु नरेषु किं विशेषता ॥
यथा भस्मनि सौवर्णे विशेष उपलभ्यते
ब्राह्मणे चान्यजातौ वा न विशेषो ऽस्ति वै तथा ॥
यथा प्रकाशतमसोर् विशेष उपलभ्यते
ब्राह्मणे चान्यजातौ वा विशेषो नैष विद्यते ॥
न हि ब्राह्मण आकाशान् मरुतो वा समुद्भवः
भित्वा वा पृथिवीं जातो जातवेदा यथारणेः ॥
ब्राह्मणा योनितो जाताश् चण्डाला अपि योनितः
श्रेष्ठत्वे वृषलत्वे च किं वास्ति भेदकारणम्* ॥
ब्राह्मणो ऽपि मृतोत्सृष्टो जुगुप्स्यो ऽशुचिर् उच्यते
वर्णास् सथव चाप्य् अन्ये का नु तत्र विशेषता ॥
यथा सिंहादिजन्तूनां पदादिभेदलक्षणम्*
देहसंस्थानलिङ्गैश् च नराणां किं विशेषता ॥
यथा हंसमयूरादि पक्षिणां च विशेषता
मुखादिवर्णशब्दैश् च नराणां नास्ति भेदता ॥
मूल पाठ: Kalpadrumāvadānamālā · Edition: the text appended to P.L. Vaidya's edition of the Avadanasataka (Darbhanga 1958, Buddhist Sanskrit Texts ; 19) · Data entry Klaus Wille · GRETIL (Göttingen) · CC BY-NC-SA 4.0