भाषा

ENहिગુ
ग्रंथ पाठ

कादम्बरीकथासार · अध्याय 6

6.1

अथ प्रविश्य नगरीमुपास्य पितरौ चिरम् ।
शुकनासं च सो ऽध्यास्त कुमारभवनं पुनः ॥

6.2

तत्र कादम्बरीध्याननिरतैकाग्रचेतसः ।
बभूव रतये नास्य किञ्चित्स्थास्नु चरिष्णु च ॥

6.3

नाकरोत् प्रियम् आहारं नाबोधि मधुरं रसम् ।
न चाद्रियत वासांसि न सिषेवे विलेपनम् ॥

6.4

सार्थच्युत इवाध्वन्यो यूथभ्रष्ट इव द्विपः ।
वागुरापाशसंरुद्ध इव सारङ्गशावकः ॥

6.5

दिवा विभावरीं ध्यायन् निशि वाञ्छन् दिनागमम् ।
उदीचीम् एव सास्राक्षो वीक्षमाणो ऽनिशं दिशम् ॥

6.6

केयूरकादिहायातं ज्ञात्वा मां किं भजेदसौ ।
किं वदेत् पत्त्रलेखां वा सापि किं वोच्यते तया ॥

6.7

इति नक्तन्दिनं ध्यायन्न् अनवापितनिर्वृतिः ।
कालं कियन्तम् अप्य् एवं चन्द्रापीडो ऽत्यवाहयत् ॥

6.8

आकारः संवृतस् त्व् ईदृग् अस्य गूढात्मनो ऽभवत् ।
यथा तां शून्यतां तस्य पितरौ नाधिजग्मतुः ॥

6.9

दिनेष्व् अथ व्यतीतेषु पत्त्रलेखा तदन्तिकम् ।
प्रापद् बलाहकाश्वीयनिर्वृत्तपथसौष्ठवा ॥

6.10

चन्द्रापीडो ऽपि तां दृष्ट्वा समुच्छ्वसितमानसः ।
कादम्बरीम् इवामंस्त पस्पर्श च मुहुर्मुहुः ॥

6.11

अथ विस्रब्धम् अप्राक्षीद् वद कादम्बरीकथाम् ।
किम् अस्माकं स्मरत्य् एषा रुषितेहागमनेन किम् ॥

6.12

साभ्यसूयम् इवालोक्य चन्द्रापीडम् उवाच सा ।
किम् एतच्चिन्तया देव गुरून् आराधय स्थिरम् ॥

6.13

असौ हि सुप्रसन्नेन स्वयं मकरकेतुना ।
त्वय्यर्पिता विधिवशाच्छ्रीपतौ श्रीरिवाब्धिना ॥

6.14

तां चाभिनवभावार्द्रां बालां तरुलताम् इव ।
तीव्रे विरहदावाग्नौ क्षिप्तवानसि किं वृथा ॥

6.15

केयूरकमुखाद् बुद्ध्वागमनं देव तावकम् ।
वज्राशनिहता शालिवल्लरीव व्यकम्पत ॥

6.16

लब्धस्थैर्यावदन् मां च पत्त्रलेखे किम् ईदृशम् ।
युक्तम् एतस्य यन्मन्ये रक्षांस्य् अपि न कुर्वते ॥

6.17

ततः प्रभृति निःश्वासैर् वर्धमानैर् दिनैर् इव ।
क्रान्ता ग्रीष्मनिशेवासावक्षीयत शनैः शनैः ॥

6.18

अलब्धकुसुमामोदाः प्रागभ्यासादुपागताः ।
दूरात्परिहरन्त्यस्याः कबरीमद्य षट्पदाः ॥

6.19

रोदनारुणितापाङ्गे चिरं विस्मृतकज्जले ।
नेत्रे माधुर्यमुत्सृज्य गते तस्याः कषायताम् ॥

6.20

चिरं पत्त्रलतालेख्यं विहाय क्रियते नवम् ।
मण्डनं गण्डयोर् अश्रुकणमुक्तावली तया ॥

6.21

मृदुः स्वभावरक्तश् च प्रवृद्धैर् असमोष्मभिः ।
म्लानिम् आनीयते तस्या निःश्वासैर् अधरः स्वरैः ॥

6.22

स्तनौ च विरहे तस्याः शोकान् न हि बहिष्कृतौ ।
दाहप्रतिक्रियाभ्यस्तैर् हारकर्पूरचन्दनैः ॥

6.23

विरहज्वलनस् तस्या लावण्यरसनिर्झरैः ।
वाडवश् चाब्धिना नैति शमम् इत्य् अद्भुतद्वयम् ॥

6.24

मुहुः सरसि हंसीव मृगीवोपवने मुहुः ।
पुलिने चक्रवाकीव मुहुर् लुठति विह्वला ॥

6.25

मुहुर् भवन्तम् आलिङ्ग्य पुरः संकल्पकल्पितम् ।
शून्ये भुजलते वीक्ष्य विलक्षा पतति क्षितौ ॥

6.26

मा गाद् अयम् उपालब्धः संकल्पाद् अपि दूरतः ।
इत्य् उपालभते न त्वां भीतेव मनसापि सा ॥

6.27

त्वदाकारमयं ध्यानं त्वद्गोत्रप्रवणा गिरः ।
त्वद्गात्रकीलिता दृष्टिस् तस्याः सम्प्रति वर्तते ॥

6.28

कियती वर्ण्यते तस्याः परेण विरहव्यथा ।
स्वसंवेदनगम्या हि सा तयैवानुभूयते ॥

6.29

किम् अप्य् आख्यातुकामेव बहुशः स्फुरिताधरा ।
हृदयस्थेन केनापि गुरुणेव निषिध्यते ॥

6.30

भूमौ विवेष्टमानाङ्गी भुजङ्गीव कदाप्य् असौ ।
दिशो वीक्ष्य मदुत्सङ्गे निधाय मुखम् अब्रवीत् ॥

6.31

उत्तिष्ठानय तं गत्वा जीवन्तीं मां यदीच्छसि ।
अहं गन्तुम् अशक्ता हि सुदूरम् इदम् अन्तरम् ॥

6.32

स्थितायां त्वयि जीवामि त्वत्स्पर्शेन यथा तथा ।
गतायां तु चिरं कालं न सहन्ते ममासवः ॥

6.33

इति श्रुत्वा च दृष्ट्वा च समायातास्म्य् अतः परम् ।
देवः प्रमाणम् इत्य् उक्त्वा रुदती विरराम सा ॥

6.34

चन्द्रापीडस् तद् आकर्ण्य गतस्मृतिर् इवाभवत् ।
लब्धस्मृतिश् चिरं दध्यौ गमने हेतुम् आत्मनः ॥

6.35

दिनेष्व् अथ व्यतीतेषु वक्तुं कादम्बरीदशाम् ।
आगात् केयूरको ऽप्य् आशु दीर्घाध्वश्रान्तवाहनः ॥

6.36

स चोज्जयिन्या विभवं प्रविशन् वीक्ष्य विस्मितः ।
स्थाने ननु मनो लग्नं स्वामिन्या इत्य् अमन्यत ॥

6.37

प्रविश्य ददृशे तेन चन्द्रापीडः कृशाकृतिः ।
चक्रवाक इवैकाकी प्रियाविरहविह्वलः ॥

6.38

दधत्या पार्श्ववर्तिन्या चामरं पत्त्रलेखया ।
संवीज्यमानः पर्यङ्कनिषण्णग्लानविग्रहः ॥

6.39

प्रणिपत्योपविष्टो ऽसौ गाढं शिरसि पस्पृशे ।
कुर्वता कुशलप्रश्नं चन्द्रापीडेन सादरम् ॥

6.40

ततः कादम्बरीवार्तां पृष्टः केयूरको ऽमुना ।
पत्त्रलेखामुखं वीक्ष्य संक्षिप्तम् इदम् अब्रवीत् ॥

6.41

उक्तो ऽसि नानया किञ्चिद् उक्तश् चेत् किम् इह स्थितः ।
उक्तश् चेह स्थितश् चासि कृतम् आगमनेन मे ॥

6.42

तथापि वद संदेशम् इति तेन तु चोदितः ।
पुनः केयूरकः प्राह न हि विज्ञाप्यसे मृषा ॥

6.43

कथं जीवत्सु युष्मासु विरहो हन्ति माम् इति ।
तस्याः साकूतया दृष्ट्या विसृष्टो ऽस्मि न तद्गिरा ॥

6.44

किम् अत्र बहुनोक्तेन तथास्या विरहव्यथा ।
अद्यापि जीवतीत्य् अत्र यथा दोलायते मनः ॥

6.45

तत्कथाभिस् तथा स्थित्वा तस्मिन्न् अथ दिने चिरम् ।
चन्द्रापीडः सुखावासं केयूरकम् अकारयत् ॥

6.46

न राक्षसो न चाण्डालो न किरातश् च यद्य् अहम् ।
अच्छोदसरसस् तीरं प्राप्तं मां वेत्थ सर्वथा ॥

6.47

अन्येद्युर् इति संदिश्य सहितं पत्त्रलेखया ।
केयूरकम् असौ रत्नैः प्राहिणोत् कृतमण्डनम् ॥

6.48

तयोस् तु गतयोर् आस्त सुतरां खिन्नमानसः ।
गमनाय धिया किञ्चिन् निमित्तम् अनुसंदधत् ॥

6.49

शुश्रावाथ नियुक्तेभ्यः स्कन्धावारम् उपागतम् ।
योजनद्वयमात्रं च पुनः कृतनिवेशनम् ॥

6.50

वैशम्पायनतो लप्स्ये किञ्चित् कारणम् इत्य् असौ ।
प्रत्युद्गन्तुम् अगाद् एनं कटकं पितुर् आज्ञया ॥

6.51

तत्र राजकम् आलोक्य बलाहकनिवेदितम् ।
क्व वैशम्पायनावास इति सेनान्यम् अभ्यधात् ॥

6.52

बलाहकस् त्व् अधोदृष्टिर् उल्लिखन् मेदिनीं मुहुः ।
न वैशम्पायनो ऽत्रेति सन्नकण्ठम् अभाषत ॥

6.53

ततो ऽवतीर्य तुरगादुपविश्य तरोर् अधः ।
हा वयस्येति विलपन्प्रावर्तत स रोदितुम् ॥

6.54

बलाहको निपत्याथ चन्द्रापीडस्य पादयोः ।
देव मैवं कृथाः सो ऽस्ति जीवन्न् एवेत्य् अवोचत ॥

6.55

चन्द्रापीडस् तु तं प्राह नैव श्रद्धीयते मय ।
न वैशम्पायनो जीवन् मुहूर्तं मां विमुञ्चति ॥

6.56

इति सम्भ्रान्तचित्तं तं पुनर् आह बलाहकः ।
श्रूयतां देव तद्वृत्तं यथासाव् इह नागतः ॥

6.57

देव तादृशम् आदिश्य प्रस्थितं त्वाम् अनुव्रजत् ।
ततः प्रतिनिवृत्तो ऽसौ तत्रैवास्त यथास्थिति ॥

6.58

अपरेद्युर् अथोत्थाय विधाय प्रकृताः क्रियाः ।
विनोदयितुम् आत्मानं स चचार वनस्थलीः ॥

6.59

तत्र सप्रत्यभिज्ञानं स्थानं स्थानं निरूपयन् ।
किञ्चिन् नष्टम् इवान्वेष्टुम् ऐच्छद् उत्त्रस्तलोचनः ॥

6.60

ततो ऽस्ताभिमुखे भानाव् अस्माभिः सो ऽभ्यधीयत ।
स्थीयताम् अद्य शिष्टास् तु श्वो द्रष्टासि वनस्थलीः ॥

6.61

अथासौ विचरन्न् एव साभ्यसूयम् इवावदत् ।
यात यूयं न गन्तव्यं यावज्जीवम् इतो मया ॥

6.62

स बहूनि दिनान्य् आस्त तत्रैव विचरन् वने ।
न च केनाप्युपायेन शक्तश् चलयितुं ततः ॥

6.63

कृतप्रायोपवेशेन पादयोः पततानिशम् ।
इयता राजचक्रेण नार्थितो ऽप्य् अत्यजद् ग्रहम् ॥

6.64

ततस् तत्र चिरं स्थित्वा कार्यशेषम् अपश्यता ।
आयातम् इह सैन्येन त्वं प्रमाणम् अतः परम् ॥

6.65

इति श्रुत्वा निपतितः शोकविस्मयसंकटे ।
चन्द्रापीडस्तथैवास्त तरुमूले कृतासनः ॥

6.66

अथ वार्तां विदित्वेमां सामात्यान्तःपुरो नृपः ।
अनपेक्षितवृत्तान्तस् तम् एवोद्देशम् आगमत् ॥

6.67

तत्र क्षणम् इव स्थित्वा स्वयं पृष्ट्वा बलाहकम् ।
अधिक्षिपन्न् इव प्राह चन्द्रापीडं क्षितीश्वरः ॥

6.68

नूनमुत्पादितो मन्युर् अविनीत त्वयास्य सः ।
येनान्तःस्फुरता सो ऽद्य त्वां विहाय वनं श्रितः ॥

6.69

वियुक्तौ न पुरा दृष्टौ युवां क्षणम् अपि क्वचित् ।
किं जातमधुना येन त्वं गृहे स तपोवने ॥

6.70

विना न हि निमित्तेन शक्या सोढुं गरीयसी ।
मातापितृसुहृद्बन्धुदेशवित्तवियोगिता ॥

6.71

इत्य् उक्तवति भूपाले शुकनासस् ततः परम् ।
अन्तः स्फुरितशोको ऽपि स्तम्भितक्षोभम् अभ्यधात् ॥

6.72

किम् एतद् अविचार्यैव वस्तुतत्त्वम् अतर्कयन् ।
शङ्कानुमानमात्रेण कृतधीर् अपि भाषसे ॥

6.73

अलातवृष्टिर् इन्दोर् वा क्षीराद् वा कण्टकोद्गमः ।
तस्य मन्युः कुमाराद् वा कस्य सम्भावनास्पदम् ॥

6.74

पापः स एव दुर्जातः सुचिरं पाठितः शुकः ।
यत्रामृतरसो ऽप्य् उप्तः फलितः कालकूटवत् ॥

6.75

स त्वं कुमार सर्वस्याः पृथिव्या एकजीवितम् ।
दुरात्मनो न तस्यार्थे शोकम् उद्वोढुम् अर्हसि ॥

6.76

तस्मिन् विरतवाक्ये तु पतित्वा पादयोः पितुः ।
साश्रुकण्ठम् अथोवाच चन्द्रापीडः कृताञ्जलिः ॥

6.77

तात शङ्कितदोषस्य प्रायश्चित्तम् इदं मम ।
गत्वा तम् आनयामीह त्वम् अनुज्ञातुम् अर्हसि ॥

6.78

तम् आगतम् इहालोक्य पृष्ट्वा शपथपूर्वकम् ।
ततो गुणं वा दोषं वा क्रमेण मम वेत्स्यसि ॥

6.79

तत्रस्थं तम् अनानीय मयैतत् स्वगृहं पुनः ।
न प्रवेष्टव्यम् इत्य् एष गृह्यतां मम निश्चयः ॥

6.80

तथोक्तवति तस्मिंस् तु राजा बाष्पाकुलेक्षणः ।
अपश्यन् मन्त्रिणो वक्त्रं स च तत्र बहूक्तवान् ॥

6.81

सर्वोपायप्रयोगेण पित्रा तेन च मन्त्रिणा ।
चन्द्रापीडो निरुद्धो ऽपि नाचलन् निश्चयात् ततः ॥

6.82

सिञ्चन्ती बाष्पधाराभिर् मौलिम् अस्य मनोरमा ।
करुणं विलपन्ती च चिरम् एनम् अबोधयत् ॥

6.83

त्वयि स्थिते निजोत्सङ्गस्थितं पश्यामि पुत्रकम् ।
नूनम् अन्धीभवाम्य् एव त्वयि पुत्र गते पुनः ॥

6.84

इत्थं विलासवत्या च तया च करुणोक्तिभिः ।
चिरम् आर्द्रीकृतो ऽप्येष न जहाति स्म निश्चयम् ॥

6.85

ततो ऽश्रुभरसंरुद्धगद्गदाक्षरया गिरा ।
यथा जानासि पुत्रेति कथम् अप्य् अवदन् नृपः ॥

6.86

दत्तानुज्ञस् ततः पित्रा प्रणम्य सकलान् गुरून् ।
श्रुत्वा च यत्नसंरुद्धबाष्पधारास् तदाशिषः ॥

6.87

चन्द्रापीडः पथि श्रान्तान् विनिवर्त्य यथा तथा ।
पार्थिवान् परिवारेण प्रातिष्ठत लघीयसा ॥

6.88

किं तन् मयाभ्यधायीति दूयमानमनाः शुचा ।
सेनया सह राजापि विवेश नगरीं शनैः ॥

6.89

बलाहकस् तु सेनानीर् वार्यमाणो ऽपि भूभुजा ।
स्वगृहान् अप्रविश्यैव स चन्द्रापीडम् अन्वगात् ॥

6.90

चन्द्रापीडस् ततो गच्छन् दयितादर्शनोत्सुकः ।
अमन्यत तृणायैव मध्यं कैलासविन्ध्ययोः ॥

6.91

नाजीगणद् द्रुमान् अद्रीन् न नदीर् न वनस्थलीः ।
न रात्रिं नापि दिवसं धावन्न् इन्द्रायुधेन सः ॥

6.92

ततः प्रावर्तत प्रावृट् पीनोन्नतपयोधरा ।
कान्ता नवरसार्द्रेव प्रत्युद्गन्तुम् इवागता ॥

6.93

ताम् अप्य् अगणयित्वासौ व्रजन् कतिपयैर् दिनैः ।
अच्छोदसरसस् तीरम् अवापाकलुषाम्भसः ॥

6.94

अपनीतसमायोगः परिवर्त्य च वाससी ।
महाश्वेताम् अथ द्रष्टुं स जगाम तदाश्रमम् ॥

6.95

तत्रापश्यन्महाश्वेतां तदालोकनलज्जिताम् ।
वदन्तीं निजदौरात्म्यं प्रलापकरुणस्वनाम् ॥

6.96

तत्कारणापरिज्ञानमोहनिष्पन्दपक्ष्मणा ।
निरीक्ष्य चक्षुषा पृष्टा चन्द्रापीडेन साब्रवीत् ॥

6.97

केयूरकमुखाद् बुद्ध्वागतं त्वां पितुर् आज्ञया ।
दिनानि कतिचित् स्थित्वा कादम्बर्या निकेतने ॥

6.98

तत एत्य यथान्यायम् आसीनात्र तपोवने ।
विप्रं युवानम् अद्राक्षं विचिन्वन्तं वनस्थलीः ॥

6.99

सप्रत्यभिज्ञम् आलोक्य माम् असौ मन्मथोन्मुखः ।
तीव्रम् उद्वेजयामास नर्मवक्रोक्तिचापलैः ॥

6.100

ततो निर्भर्त्स्यमानो ऽपि वार्यमाणो ऽपि यत्नतः ।
स बहूनि दिनान्य् आस्त तथा माम् उपपीडयन् ॥

6.101

एकदा तु शयानां माम् आगत्य निशि निस्त्रपः ।
कृताञ्जलिर् अनङ्गार्तो ययाचे रतिदक्षिणाम् ॥

6.102

ततो धिगिति सक्रोधम् अभिधाय कमण्डलोः ।
जलम् उद्धृत्य शप्तो ऽसौ मयानुध्याय देवताः ॥

6.103

शुकवन्मुखरागेण वक्तुम् एवासि शिक्षितः ।
गच्छ दूरं दुराचार शुक एव भविष्यसि ॥

6.104

शापेन तेन महता मदनाग्निना वा जन्मान्तरोपचितदुष्कृतकर्मणा वा ।
चित्रेण वा भगवतश् चरितेन धातुः प्राणान् असाव् उदसृजन् निपपात चोर्व्याम् ॥

6.105

आक्रन्दतः परिजनात्मशुचो ऽपरेद्युर् ज्ञातो मया स शुकनाससुतः सखा ते ।
तत् पश्य मां प्रियवयस्यवियोगहेतुम् अस्तत्रपाम् अकरुणां प्रखलाम् अभव्याम् ॥

6.106

इति श्रुत्वा भिन्नः प्रसभम् इव शूलाग्रशिखया कदा त्वां पश्येयं कमलमुखि कादम्बरि पुनः ।
वदन्न् एवं शोकस्फुटितहृदयस् तत्क्षणम् असूञ् जहच् चन्द्रापीडस् तरुर् इव पपात क्षितितले ॥

6.107

ततो भुग्नग्रीवं मुकुलितसितापाङ्गनयनं प्रभां तन्वीं दीनाम् इव विदधतं दिक्षु शनकैः ।
क्षितौ विस्रस्ताङ्गं पतितम् अमुम् आलोक्य विवशा महाश्वेता सद्यः कथम् अपि न याति स्म दलशः ॥

6.108

द्रष्टुं दीनाम् इव वसुमतीम् अक्षमस् तेन शून्यां कुर्वन्नुद्यन्द्विरदकरुणाक्रन्दिनश् चक्रवाकान् ।
अब्रह्मण्यध्वनिम् इव करौरूर्ध्वशाखैर् विमुञ्चन्न् अस्तं तिग्मद्युतिर् अपि ततः क्षामधामा जगाम ॥

मूल पाठ: Kādambarīkathāsāra · Edition: Pdt. Durgaprasad and Kasinath Pandurang Parab, Kavyamala [second series], vol. 11, 1888. · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc