भाषा

ENहिગુ
ग्रंथ पाठ

कलिविडम्बन · श्लोक 41-60

41

गृहिणी भगिनी तस्याः श्वशुरौ श्याल इत्य् अपि
प्राणिनाम् कलिना सृष्टाः पञ्च प्राणा इमे ऽपरे ॥

42

जामातरो भागिनेया मातुला दारबान्धवास्
अज्ञाता एव गृहिणां भक्षयन्त्य् आखुवद् गृहे ॥

43

मातुलस्य बलं माता जामातुर् दुहिता बलम्
श्वशुरस्य बलं भार्या स्वयम् एवातिथेर् बलम् ॥

44

जामातुर् वक्रता तावद् यावच् छ्यालस्य बालता
प्रबुध्यमाने सारल्यं प्रबुद्धे ऽस्मिन् पलायनम् ॥

45

भार्या ज्येष्ठा शिशुः श्यालः श्वश्रूः स्वातन्त्र्यवर्तिनी
श्वशुरस् तु प्रवासीति जामातुर् भाग्यधोरणी ॥

46

भूषणैर् वासनैः पात्रैः पुत्राणाम् उपलालनैस्
सकृद् आगत्य गच्छन्ती कन्या निर्मार्ष्टि मन्दिरम् ॥

47

गृहिणी स्वजनं वक्ति शुष्काहारं मिताशनम्
पतिपक्ष्यांस् तु बह्वाशान् क्षीरपांस् तस्करान् अपि ॥

48

भार्ये द्वे पुत्रशालिन्यौ भगिनी पतिवर्जिता
अश्रान्तकलहो नाम योगो ऽयं गृहमेधिनाम् ॥

49

भार्ये द्वे बहवः पुत्रा दारिद्र्यं रोगसंभवस्
जीर्णौ च मातापितराव् एकैकं नरकाधिकम् ॥

50

स्मृते सीदन्ति गात्राणि दृष्टे प्रज्ञा विनश्यति
अहो महद् इदं भूतम् उत्तमर्णाभिशाब्धितम् ॥

51

अन्तको ऽपि हि जन्तूनाम् अन्तकालम् अपेक्षते
न कालनियमः कश् चिद् उत्तमार्णस्य विद्यते ॥

52

न पश्यामो मुखे दंष्ट्रां न पाशं वा कराञ्जले
उत्तमार्णम् अवेक्ष्यैव तथाप्य् उद्वेजिते मनस् ॥

53

शत्रौ सान्त्वं प्रतीकारः सर्वरोगेषु भेषजम्
मृत्यौ मृत्युञ्जयध्यानं दारिद्र्ये तु न किं चन ॥

54

शक्तिं करोति संचारे शीतोष्णे मर्षयत्य् अपि
दीपयत्य् उदरे वह्निं दारिद्र्यं परमौषधम् ॥

55

गिरं स्खलन्तीं मीलन्तीं दृष्टिं पादौ विसंस्थुलौ
प्रोत्साहयति याच्ञायां राजाज्ञेव दरिद्रता ॥

56

जीर्यन्ति राजविद्वेषा जीर्यन्त्य् अविहितान्य् अपि
आकिंचन्यबलाढ्यानाम् अन्ततो ऽश्मापि जीर्यति ॥

57

नास्य चोरा न पिशुना न दायादा न पार्थिवास्
दैन्यं राज्याद् अपि ज्यायो यदि तत्त्वं प्रबुध्यते ॥

58

प्रकाशयत्य् अहंकारं प्रवर्तयति तस्करान्
प्रोत्साहयति दायादांल् लाक्ष्मीः किं चिद् उपस्थिता ॥

59

विडम्बयन्ति ये नित्यं विदग्धान् धनिनो जनास्
त एव तु विडम्ब्यन्ते श्रिया किम्चिदुपेक्षितास् ॥

60

प्रामाण्यबुद्धिः स्तोत्रेषु देवताबुद्धिर् आत्मनि
कीटबुद्धिर् मनुष्येषु नूतनायाः श्रियः फलम् ॥

मूल पाठ: Kaliviḍambana · Edition: PIFI 36 , Pondichery 1967; 5 Nīl 1 (Trivandrum ed.); 5 misc 34 NSP ed.; Vani Vilas Press, Srirangaṃ; ed. Sankararama Sastri, Balamanorama Series 35, Madras 1942; ed. Kalyanasundara Sastri, Sastra Sanjeevinee Press Madras 1920; ed. Vaidika Vardhini Press Kumbakonam; L = lithograph Bod. 5.D.8, ed. by Keralavarma, Trivandrum 1886 · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc