कादम्बरीकथासार · अध्याय 5
इत्य् आवेदितनिर्व्याजनिजवृत्तान्तविस्तरा ।
विरराम महाश्वेता निःश्वासग्लपिताधरा ॥
चन्द्रापीडस् तु तद्ध्यायन्मनोभवविजृम्भितम् ।
सकम्पविस्मयो ऽप्य् अन्तस् ताम् अवोचत सान्त्वयन् ॥
मया ते चिरवृत्तो ऽपि परिणाममपश्यता ।
शोकः प्रत्यग्रतां नीतः कौतुकाविष्टचेतसा ॥
सा त्वमर्हसि कल्याणि न शोकं कर्तुम् ईदृशम् ।
आश्वासितासि देवेन नूनं चन्द्रमसा स्वयम् ॥
को ऽन्यस् तथाविधाकारस् तच्छक्तिर् मण्डलात् ततः ।
निर्गत्य तत्रैव विशन् निशि सम्भाव्यते नरः ॥
श्रूयन्ते गतयश् चित्रा देवतानाम् अनेकशः ।
वरशापतपःशक्तियोगवैचित्र्यनिर्मिताः ॥
श्वेतकेतुश् च तस्यास्ते प्रजापतिसमः पिता ।
नास्त्य् एव तस्य तपसाम् असाध्यं नाम किञ्चन ॥
इत्यादियुक्त्युपन्यासैर् इतिहासनिदर्शनैः ।
महाश्वेतां समाश्वास्य पुनः पप्रच्छ ताम् असौ ॥
सा ते तरलिका नाम विस्रम्भनिभृता सखी ।
गता भगवति क्वाद्य न हि सा त्वां विमुञ्चति ॥
अथोवाच महाश्वेता क्वासौ याति तपस्विनी ।
शृण्वन्नापि निमित्तं ते यथा सा प्रहिता मया ॥
यः स चित्ररथो नाम गन्धर्वाधिपतिर्मया ।
वर्णितो येन देवो ऽयं प्रत्यष्टापि महेश्वरः ॥
येन खानितम् अत्यच्छम् अच्छोदाख्यम् इदं सरः ।
येन चैत्ररथं नाम कृतम् एतच् च काननम् ॥
तस्यामृतसमुद्भूते प्रसूताप्सरसां कुले ।
महिषी मदिरा नाम जीविताद् अपि वल्लभा ॥
तयोः कादम्बरी नाम कन्यास्ति नवयौवना ।
लक्ष्मीम् उपहसन्तीव रूपलावण्यविभ्रमैः ॥
तया सह महत् प्रेम बाल्यात् प्रभृति मे तथा ।
यथैकम् एव जानाति जनो जीवितम् आवयोः ॥
विदित्वा दग्धवृत्तान्तम् इमं सपदि मामकम् ।
साग्रहीन् नियमं बाला वार्यमाणापि बन्धुभिः ॥
महाश्वेतास्य दुःखस्य यावन् न लभते ऽवधिम् ।
तावन् मया न कर्तव्यं पाणिग्रहणम् आत्मनः ॥
अतो यथा यथा तस्या यौवनश्रीर् विजृम्भते ।
तथा तथा ततो धत्ते खेदं चित्ररथः परम् ॥
संदिष्टं तेन मे पुत्रि यतस्वावहिता तथा ।
यथेमं दुर्ग्रहग्रन्थिं विमुञ्चति तव स्वसा ॥
अतस् तरलिका तत्र मया प्रकरणोचितम् ।
प्रहिता बहु संदिश्य श्वश् चागन्तेह सा पुनः ॥
इतीत्थं कथया नीत्वा महाश्वेताश्रमे दिनम् ।
चन्द्रापीडः प्रयाते ऽस्तम् अर्के संध्याविधिं व्यधात् ॥
तत्रेन्द्रायुधम् आनीय संयम्य निचुले क्वचित् ।
महाश्वेतोदिते देशे पर्णशय्याम् अकल्पयत् ॥
तस्यां तस्य निषण्णस्य श्रान्तस्यापि यथाश्रुताम् ।
कथाम् आश्चर्यबहुलां ताम् एव ध्यायतश् चिरम् ॥
पुनश् चिन्तयतः सेनां वैशम्पायनम् एव च ।
पत्त्रलेखां च सा रात्रिर् गता प्रायेण जाग्रतः ॥
इन्द्रायुधस् तु बाष्पार्द्रां महाश्वेतामुखे दृशम् ।
सप्रत्यभिज्ञम् अश्वो ऽपि भृशं मानुषवद् ददौ ॥
प्रयातायां तु यामिन्यां कृतप्राभातिकक्रिये ।
समाधेर् उत्थितां बुद्ध्वा महाश्वेतां तदन्तिकम् ॥
चन्द्रापीडे प्रविष्टे ऽथ नातिदूरोदिते रवौ ।
सगन्धर्वकुमारासौ ततस् तरलिका ययौ ॥
सा प्रविश्य महाश्वेतां प्रणिपत्योपविश्य च ।
सिद्धार्थासीति तत्पृष्टा वलितग्रीवम् अब्रवीत् ॥
त्वत्संदेशं निशम्योक्तं यत्तया भर्तृदारिके ।
तत्त्वं तच्छासनायातकेयूरकमुखाच्छृणु ॥
अथ केयूरकः प्राह नानभिज्ञासि चेतसः ।
स्वस्य स्वमेव चेदं ते मन्मनः किं परीक्षसे ॥
अथवा भूमिर् अस्याहम् उपालम्भस्य भूयसः ।
तपोवननिवासिन्यां त्वयि स्वगृहवर्तिनी ॥
आकर्ण्य तव संदेशवचस् तरलिकामुखात् ।
एष ते प्रतिसंदेशः प्रियसख्या निवेदितः ॥
इति श्रुत्वा महाश्वेता क्षणं निश्चललोचना ।
चिन्तयित्वा किम् अप्य् अन्तश् चन्द्रापीडम् अभाषत ॥
राजपुत्र तवाकारः सदाचारश् च पेशलः ।
तनोति सर्वभावेन निःस्पृहाणाम् अपि स्पृहाम् ॥
कादम्बरीवचश् चेदं श्रुतं केयूरकात् त्वया ।
तत्र को वा प्रतीकारः स्वयं मद्गमनाद् ऋते ॥
इतो न दूरे गन्धर्वराजधानी तदद्य ताम् ।
पश्यास्मदनुसेधेन श्वो गन्तासि स्ववाहिनीम् ॥
उदात्तमधुरामेतां दर्शयन्त्या तवाकृतिम् ।
बहु गन्धर्वलोकस्य मयाप्युपकृतं भवेत् ॥
चन्द्रापीडस् तु तां प्राह बहूक्त्वा भवगत्य् अलम् ।
अनतिक्रमणीयं मे मुनीनाम् अपि शासनम् ॥
प्रावर्तत ततो गन्तुं स महाश्वेतया सह ।
पद्भ्याम् एव नियुज्याश्वं प्रति केयूरकं दृशा ॥
केयूरको ऽग्रतो गत्वा कादम्बर्यै न्यवेदयत् ।
तस्यागमनम् आकारं गुणांश् चाहितविस्मयान् ॥
स गत्वा किञ्चिद् अध्वानं चन्द्रापीडः समासदत् ।
गन्धर्वराजनगरीम् अपराम् अमरावतीम् ॥
आसाद्य राजधानीं च तुङ्गस्फटिकतोरणाम् ।
सप्त कक्षा अतिक्रम्य कन्यान्तःपुरम् अभ्यगात् ॥
केयूरकोपदिष्टेन वर्त्मनाथ प्रविश्य सः ।
भास्वन्मणिमयस्तम्भं श्रीमण्डपम् अलोकयत् ॥
तन्मध्ये मणिपर्यङ्कमध्यासीनां महीयसा ।
रत्नाभरणचित्रेण स्त्रैणेन परिवारिताम् ॥
देहप्रभावितानेन रत्नकान्त्यभिभाविना ।
प्रतप्तकनकोद्द्योतधौता विदधतीं दिशः ॥
तटस्थम् अप्य् आर्द्रयतः सदाचारम् अभिन्दतः ।
स्थितां नवस्य लावण्यसिन्धोर् अन्तस् तरङ्गिणः ॥
सर्वोपमेयभावानाम् उपमानत्वम् आगताम् ।
कादम्बरीं ददर्शासौ दूरविस्फारितेक्षणः ॥
परातिशयकोटिस्थरूपलावण्यसम्पदम् ।
तस्यां निरूपयन्न् अन्तर् अचिन्तयद् अथ क्षणम् ॥
सत्यं न कश्चिद् आश्चर्यनिर्माणेष्व् अवधिर् विधेः ।
ईदृशान्य् अपि रत्नानि स्रष्टुं प्रभवति स्म यः ॥
मोघं याति हरेः कालो लक्ष्मीं वक्षसि बिभ्रतः ।
देहार्धेन वहन् गौरीं वञ्चितश् चन्द्रशेखरः ॥
कृतम् अक्ष्णां सहस्रेण निर्निमेषेण वज्रिणः ।
अनन्यकर्मणा येन नित्यम् एषा न दृश्यते ॥
इत्यादि चिन्तयत्य् अस्मिन्न् अथ चित्ररथात्मजा ।
प्रत्युद्ययौ महाश्वेताम् अभ्युत्थाय ससम्भ्रमम् ॥
महाश्वेता तु निःशङ्कम् आलिङ्ग्य स्नेहनिर्भरम् ।
तां चन्द्रापीडनिर्देशपुरःसरम् अभाषत ॥
अयं हि भारते वर्षे सार्वभौमस्य भूपतेः ।
तारापीडस्य तनयश् चन्द्रापीड इहागतः ॥
अनेनेह प्रविष्टेन दृष्टेर् विषयवर्तिना ।
भवत्व् अखिलगन्धर्वकुटुम्बकमहोत्सवः ॥
अथ कादम्बरी तस्मिन् पक्ष्मोत्क्षेपविकासिनीम् ।
आकर्णप्रसृतापाङ्गां चिरं दृशम् अपातयत् ॥
द्वारेण विवृतेनाथ तेनैव निजमायया ।
मदनो ऽन्तः प्रविश्यास्या बबन्ध हृदये पदम् ॥
रत्नपीठोपविष्टे तु चन्द्रापीडे तदन्तिके ।
अध्यासातां कथाम् एकां हंसचित्ररथात्मजे ॥
लज्जास्तिमितम् आसीनाम् अथ कादम्बरीं बलात् ।
महाश्वेता गृहाचारं चन्द्रापीडे न्यधापयत् ॥
शरीरनिर्विशेषास्याः कादम्बर्याः प्रिया सखी ।
मदलेखाभिधानास्य चरणाक्षालनं व्यधात् ॥
कादम्बरी तु सस्वेदप्रकम्पिकरपल्लवा ।
ताम्बूलच्छद्मनात्मानं स्वयम् अस्मै न्यवेदयत् ॥
तदङ्गुलितलस्पर्शमाधुर्यहृतमानसा ।
नालक्षयत सा रत्नवलयं स्खलितं करात् ॥
चन्द्रापीडो ऽपि तत्पाणिसंस्पर्शसुखसम्पदा ।
तदा त्रिभुवनाधीशम् इवात्मानम् अमन्यत ॥
ततस् तूष्णीम् उपासीने सर्वस्मिन् कन्यकाजने ।
शुकशारिकयोर् आसित् कलहः केलिकारणम् ॥
तत्प्रसङ्गे च सोत्प्रासं तयोः कलहवृद्धये ।
चन्द्रापीडो ऽब्रवीद् येन सर्वा जहसुरङ्गनाः ॥
ताश् च दन्तप्रभाधौतदिङ्मुखा मधुरस्वराः ।
चन्द्रापीडगिरो जह्रुस्तरां कादम्बरीमनः ॥
क्षणमात्रे व्यतीते ऽथ प्रविश्य प्राह कञ्चुकी ।
राजपुत्र्यौ युवां द्रष्टुं देवी निर्विघ्नम् इच्छति ॥
क्रीडापर्वतके कृत्वा सुतारमणिमन्दिरे ।
चन्द्रापीडं सुखासीनम् आयातं मातुर् अन्तिकम् ॥
तत्राध्यासितपर्यङ्कं केयूरकपुरःसराः ।
मुख्याः कादम्बरीसख्यश् चन्द्रापीडं सिषेविरे ॥
स्नानानुलेपनाहारक्रियाः स तदुपाहृतैः ।
चक्रे ऽमर्त्यपुरप्राप्यैर् विभवैर् उपपादिताः ॥
अथ मन्दप्रभे भानौ भेजे कादबरी निजम् ।
मदलेखाद्वितीयैव महाप्रासादमस्तकम् ॥
चन्द्रापीडं च तत्रस्था क्रीडापर्वतवर्तिनम् ।
निरवर्णयदाकर्णप्रसृतापाङ्गया दृशा ॥
चन्द्रापीडे तदा तस्याः कटाक्षास् तीक्ष्णकोटयः ।
समं निपेतुस् तस्यां च कुसुमायुधसायकाः ॥
कटाक्षैर् उपनीतं च क्षिप्रं कृतसमागमैः ।
तल्लावण्यं पिबन्तीव मदलेखाम् उवाच सा ॥
न मया मदनो नाम कथास्वपि सखि श्रुतः ।
अद्य प्रत्यक्षतो दृष्टः स चन्द्रापीडविग्रहः ॥
न महाश्वेतया किञ्चिद् उक्तं प्रकृतवस्तुनि ।
अथ चेहानयन्त्यामुं सर्वम् उक्तम् अनक्षरम् ॥
अपि नाम विकारो मे तदानीं लक्षितस् तया ।
किं वा न लक्षयेद् एषा दृष्टमन्मथविक्रिया ॥
अद्यापि निजसंकल्पविरुद्धां विक्रियाम् इमाम् ।
मनसः संहराम्य् एव स्थूलाम् अपि यथातथा ॥
किं त्व् असौ शेषहारो ऽस्यास्तुल्यं मण्डनम् आकृतेः ।
उरस्य् अनिच्छतो ऽप्य् अस्य तूर्णम् आमुच्यतां त्वया ॥
मदलेखा गृहीत्वा तं हारं गत्वा तदन्तिके ।
तथोवाच यथा तेन प्रत्युक्ता सा न किञ्चन ॥
आमुच्यत ततः कण्ठे हारो ऽस्य मदलेखया ।
शरदिन्दुकरोदारप्रभापूरितदिङ्मुखः ॥
चन्द्रापीडश् च हारेण रराज कृतमण्डनः ।
पूर्णेन्दुर् इव नक्षत्रकलापपरिवारितः ॥
कादम्बरी चिरं त्व् एनम् अवलोक्य निशागमे ।
प्रासादशिखरात् तस्मान् मन्दमन्दम् अवातरत् ॥
उत्थाय चन्द्रापीडो ऽथ कृतसंध्याविधिस् ततः ।
अवालम्बत देहेन शय्यां चिन्तां च चेतसा ॥
किं स्युर् गन्धर्वकन्याया विलासाः सहजा इमे ।
उतेमं जनम् उद्दिश्य बालां नर्तयति स्मरः ॥
दृष्टिर्निपुणदूतीव यथा त्वस्या विचेष्टते ।
तथा सम्भावना हीयं मम चेतसि वर्तते ॥
अवैमि पुष्पितस् तावत् किंनरानुसृतिक्रमः ।
स कालपरिणामेन न जाने किं फलिष्यति ॥
अथवा यौवनोन्मादकृत एष मम भ्रमः ।
क्व मानुष्यः क्व गन्धर्व इति किं तेन संगतम् ॥
आत्मसम्भावना चेयमास्तामसदृशक्रमा ।
कालेन व्यज्यते सर्वं कथं च मम सैनिकाः ॥
इति चिन्तयतस् तस्य निद्रा सुचिरसम्भृता ।
चकार मुकुलाकारे चक्षुषी आ निशात्ययात् ॥
अपरेद्युर् अथोत्थाय कृतप्राभातिकक्रमः ।
कादम्बरीमहाश्वेते दृष्ट्वा लब्ध्वा चिराद् इव ॥
तदनुज्ञां तदादिष्टगन्धर्वपरिवारितः ।
स इन्द्रायुधम् आरुह्य प्रतस्थे पृतनां प्रति ॥
अथ केनाप्य् उपायेन लब्धमार्गम् असौ निजम् ।
संनिविष्टं सरस्तीरे स्कन्धावारं व्यलोकयत् ॥
तत्र दृष्ट्वा नृपान् सर्वान् मन्त्रिपुत्रं रहस्य् असौ ।
स्ववृत्तान्तविदं चक्रे पत्त्रलेखां विशेषतः ॥
निशि तस्याम् अतीतायाम् अन्येद्युर् उदिते रवौ ।
केयूरकस्तम् आगत्य हेमकूटाद् अभाषत ॥
कादम्बरी न पट्वीति त्वाम् अभीष्णं दिदृक्षते ।
विस्मृतं शयनीये च शेषहारम् उपाहरत् ॥
केयूरकवचः श्रुत्वा समेतः पत्त्रलेखया ।
चन्द्रापीडः पुनस् तूर्णं हेमकूटम् अथागमत् ॥
अभिवन्द्य महाश्वेतां श्लाघितागमनस् तया ।
कादम्बरीम् अथापश्यत् पत्त्रलेखापुरःसरः ॥
उद्याननलिनीतीरकल्पिते हिममन्दिरे ।
कदलीदलशय्यान्तर्निषण्णां म्लानविग्रहाम् ॥
तदालोकनमात्रेण मुहुर् आश्वासितेव सा ।
तत उत्थातुम् इच्छन्ती शयानैवास्त तद्गिरा ॥
ततः कुशलसम्प्रश्नसुखमात्रपवित्रिताः ।
नानानर्मविलासार्द्राः प्रावर्तन्त तयोर् गिरः ॥
तथा तत्र चिरं स्थित्वा तां तथा वशवर्तिनीम् ।
भङ्गीभणितिभिर् व्यक्तम् आवेद्य निजम् आशयम् ॥
तदभ्यर्थनयादिश्य पत्त्रलेखां तदन्तिके ।
केयूरकद्वितीयो ऽसौ जगाम कटकं पुनः ॥
तत्रोज्जयिन्याः सम्प्राप्तं पूर्वेद्युर् लेखहारकम् ।
अवलोक्य तदानीं तं लेखं स्वयम् अवाचयत् ॥
पितुर् आज्ञां ततो ज्ञात्वा शीघ्रागमनशंसिनीम् ।
केयूरककरे न्यस्य तं लेखं कूणितेक्षणः ॥
तदर्थम् अथ संमन्त्र्य सह मन्त्रिसुतेन सः ।
एवम् एतद् इति ध्यायन् प्रस्थानस्थैर्यम् अग्रहीत् ॥
सत्यं वच्मि भवत्प्रसादरसिकं चेतो ममैतत्पदं गन्तुं नेच्छति किं तु शासनम् इदं नोल्लङ्घनीयं गुरोः ।
मन्युः सम्प्रति सह्यतां पुनर् इहागन्तास्मि कादम्बरीं संदिश्येति सबाष्पगद्गदम् असौ केयूरकं प्राहिणोत् ॥
वैशम्पायनम् अभ्यभाषत भवान् संवाहयन् वाहिनीं पश्चाद् एष्यति यामि सत्वरम् अहं स्वल्पैर् इतो वाजिभिः ।
निश्चित्येति तदा प्रयाणपटहे दत्ते प्रतस्थे ततो गत्वा किञ्चन चण्डिकाश्रमतटीम् अध्यास्त तस्मिन् दिने ॥
तत्रोद्धतद्रविडधार्मिकरूपवेषभाषातपश्चरणसिद्धिकथाविनोदैः ।
नीत्वा निशां सततमस्खलितप्रयाणैः स्वल्पैर् दिनैस् त्वरितमुज्जयिनीमवाप ॥
मूल पाठ: Kādambarīkathāsāra · Edition: Pdt. Durgaprasad and Kasinath Pandurang Parab, Kavyamala [second series], vol. 11, 1888. · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0