कादम्बरीकथासार · अध्याय 7
तस्मिन्न् अवसरे बाला कादम्बर्य् अपि वेधसा ।
तत्रैवानीयतानेकमायावैचित्र्यकारिणा ॥
असौ हि पत्त्रलेखाया मुखात् केयूरकस्य च ।
असंशयं समायातं चन्द्रापीडम् अबुध्यत ॥
ततः सकलविस्रम्भयोग्यं विगतयन्त्रणम् ।
महाश्वेताश्रमं प्राप्तं प्रत्युद्गन्तुम् इयेष तम् ॥
वैशम्पायनविध्वंसवृत्तान्तसमनन्तरम् ।
चन्द्रापीडमनःपीडां वयस्यविरहोद्भवाम् ॥
शङ्कमाना महाश्वेता तत्समाश्वासकारणम् ।
कादम्बरीं परिज्ञाय तदागमनसत्वरा ॥
तस्यास् तरलिकां गेहं शीघ्रम् आगम्यताम् इति ।
संदिश्य प्राहिणोत् सा च तूर्णं गत्वा तथावदत् ॥
जातोत्साहा महाश्वेतासंदेशेन गरीयसीम् ।
गमनोत्कलिकां दध्रे बुद्धौ कादम्बरी ततः ॥
ताम्बूलपटवासादिसंविधानविदग्धया ।
हृदयप्रख्यया सख्या सहिता मदलेखया ॥
पत्रलेखां पुरस्कृत्य प्रियचर्चाविचक्षणाम् ।
केयूरकं च तत्रैव दिने तां भुवमाययौ ॥
आयान्त्याश् च तदा तस्या दुर्निमित्तपरम्परा ।
प्रादुर्बभूव बालाया हृदयोत्कम्पकारिणी ॥
महाश्वेताश्रमोपान्तमापदस्तं गते रवौ ।
उदिते च निशानाथे संतप्तकरुणाह्रदे ॥
आसाद्य च तम् उद्देशं करुणं रोदनध्वनिम् ।
वनान्तकन्दरोद्भूतप्रतिशब्दम् अथाशृणोत् ॥
मन्ये सैव महाश्वेतावर्त्मनीयम् उपस्थिता ।
इत्य् असौ शङ्कमानेव विवेश द्रुतम् आश्रमम् ॥
ततः प्रविश्य सापश्यत् प्राणनाथं तथास्थितम् ।
महाश्वेतां च ताम् आर्तनिनादं रुदतीं भृशम् ॥
तामुद्वीक्ष्य महाश्वेतां विकसच्छोकविह्वला ।
नितान्तताडितोरस्कं रुदती मोहम् आगमत् ॥
पत्रलेखापि तद्रूपचन्द्रापीडविलोकिनी ।
मुमोच सहसा प्रज्ञां निपतन्ती शिलातके ॥
कादम्बर्या तु धैर्येण पृष्टा तरलिका तदा ।
आचचक्षे यथावृत्तं सर्वं तन्मरणक्रमम् ॥
तद् आकर्ण्य विहायैव वैक्लव्यं स्त्रीजनोचितम् ।
लब्धसंज्ञां महाश्वेतां मदलेखां च सावदत् ॥
संततस्थूलधारेण चिरात् प्रभृति रोहता ।
खिन्नाहम् अधुनानेन रोदनेन गरीयसा ॥
यथायोग्येन गच्छामि न हि शक्नोमि रोदितुम् ।
सखि मे दर्शितः पन्था नाथेनैव महात्मना ॥
अयं सुहृद्वियोगेन नारोदीद्विललाप वा ।
प्राणानेव प्रियानौज्झीत्स पन्थाः क्व गतो मम ॥
युक्तं सखि महाश्वेते तव प्राणितुम् ईदृशम् ।
जीविता देवताभिस् त्वं पुनस् तत्संगमाशया ॥
अहं सर्वप्रकारं तु विधिभग्नमनोरथा ।
करोमि दुर्भगैः प्राणैः किं कल्याणबहिष्कृता ॥
मदलेखे तथा कुर्यास् तातो ऽम्बा च कुले स्थितौ ।
मद्वियोगोपतापेन यथा न धृतिम् उज्झतः ॥
स्वयम् एवासितव्यं तु मद्वासभवने त्वया ।
यथा मणिगवाक्षेषु शेरते नोणनाभयः ॥
कुमारस् तत्र चित्रस्थो मयैव लिखितः स्वयम् ।
रक्षणीयो यथा नास्तम् एति चित्रस्थितो ऽप्य् असौ ॥
शयनीयशिरोभागे रत्नभित्तिनिवेशितः ।
कामदेवपटः क्वापि निक्षेप्तव्यो वृथार्चितः ॥
क्रीडापर्वतको देयः प्रशान्ताय तपस्विने ।
तत्रोषितं कुमारेण न हि सो ऽन्यस्य शोभते ॥
दीर्घिकाराममध्ये मे पद्मिनीखण्डमण्डिता ।
तत्रास्ते कृतवास्तव्यं राजहंसकदम्बकम् ॥
धारायन्त्रैः प्रपूर्णा च क्रीडावापी तदन्तिके ।
स्नेहान् मया स्वयं सिक्तम् अस्ति लीलावनं नवम् ॥
तस्मिन् कृतनवोद्वाहा बकुले मालती मया ।
मुक्तः कङ्कणको नास्या मोचनीयस् त्वयैव सः ॥
मया पुत्रीकृतश् चासाव् अशोकतरुबालकः ।
वर्धनीयः स्वहस्ताम्बुसेकैः स्तन्यपयोनिभैः ॥
गृहे मुहुर् अपश्यन्ती माम् असौ चपलेक्षणा ।
नूनं हरिणिका चास्ते प्रापयेस् तां च काननम् ॥
शुकः स परिहासो मे कालिनी सा च शारिका ।
यथा न कलहायेते तथा कुर्याः प्रतिक्षणम् ॥
नित्यम् एव मदुत्सङ्गलालिता नकुलाङ्गना ।
स्वाङ्के शाययितव्यासौ यथा याति न दूरतः ॥
किं कार्यम् अथवा गेहे चिन्तया दीर्घयानया ।
सम्पादय चिताम् आशु प्रज्वलज्जातवेदसम् ॥
केयूरक चिरं किं माम् अतिदीनाम् अवेक्षसे ।
उत्तिष्ठ चिनु काष्ठानि समाहार हुताशनम् ॥
लावण्याम्बुमयो देहः क्रियते कथम् अग्निसात् ।
कुमारम् अमुम् आदाय पतामि वरम् अम्भसि ॥
कुमारे मित्रदुःखेन तत्क्षणोज्झितजीविते ।
इयन्तम् अपि जीवन्ती कालं लज्जे ऽहम् आत्मना ॥
द्रष्टव्यासि कदेत्य् एवम् अभिधायैव मां गतः ।
सेयं चिरयतीत्य् एवम् अधुनाभिदधीत सः ॥
इति कादम्बरीं सद्यो मरणव्यवसायिनीम् ।
शिशिरज्योतिरालोक्य कम्पमान इवाभवत् ॥
येन दुग्धाब्धिकल्लोलप्लाव्यमान इवाभवत् ।
प्रवृत्तदन्तवीणश् च सकलः कन्यकाजनः ॥
अथ दिव्याकृतिः को ऽपि पुरुषो गगनस्थितः ।
गर्जद्घनघटाधीरगम्भीरध्वनिरभ्यधात् ॥
त्वं हि वत्से महाश्वेते पूर्वमाश्वासिता मया ।
स्थितो मदन्तिके ऽद्यापि पुण्डरीकस्तव प्रियः ॥
चन्द्रापीडस् त्व् अयं किञ्चित्कालं निद्रायमाणवत् ।
अत्रैवाविचलत्कान्तिर् आस्तां कादम्बरीप्रियः ॥
अनेन हि पुनर् लब्धनिरापायस्थिरायुषा ।
गाढकण्ठग्रहानन्दः कादम्बर्याः करिष्यते ॥
भवत्योर् अयम् एवास्तु चित्तसम्प्रत्ययो दृढः ।
न स्प्रक्ष्यति विकारो यद् एनं भूतस्वभावजः ॥
इत्य् उक्त्वा ज्योतिषा तेन सहसैव तिरोदधे ।
सविस्मयस् तदा चाभूद् अखिलः कन्यकाजनः ॥
पत्त्रलेखा च तेनैव ज्योतिषो वचनेन सा ।
लब्धसंज्ञा समुत्थाय गत्वा च त्वरितैः पदैः ॥
तम् इन्द्रायुधनामानम् अश्वम् आदाय केसरात् ।
तेनैव सहितागाधम् अविशन् मध्यम् अम्भसः ॥
शङ्कितेव च तां वेगयातां तरलिकान्वगात् ।
सा ददर्श पयोमध्याद् उद्गच्छन्तं कपिञ्जलम् ॥
प्रसृत्य व्याचचक्षे ह यथालोकितमद्भुतम् ।
तेनापि विस्मयस्तासां कन्यानां ववृधेतराम् ॥
अथ बिभ्रज् जटास् तन्वीः स्रुताम्बुकणदन्तुराः ।
जलार्द्रवल्कलस् ताभिर् अदृश्यत कपिञ्जलः ॥
स्वयम् एवोपसृत्यासौ महाश्वेताम् अभाषत ।
राजपुत्र्य् अपि नामायं प्रत्यभिज्ञायते जनः ॥
अहं कपिञ्जलस् तस्य वयस्यो दयितस्य ते ।
चिरागमनदौरात्म्याद् उपालभ्यो ऽस्मि न त्वया ॥
कादम्बर्या त्वया चैताः श्रुताश् चन्द्रमसो गिरः ।
मदीयम् अपि वृत्तान्तम् अधुना शृणुतं युवाम् ॥
अप्य् उत्क्षिप्य तथा नीते वयस्ये तेन तत्क्षणम् ।
अहं गगनम् उत्प्लुत्य तम् एवानुसरन्न् अगाम् ॥
ततो ऽसौ दूरम् उत्प्लुत्य प्रविश्य शशिमण्डलम् ।
पश्चाद् एव प्रविष्टं माम् अवलोक्येदम् अब्रवीत् ॥
कपिञ्जल मृगाङ्कं मां विद्धि सो ऽहं तवामुना ।
वयस्येन वृथा शप्तो हेमकूटगते त्वयि ॥
वोढव्या लोकयात्रा हि लोकपालतया मया ।
उदितो ऽहं निजे काले ततः प्रविकिरन् करान् ॥
अयं मदंशुसंस्पर्शप्रवृद्धाधिकमन्मथः ।
कण्टोपान्तगलप्राणो रूक्षं मां वीक्ष्य शप्तवान् ॥
यथाद्य विरहार्तो ऽहमेत्य व्यापादितस् त्वया ।
मरिष्यसि तथैव त्वमिन्दो जन्मनि जन्मनि ॥
प्रतिशप्तो मयाप्येष त्वम् अप्य् एवं मरिष्यसि ।
मद्वद् एवेत्य् अनागस्कशापतापोदितक्रुधा ॥
ततः प्रतनुमन्योर् मे परिताप इवाभवत् ।
जामातायं महाश्वेतासम्बन्धाद् इति पश्यतः ॥
कुर्यादपि प्रतीकारं श्वेतकेतुर्महातपाः ।
शरीरमस्य रक्षामि सामृतैर् अहम् अंशुभिः ॥
इत्य् उत्क्षिप्य मयेहायम् आनीतस् त्वं च सत्वरम् ।
गत्वा निवेदयेमं तु वृत्तान्तं श्वेतकेतवे ॥
इति चन्द्रमसो वाक्यं श्रुत्वाहं दिवमुत्पतन् ।
त्वरितप्रसृतः कञ्चिद्वैमानिकमलङ्घयम् ॥
स च माम् अशपत् कोपाद् अश्वेनेव तपोबलात् ।
त्वयाहं लङ्घितस् तस्माद् अश्व एव भविष्यसि ॥
स मया प्रणिपत्योक्तः सुहृच् छोकान्धचेतसः ।
प्रमादान् न तपोदर्पान् मम तत् संहर क्रुधम् ॥
स त्व् अभाषत दत्तो ऽयं शापो भवति नान्यथा ।
तारापीडस्य पुत्रार्थम् उज्जयिन्यां तपस्यतः ॥
राज्ञो यास्यति पुत्रत्वं चन्द्रमाः सनिदर्शनम् ।
पुण्डरीकस्तदीयस्य शुकनासस्य मन्त्रिणः ॥
तारापीडसुतस्येन्दोर्गन्ता वाहनतां भवान् ।
तस्यावसाने स्नात्वैव शापस्यान्तो भविष्यति ॥
तद् आकर्ण्यार्णवे तूर्णम् अपतं शापमूर्छितः ।
ततो ऽश्वीभूत एवाहम् उदतिष्ठम् अयोनिजः ॥
स्मृतिस् तुरगभावे ऽपि न मे नष्टा कदाचन ।
ममैवायम् इहानीतः किंनरानुसृतिक्रमात् ॥
वीप्सान्वितश् च शापो ऽयं परस्परम् अभूत् तयोः ।
द्वितीयजन्मयोगेन तयोर् भाव्यम् अतो ध्रुवम् ॥
तद् गच्छामि यथावृत्तम् आख्यातुं श्वेतकेतवे ।
द्वितीयजन्मग्रहणं क्व तयोश् चेति वेदितुम् ॥
कपिञ्जलकथातस् तं वैशम्पायनविग्रहम् ।
पुण्डरीकं परिज्ञाय महाश्वेतान्वतप्यत ॥
द्वितीये ऽप्य् अहम् एवास्य जाता जन्मनि मृत्यवे ।
शप्तो मदनुरक्तो ऽसौ मयेति विललाप सा ॥
कपिञ्जलस् तदा त्व् एवं रुदतीं ताम् अवारयत् ।
अब्रवीच् चावधिः पूर्णः प्रायो दुःखस्य वर्तते ॥
अल्पेनैव हि कालेन पुण्डरीकस्य सस्मितम् ।
अक्षमालां पुनः पाणिपल्लवे विनिधास्यसि ॥
कादम्बर्य् अपि माधुर्यमुग्धस्मितसुधाञ्चितैः ।
प्रमोदयिष्यते सान्द्रैश् चन्द्रापीडस्य भाषितैः ॥
कादम्बरी तम् अप्राक्षीद् भगवन् सा क्व वर्तते ।
पत्त्रलेखेति स त्व् आह मया नाज्ञायि तद्गतिः ॥
इत्य् उक्त्वोदपतद् व्योम रोमकूपाम्बुविप्रुषः ।
अच्छोदबिन्दुसंदिग्धाः किरन्न् अथ कपिञ्जलः ॥
तस्मिन् गते महाश्वेताकादम्बर्यौ तथैव ताम् ।
सशोकविस्मयोत्कम्पे कथया निन्यतुर् निशाम् ॥
महाश्वेताकथावृत्ते तत्राप्य् अधिकनिश्चया ।
कादम्बर्याः स्थिरं चित्ते सा प्रत्ययम् अजीजनत् ॥
अपरेद्युर् अथ स्फीतस्फटिकोपलवेदिकाम् ।
हृद्याम् आरोप्य कर्पूरतुषारकणदन्तुरैः ॥
अभिषिच्य जलैः स्वच्छैर् अनुलिप्य च चन्दनैः ।
आनर्च चन्द्रापीडस्य देहं कादम्बरी चिरम् ॥
यदि सत्यो ऽयम् आश्वासः सर्वं स्वस्थम् अथान्यथा ।
क्व गतो मे तदा मृत्युर् इत्य् अन्तर् निश्चिकाय सा ॥
जगाद च महाश्वेताम् इदानीं ननु न त्रपे ।
सखीति व्याहरन्ती त्वां दुःखसब्रह्मचारिणीम् ॥
विधिना विदधानेन समानसुखदुःखताम् ।
आवयोश् चिरसंरूढं सखीप्रेम न दूषितम् ॥
ततः प्रभृति सा मूर्तिम् अर्चयन्त्यास्त तापसी ।
चन्द्रापीडस्य चन्द्रार्धचूडस्येव दिवानिशम् ॥
दिवसेष्व् अथ गच्छत्सु निर्विकारशरीरताम् ।
चन्द्रापीडस्य पश्यन्ती स्थिराम् आशां बबन्ध सा ॥
ततः सेनान्यमा हूय बलाहकम् अभाषत ।
विदितस् तव सर्वो ऽर्थो वृत्तान्तो बहुविस्मयः ॥
देहकान्त्यविनाशेन जातः सम्प्रत्ययश् च नः ।
अर्हस्य् उज्जयिनीं गन्तुं प्रभोर् आश्वासकारणात् ॥
सो ऽब्रवीद् देवि तत्रान्यं प्रज्ञातं प्रहिणोम्य् अहम् ।
युवराजम् इहोत्सृज्य न गन्तुं स्वयम् उत्सहे ॥
ततस् त्वरितको नाम राज्ञो निकटसेवकः ।
प्रहितस् तेन लेखश् च स्वहस्तलिखिताक्षरः ॥
स गत्वोज्जयिनीं प्राप्य सर्वं राज्ञे न्यवेदयत् ।
राजा सान्तःपुरामात्यस् तद् अश्रौषीद् यथाक्रमम् ॥
ततस् तनयहृद्भङ्गश्रुतिव्यामूढचेतनः ।
उत्तरस्मिंश् च वृत्तान्ते न दृढप्रत्ययो ऽभवत् ॥
शुकनासस् तु तं प्राह कर्मवैचित्र्यवेदिनः ।
श्रुतेतिहासशास्त्रस्य देव को ऽत्र तव भ्रमः ॥
देवतानाम् ऋषीणां च मर्त्यदेहपरिग्रहः ।
श्रूयते हि पुराणेषु स्मृताव् अपि च पठ्यते ॥
चित्राश् चातिशयाः पुंसाम् अमानुषजनोचिताः ।
किम् अप्य् अलौकिकं बीजम् अनुमापयितुं क्षमाः ॥
कुमारश् च गुणैर् इन्दोर् अतिदूरं न भिद्यते ।
सा कान्तिर् आकृतिः शक्तिः क्व दृष्टा चान्यमानुषे ॥
स्वप्ने देवीमुखे दृष्टश् चन्द्रमास् तु विशंस् त्वया ।
मया च पुण्डरीकाङ्का ब्राह्मणी समदृश्यत ॥
शाप एव तयोर् आसीद् आवयोस् तु परो वरः ।
देवताः पुत्रतां यान्ति यद्गृहे मर्त्यधर्मिणाम् ॥
कपिञ्जलः पुनस् तादृग् अविलुप्तगतिर् दिवि ।
आचक्षीत कथं मिथ्या तुरगो नु क्व तादृशः ॥
इदं क्वान्यत्र दृष्टं वा जीवितेनोज्झितो ऽपि यः ।
पञ्चभूतात्मको देहः स यद् एति न विक्रियाम् ॥
ब्रूयात्त्वरितको मिथ्या लिखेन्मिथ्या बलाहकः ।
सुपरीक्षितभृत्यस्य नेयं शङ्का तवोचिता ॥
विदधतमसमोल्लसत्प्रमोदं जगद् अचिराद् अवलोकयिष्यसि त्वम् ।
शशिनम् इव विधुन्तुदेन मुक्तं व्यपगतशापकदर्थनं कुमारम् ॥
इति मन्त्रिवचांसि शृण्वतो ऽपि स्वसुतस्नेहविसंस्थुलस्य राज्ञः ।
न धृतिं प्रतिपद्यते स्म चेतो गमने च व्यवसायम् आललम्बे ॥
अथ सह महिषीभिर् बाष्पपूर्णेक्षणाभिर् निजसचिवसमेतो ऽगच्छदच्छोदतीरम् ।
शिथिलितसकलास्थः पार्थिवस् तं च यान्तं जनपदपुरलोकः सर्व एवान्वगच्छत् ॥
तस्मिन् गते ऽथ विजनापणवीथिकान्ता कान्तारभूर् इव तदोज्जयिनी बभूव ।
याते दिवं सकललोकमनोभिरामे रामे यथा हतसमृद्धिर् अभूद् अयोध्या ॥
गत्वा नृपः सुतम् अवेक्ष्य चिरं रुदित्वा तत् तद् विलप्य सह तत्र विलासवत्या ।
उत्सृज्य राज्यविभवं यतिवद् व्यधत्त तत्रैव वल्कलधरः स्थितिम् अद्य तावत् ॥
इत्य् उक्त्वा कृतजृम्भिकः क्षणम् इव स्थित्वाचचक्षे पुनर् जाबलिर् भगवान् अहो बत रसाद् दीर्घा कथा वर्णिता ।
तद्यो ऽसौ शुकनाससूनुर् अनया शप्तो महाश्वेतया वैशम्पायन एष सो ऽद्य शुकतां तेनागतः कर्मणा ॥
अपि चाविनयेन कोपितः शुकनासो ऽस्य पिता यद् अब्रवीत् ।
शुक एव वृथा स पाठितः फलितं तच् च वचो ऽद्य शापवत् ॥
श्रुत्वैतां तु कथां तपोधनगणैः पृष्टः पुनर् विस्मितैः को हेतुर् भगवन् यद् अस्य मदनस् तावान् मुनेर् अप्य् अभूत् ।
जाबालिः पुनर् आह नन्व् अभिहितं स्त्रीवीर्यतः केवलाद् उत्पन्नो ऽयम् अतो रजस्वलतया नारीस्वभावो ऽभवत् ॥
विरतवचसि तस्मिन्न् एतद् उक्त्वा महर्षौ रजनिर् अपि समाप्तिं सा कथावत् प्रपेदे ।
तदनु मुनिजनेनाकारि पूर्वाह्णसंध्यासमयसमुचितेषु ध्यानकार्येषु सिद्धिः ॥
मूल पाठ: Kādambarīkathāsāra · Edition: Pdt. Durgaprasad and Kasinath Pandurang Parab, Kavyamala [second series], vol. 11, 1888. · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0