भाषा

ENहिગુ
ग्रंथ पाठ

कलिविडम्बन · श्लोक 61-80

61

शृण्वन्त एव पृच्छन्ति पश्यन्तो ऽपि न जानते
विडम्बनानि धनिकाः स्तोत्राणीत्य् एव मन्वते ॥

62

आवृत्य श्रीमदेनान्धान् अन्योन्यकृतसंविदस्
स्वैरं हसन्ति+पार्श्वस्था बालोन्मत्तपिशाचवत् ॥

63

स्तोतव्यैः स्तूयन्ते नित्यं सेवनीयैश् च सेव्यते
न बिभेति न जिह्रेति तथापि धनिको जनस् ॥

64

क्षणमात्रं ग्रहावेशो याममात्रं सुरामदस्
लक्ष्मीमदस् तु मूर्खाणाम् आदेहम् अनुवर्तते ॥

65

श्रीर् मासम् अर्धमासं वा चेष्टित्वा विनिवर्तते
विकारस् तु तदारब्धो नित्यं लशुनगन्धवत् ॥

66

कण्ट्ःए मदः कोद्रवजो हृदि ताम्बूलजो मदस्
लक्ष्मीमदस् तु सर्वाङ्गे पुत्रदारमुखेष्व् अपि ॥

67

यत्रासीद् अस्ति वा लक्ष्मीस् तत्रोन्मदः प्रवर्तताम्
कुले ऽप्य् अवतरत्य् एष कुष्ठापस्मारवत् कथम् ॥

68

अध्यापयन्ति शास्त्राणि तृणीकुर्वन्ति पण्डितान्
विस्मारयन्ति जातिं स्वां वराटाः पञ्चषा करे ॥

69

बिभर्तु भृत्यान् धनिको दत्तां वा देयम् अर्थिषु
यावद् याचकसाधर्म्यं तावल् लोको न मृष्यति ॥

70

धनभारो हि लोकस्य पिशुनैर् एव धार्यते
कथं ते तं लघूकर्तुं यतन्ते ऽपरथा स्वतस् ॥

71

श्रमानुरूपं पिशुने किम् उपक्रियते नृपैस्
द्विगुणं त्रिगुणं चैव कृतान्तो लालयिष्यति ॥

72

गोकर्णे भद्रकर्णे च जपो दुष्कर्मनाशनस्
राजकर्णे जपः सद्यः सर्वकर्मविनाशनस् ॥

73

न स्वार्थं किम्चिद् इच्छन्ति न प्रेर्यन्ते च केन चित्
परार्थेषु प्रवर्तन्ते शठाः सन्तश् च तुल्यवत् ॥

74

कालान्तरे ह्य् अनर्थाय गृध्रो गेहोपरि स्थितस्
खलो गृहसमीपस्थः सद्यो ऽनर्थाय देहिनाम् ॥

75

शुष्कोपवासो धर्मेषु भैषज्येषु च लङ्घनम्
जपयज्ञश् च यज्ञेषु रोचते लोभशालिनाम् ॥

76

किं वक्ष्यतीव धनिकाद् यावद् उद्विजते ऽधनस्
किं प्रक्ष्यतीति लुब्धो ऽपि तावद् उद्विजते ततस् ॥

77

सर्वम् आतिथ्यशास्त्रार्थं साक्षात् कुर्वन्ति लोभिनस्
भिक्षाकबलम् एकैकं ये हि पश्यन्ति मेरुवत् ॥

78

धनपालः पिशाचो हि दत्ते स्वामिन्य् उपस्थिते
धनलुब्धः पिशाचस् तु न कस्मै चन दित्सते ॥

79

दातारो ऽर्थिभिर् अर्थ्यन्ते दातृभिः पुनो ऽर्थिनस्
कर्तृकर्मव्यतीहाराद् अहो निम्नोन्नतं कियत् ॥

80

स्वस्मिन्न् असति नार्थस्य रक्षकः संभवेद् इति
निश्चित्यैवं स्वयम् अपि भुङ्क्ते लुब्धः कथं चन ॥

मूल पाठ: Kaliviḍambana · Edition: PIFI 36 , Pondichery 1967; 5 Nīl 1 (Trivandrum ed.); 5 misc 34 NSP ed.; Vani Vilas Press, Srirangaṃ; ed. Sankararama Sastri, Balamanorama Series 35, Madras 1942; ed. Kalyanasundara Sastri, Sastra Sanjeevinee Press Madras 1920; ed. Vaidika Vardhini Press Kumbakonam; L = lithograph Bod. 5.D.8, ed. by Keralavarma, Trivandrum 1886 · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc