भाषा

ENहिગુ
ग्रंथ पाठ

ज्ञानामृतसारसंहिता · अध्याय 1.9

1.9.1

इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे प्रथमैक-रात्रे अष्टमो ऽध्यायः
प्रथमैक-रात्रे नवमो ऽध्यायः
श्री-व्यास उवाच
वरं दत्वा महा-देवो भक्त्या तं ब्राह्मणातिथिम् ।
पूजां चकार वेदोक्तां स्वयं वेद-विदां वरः

1.9.2

भुक्त्वा पीत्वा मुनि-श्रेष्ठो महा-देवस्य मन्दिरे ।
तिष्ठन्न् उपासानां चक्रे पार्वती-परमेशयोः

1.9.3

एकदा चिर-कालान्ते तम् उवाच महा-मुनिम् ।
महा-देवः सभा-मध्ये कृपया च कृपा-निधिः

1.9.4

श्री-महा-देव उवाच
किं वा ते वाञ्छितं वत्स ब्रूहि मां यदि रोचते ।
वरो दत्तः किम् अपरं यत् ते मनसि वर्तते

1.9.5

महा-देव-वचः श्रुत्वा तम् उवाच महा-मुनिः ।
कैलासे च सभा-मध्ये यत् तन्-मनसि वाञ्छितम्

1.9.6

श्री-नारद उवाच
ज्ञानम् आध्यात्मिकं नाम वेद-सारं मनोहरम् ।
हरि-भक्ति-प्रदं ज्ञानं मुक्तिदं ज्ञानम् ईप्सितम्

1.9.7

योग-युक्तं च यज् ज्ञानं ज्ञानं यत् सिद्धिदं तथा ।
संसार-विषय-ज्ञानम् एव पञ्च-विधं स्मृतम्

1.9.8

आश्रमाणां समाचारं तेषां धर्म-परिष्कृतम् ।
विधवानां च भिक्षूणां यतीनां ब्रह्म-चारिणां

1.9.9

पूजा-विधानं कृष्णस्य तत्-स्तोत्रं कवचं मनुम् ।
पुरश्चर्या-विधानं च सर्वाह्निकम् अभीप्सितम्

1.9.10

जीव-कर्म-विपाकं च कर्म-मूल-निकृन्तनम् ।
संसार-वासनां कां वा लक्षणं प्रकृतीशयोः

1.9.11

तयोः परं वा किं वस्तु तस्यावतार-वर्णमम् ।
को वा तद्-अंशः कः पूर्णः परिपूर्णतमश् च कः

1.9.12

नारायणर्षि-कवचं सुभद्र-प्रवराय च ।
यद् दत्तं किं तद् देवेश तद् आराध्यं प्रयत्नतः

1.9.13

मया ज्ञानंम् अनापृष्ठं यद् यद् अस्ति सुरोत्तम ।
तन् मे कथय तत्त्वेन माम् एवानुग्रहं कुरु

1.9.14

गुरोश् च ज्ञानोद्गिरणाज् ज्ञानं स्यान् मन्त्र-तन्त्रयोः ।
तत् तन्त्रं स च मन्त्रः स्याद् यतो भक्तिर् अधोक्षजे

1.9.15

ज्ञानं स्याद् विदुषां किंचिद् वेद-व्याख्यान-चिन्तया ।
स्वयं भवान् वेद-कर्ता ज्ञानाधिष्ठातृ-देवता

1.9.16

नारदस्य वचः श्रुत्वा सस्मितः पार्वती-पतिः ।
निरीक्ष्य पार्वती-वक्त्रं गज-वक्त्रम् उवाच सः

1.9.17

अथ नारदोपदेश-ग्रहणम्
श्री-महा-देव उवाच
अहो अनन्त-दासानां माहात्म्यं परमाद्भुतम् ।
कुर्वन्त्य् अहैतुकीं भक्तिं ये च शश्वद् धरेः पदे

1.9.18

पद्म-नाभ-पाद-पद्मं पद्मा-पद्मेश्वरार्चितम् ।
दिवानिशं ये ध्यायन्ते शेषादि-सुर-वन्दितम्

1.9.19

आलापं गात्र-संस्पर्शं पाद-रेणुम् अभीप्सितम् ।
वाञ्छन्त्य् एव हि तीर्थानि वसुधा चात्म-शुद्धये

1.9.20

कृष्ण-मन्त्रोपासकानां शुद्धं पादोदकं सुत ।
पुनाति सर्व-तीर्थानि वसुधाम् अपि पार्वति

1.9.21

कृष्ण-मन्त्रो द्विज-मुखाद् यस्य कर्णं प्रयाति च ।
तं वैष्णवं जगत्-पूतं प्रवदन्ति पुरा-विदः

1.9.22

मन्त्र-ग्रहण-मात्रेण नरो नारायनात्मकः ।
पुनाति लीला-मात्रेण पुरुषाणां शतं शतम्

1.9.23

यज् जन्म-मात्रात् पूतं च तत् पितृणां शतं शतम् ।
प्रयाति सद्यो गोलोकं कर्म-भोगात् प्रमुच्यते

1.9.24

माता-महादिकान् सप्त जन्म-मात्रात् समुद्धरेत् ।
यत् कन्यां प्रतिगृह्णाति तस्य सप्तावलीलया
मातरं तत्-प्रशूं भार्यां पुत्राच् च सप्त-पूरुषम् ।
भ्रातरं भगिनीं कन्यां कृष्ण-भक्तः समुद्धरेत्

1.9.26

स स्नातः सर्व-तीर्थेषु सर्व-यज्ञेषु दीक्षितः ।
फलं स लेभे पूजानां व्रती सर्व-व्रतेषु च

1.9.27

विष्णु-मन्त्रं यो लभेत् वैष्णवाच् च द्विजोत्तमात् ।
कोटि-जन्मार्जितात् पापान् मुच्यते नात्र संशयः

1.9.28

कृष्ण-मन्त्रोपासकानां सद्यो दर्शन-मात्रतः ।
शत-जन्मार्जितात् पापान् मुच्यते नात्र संशयः

1.9.29

वैष्णवाद् दर्शनेनैव स्पर्शनेन च पार्वति ।
सद्यः पूतं जलं वह्निर् जगत् पूतः समीरणः

1.9.30

दर्शनं वैष्णवानां च देवा वाञ्छन्ति नित्यशः ।
न वैष्णवात् परः पूतो विश्वेषु निखिलेषु च

1.9.31

इत्य् उक्त्वा सङ्करः शीघ्रं नारदेन सहात्मजः ।
ययौ मन्दाकिनी-तीरं नीरं क्षीरोपमं परम्

1.9.32

तत्र स्नातो महा-देवी नारदश् च महा-मुनिः ।
समाचान्तः शुचिस् तत्र धृत्वा धौते च वासवी

1.9.33

कृष्ण-मन्त्रं ददौ तस्मै नारदाय महेश्वरः ।
परं कप्ल-तरु-वरं सर्व-सिद्धि-प्रदं शुक

1.9.34

लक्ष्मीर् माया-काम-बीजं ङेन्तं कृष्ण-पदं ततः ।
जगत्-पूत-प्रियान्तं च मन्त्र-राजं प्रकीर्तितम्

1.9.35

मन्त्रं गृहीत्वा स मुनिः शिवं कृत्वा प्रदक्षिणम् ।
सप्त वारान् नमस् कृत्य स्वात्मानं दक्षिणां ददौ

1.9.36

तत्-पाद-पद्मे विक्रीतमाजन्म मस्तकं परम् ।
मुनिना भक्ति-युक्तेन स्वर्ग-मन्दाकिनी-तटे

1.9.37

एतस्मिन्न् अन्तरे वत्स पुष्प-वृष्टिर् बभूव ह ।
नारदोपरि तत्रैव सुश्राव दुन्दुभिर् मुनिः

1.9.38

ननर्त ब्रह्मणः पुत्रो ब्रह्म-लोके निरामये ।
ब्रह्मा जगाम तत्रैव सुप्रसन्नश् च सस्मितः

1.9.39

पुत्रं शुभाशिषं कृत्वा तुष्टाव चन्द्र-शेखरम् ।
शम्भुश् च पूजयाम् आस ब्राह्मणम् अतिथिं तथा ।
शम्भुं शुभाशिषं कृत्वा ब्रह्म-लोकं ययौ विधिः

मूल पाठ: Jñānāmṛtasārasaṃhitā (also called “Nāradapañcarātra”) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc