भाषा

ENहिગુ
ग्रंथ पाठ

कलिविडम्बन · श्लोक 1-20

1

न भेतव्यं न बोद्धव्यं न श्राव्यं वादिनो वचः
झटिति प्रतिवक्तव्यं सभासु विजिगीषुभिः ॥

2

असंभ्रमो विलज्जत्वम् अवज्ञा प्रतिवादिनि
हासो राज्ञः स्तवश् चेति पञ्चैते जयहेतवस् ॥

3

उच्चैर् उद्घोष्य जेतव्यं मध्यस्थश् चेद् अपण्डितस्
पण्डितो यदि तत्रैव पक्षपातो ऽधिरोप्यताम् ॥

4

लोभो हेतुर् धनं साध्यं दृष्टान्तस् तु पुरोहितस्
आत्मोत्कर्षो निगमनम् अनुमानेष्व् अयं विधिस् ॥

5

अभ्यास्यं लज्जमानेन तत्त्वं जिज्ञासुना चिरम्
जिगीषुना ह्रियं त्यक्त्वा कार्यः कोलाहलो महान् ॥

6

पाठनैर् ग्रन्थनिर्माणैः प्रतिष्ठा तावद् आप्यते
एवम् च तथ्यव्युत्पत्तिर् आयुषो ऽन्ते भवेन् न वा ॥

7

स्तोतारः के भविष्यन्ति मूर्खस्य जगतीतले
न स्तौति चेत् स्वयं च स्वं कदा तस्यास्तु निर्वृतिस् ॥

8

वाच्यतां समयो ऽतीतः स्पष्टम् अग्रे भविष्यति
इति पाठयतां ग्रन्थे काठिन्यं कुत्र वर्तते ॥

9

अगतित्वम् अतिश्रद्धा ज्ञानाभासेन तृप्तता
त्रयः शिष्यगुणा ह्य् एते मूर्खाचार्यस्य भाग्यजास् ॥

10

यदि न क्वापि विद्यायां सर्वथा क्रमते मतिस्
मान्त्रिकास् तु भविष्यामो योगिनो यतयो ऽपि वा ॥

11

अविलम्बेन संसिद्धौ मान्त्रिकैर् आप्यते यशस्
विलम्बे कर्मबाहुल्यं विख्याप्यावाप्यते धनम् ॥

12

सुखं सुखिषु दुःखे ऽपि जीवनं दुःखशालिषु
अनुग्रहायते येषां ते धन्याः खलु मान्त्रिकास् ॥

13

यावद् अज्ञानतो मौनम् आचारो वा विलक्षणस्
तावन् माहात्म्यरूपेण पर्यवस्यति मान्त्रिके ॥

14

चारान् विचार्य दैवज्ञैर् वक्तव्यं भूभुजां फलम्
ग्रहचारपरिज्ञानं तेषाम् आवश्यकं यतस् ॥

15

पुत्र इत्य् एव पितरि कन्यकेत्य् एव मातरि
गर्भप्रश्नेषु कथयन् दैवज्ञो विजयी भवेत् ॥

16

आयुस्प्रश्ने दीर्घम् आयुर् वाच्यं मौहूर्तिकैर् जनैस्
जीवन्तो बहुमन्यन्ते मृताः प्रक्ष्यन्ति कं पुनस् ॥

17

सर्वं कोटिद्वयोपेतं सर्वं कालद्वयावधि
सर्वं व्यामिश्रम् इव च वक्तव्यं दैवचिन्तकैस् ॥

18

निर्धनानां धनावाप्तिं धनिनाम् अधिकं धनम्
ब्रुवाणाः सर्वथा ग्राह्या लोकैर् ज्यौतिषिका जनास् ॥

19

शतस्य लाभे ताम्बूलं सहस्रस्य तु भोजनम्
दैवज्ञानाम् उपालम्भो नित्यः कार्यविपर्यये ॥

20

अपि सागरपर्यन्ता विचेतव्या वसुंधरा
देशो ह्य् अरत्निमात्रे ऽपि नास्ति दैवज्ञवर्जितस् ॥

मूल पाठ: Kaliviḍambana · Edition: PIFI 36 , Pondichery 1967; 5 Nīl 1 (Trivandrum ed.); 5 misc 34 NSP ed.; Vani Vilas Press, Srirangaṃ; ed. Sankararama Sastri, Balamanorama Series 35, Madras 1942; ed. Kalyanasundara Sastri, Sastra Sanjeevinee Press Madras 1920; ed. Vaidika Vardhini Press Kumbakonam; L = lithograph Bod. 5.D.8, ed. by Keralavarma, Trivandrum 1886 · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc