भाषा

ENहिગુ
ग्रंथ पाठ

कलिविडम्बन · श्लोक 21-40

21

वारान् के चिद् ग्रहान् के चित् के चिद् ऋक्षाणि जानते
त्रितयं ये विजानन्ति ते वाचस्पतयः स्वयम् ॥

22

नैमित्तिकाः स्वप्नदृशो देवतानाम् [[अमी त्रयः]]
निसर्गशत्रवः सृष्टा दैवज्ञानाम् अमी त्रयस् ॥

23

स्वस्थैर् असाध्यरोगैश् च जन्तुभिर् नास्ति किं चन
कातरा दीर्घरोगाश् च भिषजां भाग्यहेतवस् ॥

24

नातिधैर्यं प्रदातव्यं नातिभीतिश् च रोगिणि
नैश्चिन्त्यान् नादिमे दानं नैराश्याद् एव नान्तिमे ॥

25

भैषज्यं तु यथाकामं पथ्यं तु कठिनं वदेत्
आरोग्यं वैद्यमाहात्म्याद् अन्यथात्वम् अपथ्यतस् ॥

26

निदानं रोगनामानि सात्म्यासात्म्ये चिकित्सितम्
सर्वम् अप्य् उपदेक्ष्यन्ति रोगिणः सदने स्त्रियस् ॥

27

जृम्भमाणेषु रोगेषु म्रियमाणेषु जन्तुषु
रोगतत्त्वेषु शनकैर् व्युत्पद्यन्ते चिकित्सकास् ॥

28

प्रवर्तनार्थम् आरम्भे मध्ये त्व् औषधहेतवे
बहुमानार्थम् अन्ते च जिहीर्षन्ति चिकित्सकास् ॥

29

लिप्समानेषु वैद्येषु चिराद् आसाद्य रोगिणम्
दायादाः संप्ररोहन्ति दैवज्ञा मान्त्रिका अपि ॥

30

रोगस्योपक्रमे सान्त्वं मध्ये किं चिद् धनव्ययस्
शनैर् अनादरस् शान्तौ स्नातो वैद्यं न पश्यति ॥

31

दैवज्ञत्वं मान्त्रिकता भैषज्यं चाटुकौशलम्
एकैकम् अर्थलाभाय द्वित्रियोगस् तु दुर्लभस् ॥

32

अनृतं चाटुवादश् च धनयोगो महान् अयम्
सत्यं वैदुष्यम् इत्य् एष योगो दारिद्र्यकारकस् ॥

33

कातर्यं दुर्विनीतत्वं कार्पण्यम् अविवेकताम्
सर्वं मार्जन्ति कवयः शालीनां मुष्टिकिंकरास् ॥

34

न कारणम् अपेक्षन्ते कवयः स्तोतुम् उद्यतास्
किं चिद् अस्तुवताम् तेषां जिह्वा फुरफुरायते ॥

35

स्तुतं स्तुवन्ति कवयो न स्वतो गुणदर्शिनस्
कीतः कश् चिद् अलिर् नाम कियती तत्र वर्णना ॥

36

एकैव कविता पुंसां ग्रामायाश्वाय हस्तिने
अन्ततो ऽन्नाय वस्त्राय ताम्बूलाय च कल्पते ॥

37

शब्दाख्यम् अपरं ब्रह्म संदर्भेण परिष्कृतम्
विक्रीयते कतिपयैर् वृथान्यैर् विनियुज्यते ॥

38

वर्णयन्ति नराभासान् वाणीं लब्ध्वापि ये जनास्
लब्ध्वापि कामधेनुं ते लाङ्गले विनियुञ्जते ॥

39

प्रशंसन्तो नराभासान् प्रलपन्तो ऽन्यथान्यथा
कथं तरन्तु कवयः कामपारम्यवादिनस् ॥

40

यत् सन्दर्भे यद् उल्लेखे यद् व्यङ्ग्ये निभृतं मनस्
समाधेर् अपि तज् ज्यायाः शंकरो यदि वर्ण्यते ॥

मूल पाठ: Kaliviḍambana · Edition: PIFI 36 , Pondichery 1967; 5 Nīl 1 (Trivandrum ed.); 5 misc 34 NSP ed.; Vani Vilas Press, Srirangaṃ; ed. Sankararama Sastri, Balamanorama Series 35, Madras 1942; ed. Kalyanasundara Sastri, Sastra Sanjeevinee Press Madras 1920; ed. Vaidika Vardhini Press Kumbakonam; L = lithograph Bod. 5.D.8, ed. by Keralavarma, Trivandrum 1886 · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc