कादम्बरीकथासार · अध्याय 4
स तद्गुणप्रभावर्द्धिवर्धमानकुतूहलः ।
ताम् अवोचत माधुर्यविनयोदारया गिरा ॥
त्वत्प्रसादकृतेनैव प्रागल्भ्येन ममामुना ।
मनो भगवति प्रश्नचापले विनियुज्यते ॥
न मादृशदृशां भूमिर् इयम् आश्चर्यसंततिः ।
तदाख्यानप्रसादेन जनो ऽयम् अनुगृह्यताम् ॥
कतमो मुनिगन्धर्वसिद्धविद्याधरादिषु ।
पुण्येन जन्मना वंशो भगवत्या विभूषितः ॥
पञ्चभूतात्मकं चेदं धत्ते धवलतां वपुः ।
कथं काम् अपि दिग्दन्तिदन्तकान्त्यतिशायिनीम् ॥
नवे वयसि किं चातितीव्रवैराग्यकारणम् ।
येनारण्यनिवासादि दुःखम् ईदृग् विषह्यते ॥
इति तस्मिन् वदत्य् एव स्थूलाश्रुकणवर्षिणी ।
रुरोद वल्कलच्छन्नवदना दिव्यकन्यका ॥
अकम्पत मनश् चैनां चन्द्रापीडस्य पश्यतः ।
इयम् अप्य् आकृतिर् नाम दुःखैर् यद् अभिभूयते ॥
असौ चिरं रुदित्वा तु वल्कलोन्मृष्टलोचना ।
दीर्घम् उष्णं च निःश्वस्य व्याहर्तुम् उपचक्रमे ॥
राजपुत्र किम् एतेन शोकैकवसतेर् मम ।
पापाया मन्दभाग्याया वृत्तान्तेन श्रुतेन ते ॥
तथापि यदि ते चित्तं कुतूहलवशीकृतम् ।
तद् इदं वर्ण्यते सर्वम् आकर्णय यथाक्रमम् ॥
सुप्रसिद्धम् इदं तावत् तव श्रुतिपथं गतम् ।
यत् सन्त्य् अप्सरसो नाम सुरसद्मनि कन्यकाः ॥
चतुर्दश च तद्वंशाः पृथक्पृथगवस्थिताः ।
सोमामृतसमीरार्कदक्षकन्यादिसम्भवाः ॥
दक्षकन्योद्भवं तेषु गन्धर्वाणां कुलद्वयम् ।
कन्ये मुनिर् अरिष्टेति द्वे दक्षस्य बभूवतुः ॥
तत्र चित्ररथो नाम गन्धर्वाणाम् अधीश्वरः ।
मुनेः श्रुतयशाः पुत्रश् चित्रसेनादिपूर्वजः ॥
तुम्बुरुप्रभृतीनां तु ज्येष्ठो ऽरिष्ठासुतः कृती ।
हंसाभिधानो गन्धर्वराजः प्रथितपौरुषः ॥
अकृत्रिमम् अनुत्पन्नम् अन्युकालुष्यदूषणम् ।
रूढं परस्परं प्रेम तयोर् गन्धर्वराजयोः ॥
इतश् च नातिदूरे ऽस्ति नानारत्नोज्ज्वलो गिरिः ।
हेमकूट इति ख्यातः स निवासस् तयोर् द्वयोः ॥
तस्मिन् वसन्त्य् असंख्यातास् तद्भुजस्तम्भसंश्रिताः ।
गन्धर्वास् तौ च विस्रम्भभूमिर् जन्मद्विषः परा ॥
अथ यत् सोमसम्भूतम् एकम् अप्सरसां कुलम् ।
गौरी नामोदभूत् कन्या तस्मिन् प्रतिकृतिर् विधोः ॥
हंसो गन्धर्वराजस् ताम् उदूहे तुहिनप्रभाम् ।
ततो यथार्थं नामाप सर्वथा हंसगामिनी ॥
चिरसम्भृतविस्रम्भनिर्भरं गृहवासिनोः ।
तयोर् उदभवत् सूनुर् एको ऽपि न महात्मनोः ॥
अहं तु मन्दभाग्यैका कन्या दुष्कृतकारिणी ।
उदभूवं तयोर् अस्य दुःखभारस्य भाजनम् ॥
अनपत्यतया तातो मज्जन्म सुतजन्मवत् ।
अभ्यनन्दत्कृतानन्दः कृतोदारमहोत्सवः ॥
देहच्छायाम् इमां वीक्ष्य तातः सोमक्रमागताम् ।
चक्रे वर्णानुरूपं स महाश्वेतेति नाम मे ॥
साहं पितृगृहे बाला वल्लकीव कलस्वना ।
संचरन्ती स्वबन्धूनामङ्कादङ्कमहर्निशम् ॥
अनवाप्तरसास्वादस्नेहादिद्वन्द्वसंततिः ।
अत्यवाहयमक्लेशपेशलस्थिति शैशवम् ॥
अथ बाल्यात् परं प्रापम् अहं नानारसास्पदम् ।
मनोभवविकाराणाम् एकम् आयतनं वयः ॥
कदाचिद् अथ रम्येषु मधुमासदिनेष्व् अहम् ।
अच्छोदसरसि स्नातुम् आगतेह सहाम्बया ॥
अदृष्टपूर्वाम् अन्यत्र विभूतिम् इह माधवीम् ।
सखीभिः सह पश्यन्ती कानने व्यचिरं चिरम् ॥
एकस्मिंस्तु प्रदेशे ऽन्यपुष्पगन्धाभिभाविनम् ।
अभ्यजिघ्रमनाघ्रातपूर्वमामोदमद्भुतम् ॥
तस्य प्रभवजिज्ञासारसेन विहितत्वरा ।
नातिदूरं ततो गत्वापश्यं मुनिकुमारकम् ॥
अस्पृष्टम् इव कन्दर्पम् ईशाननयनार्चिषा ।
कलङ्कविप्रुषा बिम्बम् अदूषितम् इवैन्दवम् ॥
विरुद्धैर् अपि रूपस्य मेखलाजिनवल्कलैः ।
कृताधिकमनोहारिरूपातिशयविभ्रमम् ॥
तेन कर्णे कृता काचिद् अपूर्वतरुमञ्जरी ।
ततः प्रवृत्तम् आमोदं समाघ्रातवती मुहुः ॥
तं कुतो ऽप्य् आगतं कान्तं लावण्यामृतनिर्झरम् ।
चक्षुषा सम्पिबन्तीव कौतुकोत्क्षिप्तपक्ष्मणा ॥
रूपैकपक्षपातेन गुणदोषानपेक्षिणा ।
ततः कुसुमबाणेन नीतासि वशम् आत्मनः ॥
ततो ऽपसर्तुकामाहम् अप्रगल्भतया मुहुः ।
केनापि प्रेर्यमाणेव तदन्तिकम् उपागमम् ॥
वन्द्यो मुनिजनश् चेति प्रचलन्मणिकुण्डलम् ।
अकार्षं वन्दनं तस्मै तन्मुखन्यस्तलोचना ॥
ततः कृतप्रणामायां मयि सो ऽपि मनोभुवः ।
पतितो गोचरे चित्रम् अलङ्घ्या भवितव्यता ॥
स्मरोपदिष्टयेवाथ बुद्ध्वा तद्विकृतिं धिया ।
लब्धास्था तत्स्वरूपादिप्रश्नप्रागल्भ्यम् आगमम् ॥
अथ पार्श्वस्थम् अप्राक्षम् अन्यं मुनिकुमारकम् ।
तुल्यतेजस् तपोवेषं तस्य सब्रह्मचारिनम् ॥
भगवन् कथ्यतां को ऽयं किमाख्यः किम् इहागतः ।
कर्णे च निहितानेन कस्येयं मञ्जरी तरोः ॥
सो ऽब्रवीत् सुरलोके ऽस्ति सुरासुरशिरोर्चितः ।
श्वेतकेतुर् इति ख्यातो रूपेणाप्रतिमो मुनिः ॥
पुण्डरीकसरः स्नातुम् अगमत् स कदाचन ।
नित्यं संनिहिता तत्र लक्ष्मीर् एनं व्यलोकयत् ॥
सा तदालिङ्गनेनेव दर्शनेनैव केवलम् ।
पुण्डरीके कृतार्थत्वम् अवाप स्वासनीकृते ॥
उदपादि तदैवास्य कुमारः स तया श्रिया ।
तव पुत्रो ऽयम् इत्य् उक्त्वा न्यवेदि श्वेतकेतवे ॥
सो ऽपि योगदृशा दृष्ट्वा यथावत् सुतम् अग्रहीत् ।
नाम जन्मोचितं चास्य पुण्डरीक इति व्यधात् ॥
योजयामास संस्कारैर् एनं मुनिजनोचितैः ।
अतीते बालभावे च न्ययुङ्क्त तपसे पिता ॥
अयं स पुण्डरीकस् ते वर्णितः शृणु मञ्जरीम् ।
चतुर्दशीति कृत्वाद्य प्रस्थितो ऽयं शिवालयम् ॥
व्रजतो नन्दनेनास्य वनदेवतया स्वयम् ।
त्वदाकृतेर् अलङ्कारस् तुल्यो ऽयम् इति सादरम् ॥
पारिजातद्रुमाद् एषा दुग्धोदधिसमुद्भवात् ।
आदाय मञ्जरी कर्णे ऽनिच्छतो ऽपि निवेशिता ॥
इति तस्मिन् वदत्य् एव चपले गृह्यताम् इयम् ।
किम् अनेन तव प्रश्नलोभेनेत्य् अभिधाय माम् ॥
अनायि मुनिना तेन सा सुरद्रुममञ्जरी ।
अपनीय निजात् कर्णान् मम कर्णावतंसताम् ॥
मत्कपोलतलस्पर्शप्रकम्पतरलाङ्गुलेः ।
तेन प्रस्खलिता हस्ताद् अक्षमाला न लक्षिता ॥
अप्राप्तैव च सा भूमिं गृहीता सहसा मया ।
अस्मिन्न् अवसरे छत्त्रग्राहिणी माम् अवोचत ॥
स्नाता देवी चिरं भर्तृदारिके गम्यताम् इति ।
ततः प्रतिनिवृत्तायां मयि तं स सखावदत् ॥
वयस्य किम् इदं चेतस् तव विप्लुतम् ईदृशम् ।
हृताम् अप्य् अनयाज्ञासीर् अक्षमालां न कन्यया ॥
हृता नामेयम् अनया हृदयं ननु रक्ष्यताम् ।
ततो ऽसौ पुनर् आगत्य कृतकोपम् इवावदत् ॥
अपहृत्याक्षमालां मे क्व चौरि ननु गम्यते ।
अथ मन्दं विहस्येव मयास्य निहिता करे ॥
अवमुच्याक्षमालेति कण्ठान् मुक्तावली निजात् ।
साप्य् अलक्ष्यत नानेन मन्मुखासक्तदृष्टिना ॥
सखीभिर् अपि मे दृष्टम् इदं चापलम् इत्य् अहम् ।
किञ्चित्संजातलज्जेव सरसस्तीरम् आगमम् ॥
अत्राहम् अस्वतन्त्रैव क्षणं स्नात्वा यथा तथा ।
अगच्छम् अम्बया साकं तद्गुणाध्यायिनी गृहम् ॥
गत्वा सवेदनास्मीति विसृज्य सकलाः सखीः ।
प्रविश्यैकाकिनी गेहम् आसं मोहविसंस्थुला ॥
क्व गतास्मि किम् उक्तास्मि तेन को ऽसावहं च का ।
किम् इदं कः प्रकारो ऽयम् इति नाज्ञासिषं तदा ॥
मुहूर्ताद् एव ताम्बूलकरङ्कग्राहिणी मम ।
प्रिया तरलिका नाम प्रविश्येदम् अथाब्रवीत् ॥
कर्णे मुनिकुमारेण कृता ते येन मञ्जरी ।
त्वय्यागतायां पृष्टास्मि स्वरूपं तेन तावकम् ॥
तच्छ्रुत्वा च स्वयं तेन लिखित्वा वस्त्रपट्टिका ।
एकाकिन्यै त्वया तस्यै देयेत्युक्त्वा समर्पिता ॥
ततस् तरलिकायास् तां हस्ताद् आदाय पट्टिकाम् ।
तस्यां तु लिखिताम् आर्याम् इमाम् अहम् अवाचयम् ॥
दूरं मुक्तालतया बिससितया विप्रलोभ्यमानो मे ।
हंस इव दर्शिताशो मानसजन्मा त्वया नीतः ॥
सा तु तैमिरिकस्येव बभूव बहुलक्षपा ।
मोहायार्याप्य् अनार्येव सुतरां मनसो मम ॥
वद तेन किम् उक्तासि स किम् उक्तस् त्वयापि वा ।
तदन्तिके च विस्रब्धम् उषिटासि कियच्चिरम् ॥
इत्थं तरलिकां तत् तद् आलपन्ती पुनः पुनः ।
काञ्चिद् अह्नस् ततो मात्राम् उन्मत्तेवात्यवाहयम् ॥
अथ प्रलम्बमाने ऽर्के प्रतीहारी प्रविश्य मे ।
भर्तृदारिकया दृष्टौ यौ तौ मुनिकुमारकौ ॥
तयोर् अन्यतरो द्वारि तिष्ठतीति न्यवेदयत् ।
शीघ्रं प्रवेशयेत्य् उक्ता मया तदभिशङ्कया ॥
सा च प्रवेशयामास तस्य तं सहचारिणम् ।
सत्कारेणोचितेनाहं भक्त्या चैनम् अपूजयम् ॥
मुहूर्तम् इव विश्रम्य पर्यङ्के मदुपाहृते ।
मदुत्तरीयसंमृष्टसुधौतचरणद्वयः ॥
दृष्टिं तरलिकायां स वक्तुकामः क्षणं न्यधात् ।
मया सो ऽज्ञायि पृष्टस् तु लज्जमान इवाभ्यधात् ॥
अहं कपिञ्जलो नाम तस्य बालसुहृन् मुनेः ।
न वाक् प्रवर्तते मे ऽस्मिन्न् अनभ्यस्त इवाध्वनि ॥
क्वायं मुनिजनः शान्तः क्व चामी रागविभ्रमाः ।
तथापि व्यवसायो ऽयं सुहृत्स्नेहवशानुगः ॥
तद् उच्यते प्रयातायां राजपुत्रि तदा त्वयि ।
हस्ते मुक्तावलीं बिभ्रत् स मदन्तिकम् आगतः ॥
अहो रम्याक्षमालेयं त्वयानीतेति तत्क्षणम् ।
विहस्य स मया नोक्तः किञ्चिच् चिन्तोपशान्तये ॥
नोपदेशप्रकारो ऽसौ न स दृष्टान्तविस्तरः ।
न सो ऽस्त्य् उपायो मन्त्रो वा यो मया नाभ्यधीयत ॥
वचोभिः खिद्यमानो मे त्रपानतशिरोधरः ।
क्षणम् अन्तर्हितो मत्तः सुतरां माम् अपीडयत् ॥
कृच्छ्राद् इव मया लब्धो विचित्य सकलं वनम् ।
अन्य एव स संवृत्तो वचसां यो न गोचरः ॥
तदवस्थं समालोक्य विगताशः प्रबोधने ।
अहं तत्प्राणरक्षार्थम् एवं यत्नपरो ऽभवम् ॥
आस्तीर्य नलिनीपत्त्रशयनं चन्दनोक्षितम् ।
तत्रस्थस्यास्य कर्पूरपांसून् अङ्गेष्व् अवाकिरम् ॥
त्रपया तदवस्थो ऽपि स किञ्चिद् वक्तुम् अक्षमः ।
सबाष्पमलिनां दीनां मयि दृष्टिम् अपातयत् ॥
ततो ऽहम् इदम् एवात्र प्राप्तकालम् अचिन्तयम् ।
राजपुत्रि सुहृत्प्राणदक्षिणार्थम् उपागतः ॥
अतः परं तु सामर्थ्यगतार्था मम या गिरः ।
कण्ठे विपरिवर्तन्ते नूनं त्वम् अपि वेत्थ ताः ॥
इति तस्मिन् वदत्य् एव प्रविश्य प्राह कञ्चुकी ।
त्वम् अस्वस्थशरीरेति ज्ञात्वा देवी समागता ॥
तच् छ्रुत्वा जनसंमर्दभीरुर् यातः कपिञ्जलः ।
न स प्रतिवचः किञ्चिन् मामकीनम् अपैक्षत ॥
तदुक्तां तु दशां तस्य जनस्यावेत्य तादृशीम् ।
आगतां नागतां वापि नाहम् अम्बाम् अलक्षयम् ॥
ततः कमलिनीं रक्तां त्यक्त्वा क्वापि गते रवौ ।
उदिते सर्वथा वामे विधौ वैधुर्यदायिनि ॥
उन्मूलितेव कामेन दग्धेव विरहाग्निना ।
पुनस् तरलिकाम् एव साश्रुकण्ठम् अवादिषम् ॥
अहं यथा तथा वापि भवेयं स तु मत्कृते ।
कथं भविष्यतीत्य् एषा चिन्ता दलयतीव माम् ॥
इतः शास्त्रं कुलाचारो लज्जा गुरुजनाद्भयम् ।
इतः कामो वसन्तो ऽपि विरहो मरणाद् भयम् ॥
वद किं करवाण्य् अत्र मुह्यतीव मनो मम ।
मा भून् मे वरके विप्रप्राणबाधेन मज्जनम् ॥
इत्यादि विलपन्त्या मे तत्कालसुलभोदया ।
जहार चेतनां मूर्छा निद्रेव नयनद्युतिम् ॥
अथ मां ग्राहयित्वासौ संज्ञां शीतजलानिलैः ।
निपत्य पादयोः साश्रुनेत्रा तरलिकाब्रवीत् ॥
किं शास्त्रं गुरवः के च का लज्जा का कुलस्थितिः ।
रक्ष्यन्ताम् आत्मनः प्राणा यूनस् तस्य च सर्वथा ॥
गन्धर्वाणां विवाहो ऽयम् इच्छयान्योन्यसंगमः ।
शास्त्रेषु पठितस् तस्मात् तूर्णम् उत्तिष्ठ गम्यताम् ॥
तयैवम् उक्ता तत्कालयोग्यवेषग्रहा गृहात् ।
ताम् एकाम् अग्रतः कृत्वा निर्गताहम् अलक्षिता ॥
अभ्यागमम् इमां भूमिम् औत्सुक्यचटुलैः पदैः ।
तदा मे दक्षिणं चक्षुर् अस्पन्दत मुहुर् मुहुः ॥
अव्यक्तम् इव चाश्रौषं कानने रुदितध्वनिम् ।
तेन चोत्पन्नशङ्काहम् अगच्छम् अधिकत्वरम् ॥
पदानि कतिचिद्गत्वा हा वयस्य तपोनिधे ।
पुण्डरीक क्व यातो ऽसि शून्यं कृत्वा जगत्त्रयम् ॥
हा हतो ऽस्मि विलीनो ऽस्मि दग्धो ऽस्मि करवाणि किम् ।
गत्वा तातस्य वक्ष्यामि श्वेतकेतोः किम् अग्रतः ॥
अयि पापे महाश्वेते न तुष्टास्यक्षमालया ।
हृता मे सुहृदो ऽमुष्य प्राणवृत्तिर् अपि त्वया ॥
वयस्य देहि मे वाचं न जीवामि त्वया विना ।
ततो ऽशृणवम् इत्यादि विलपन्तं कपिञ्जलम् ॥
अथ प्रवेपमानाङ्गी विसंस्थुलपदक्रमा ।
केनाप्युत्क्षिप्य नीतेव तं प्रदेशमयाशिषम् ॥
गत्वा तम् अहम् अद्राक्षं तत्क्षणोत्क्रान्तजीवितम् ।
किं चिरेणागतासीति रुषित्वेव तथा स्थितम् ॥
एतावद् उक्त्वा मूर्छाधिं स्ववृत्तान्तम् अतः परम् ।
विवक्षन्तीव सा कन्या निपपात शिलातले ॥
प्रनष्टचेतनां चैनां चन्द्रापीडो ऽवलोकयन् ।
प्रश्नकारिणम् आत्मानं कृतागसम् अमन्यत ॥
ससम्भ्रमं समुत्थाय कदलीदलमारुतैः ।
तोयैश् च शिशिरस्वच्छैः संज्ञाम् एनाम् अजिग्रहत् ॥
अवाप्य चेतनाम् एषा स्मृत्वा तद्व्यसनं निजम् ।
तद् एवानुभवन्तीव रुरोद विललाप च ॥
तरूणाम् अप्य् अभज्यन्त हृदयानि तदा शुचा ।
प्रतिशब्दनिभेनोच्चैः ककुभो ऽप्य् अरुदन्न् इव ॥
चन्द्रापीडो ऽथ ताम् आह बाष्परुद्धविलोचनः ।
आस्तां न शक्यते वक्तुं श्रोतुं चान्यद् अतः परम् ॥
कथम् अप्य् उपसंहृत्य शोकावेगं तु सावदत् ।
किम् अतः परम् अस्त्य् अन्यद् वाच्यं श्रोतव्यम् एव वा ॥
किं तु क्लेशाय येनाशालेशेन हतजीवितम् ।
राजपुत्र बिभर्मीदं तद् आश्चर्यं ब्रवीमि ते ॥
तदा तस्यातितीव्रस्य दुःखभारस्य तादृशी ।
न काचिन् मरणादन्या मयाग्राहि प्रतिक्रिया ॥
मरणव्यवसायनिश्चला कृतवत्य् अस्मि च संविधानकम् ।
निरियाय च चन्द्रमण्डलात् पुरुषः को ऽपि हिमोपमद्युतिः ॥
सो ऽवतीर्य गगनान् महीतले तं निधाय भुजपञ्जरान्तरे ।
उत्पतन् दिवम् उदारया गिरा माम् अवोचत पितेव सान्त्वयन् ॥
विरम मरणोद्योगाद् अस्मात् प्रियेण तवामुना पुनर् अपि महाश्वेते वत्से भविष्यति संगमः ।
इति गिरम् अहं तस्माच् छ्रुत्वा ससम्भ्रमविस्मया किम् इदम् इति तं तत्रापृच्छं प्रसृत्य कपिञ्जलम् ॥
प्रियसखम् अपहृत्य क्वाधुना गच्छसीति स्फुरितविकटकोपाटोपमुक्तोर्ध्वदृष्टिः ।
मम वचनम् अदत्त्वा किञ्चिद् एवातिवेगा कृतपरिकरबन्धः सो ऽप्य् अगाद् अन्तरिक्षम् ॥
पश्यन्त्यां मयि ते त्रयो ऽपि विविशुः शीतत्विषो मण्डलं तत्सम्प्रत्ययसंहृतोचितविधिः साहं श्रितेदं व्रतम् ।
तातेनैत्य ततः प्रभृत्य् अहम् इहासीनाथ नेतुं गृहं यत्नेनापि न पारितेति सुचिरं स्थित्वा गतः स्वान् गृहान् ॥
मूल पाठ: Kādambarīkathāsāra · Edition: Pdt. Durgaprasad and Kasinath Pandurang Parab, Kavyamala [second series], vol. 11, 1888. · Data entry Harunaga Isaacson · GRETIL (Göttingen) · CC BY-NC-SA 4.0