भाषा

ENहिગુ
ग्रंथ पाठ

ज्ञानामृतसारसंहिता · अध्याय 1.8

1.8.1

इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे प्रथमैक-रात्रे
गणपति-स्तोत्रं नाम सप्तमो ऽध्यायः
प्रथमैक-रात्रे अष्टमो ऽध्यायः
श्री-व्यास उवाच
अथ चाभ्यन्तरं गत्वा नारदो हृष्ट-मानसः ।
ददर्श स्वाश्रमं रम्यम् अतीव सुमनोहरम्

1.8.2

पयः फेन-निभ-शय्या-सहितं रत्न-मन्दिरम् ।
साक्षाद् गोरोचनाभैश् च मणि-स्तम्भैर् विभूषितम्

1.8.3

मणीन्द्र-सारसोपानैः कपाटैश् च परिष्कृतम् ।
मुक्तामाणिक्य-हीराणां माला-राजि-विराजितम्

1.8.4

शुद्ध-स्फटिक-संकाशं प्राङ्गणं मणि-संस्कृतम् ।
सुन्दरं मन्दिर-चयं सद्-रत्न-कलशोज्ज्वलम्

1.8.5

रत्न-पत्र-पटाकीर्णं वह्नि-शुद्धांशुकान्वितम् ।
सुधानां च मधूनाम् च पूर्ण-कुम्भकं शतं शतम्

1.8.6

दास-दासी-समूहैश् च रत्नालङ्कार-भूषितैः ।
पार्वती-प्रिय-सङ्गैश् च स्व-कर्माकुल-सङ्कल्पम्

1.8.7

तद् दृष्ट्वा च मुनि-श्रेष्ठस् तत् पराभ्यन्तरं ययौ ।
रत्न-सिंहासन-स्थं च शङ्करं च ददर्श सः

1.8.8

व्याघ्र-चर्माम्बर-धरं सस्मितं चन्द्र-शेखरम् ।
प्रसन्न-वदनं स्वच्छं शान्तं श्रीमन्तम् ईश्वरम्

1.8.9

विभूति-भूषिताङ्गं च परं गङ्गा-जटा-धरम् ।
भक्त-प्रियं च भक्तेशं ज्वलन्तं ब्रह्म-तेजसा

1.8.10

त्रि-नेत्रं पञ्च-वक्त्रं च कोटि-चन्द्र-सम-प्रभम् ।
जपन्तं परमात्मानं ब्रह्म ज्योतिः सनातनम्

1.8.11

निर्लिप्तं च निरीहं च दातारं सर्व-सम्पदाम् ।
स्वेच्छा-मयं सर्व-बीजं श्री-कृष्णं प्रकृतेः परं

1.8.12

सिद्धेन्द्रैश् च मुनीन्द्रैश् च देवेन्द्रैः परिसेवितम् ।
पार्श्वद-प्रवर-श्रेष्ठ-सेवितं श्वेत-चामरैः

1.8.13

दुर्गा-सेवित-पादाब्जं भद्र-काली-परिष्टुतम् ।
पुरतो हि वसन्तं तं स्कन्दं गण-पतीम् तथा

1.8.14

गले बद्ध्वा च वसनं भक्ति-नम्रात्मकंधरः ।
योगीन्द्रं स्व-गुरुं शंभुं शिरसा प्रणनाम सः

1.8.15

तुष्टाव परया भक्त्या देवर्षिर् जगतां पतिम् ।
स्व-गुरुं च पशु-पतिं वेदोक्तेन स्तवेन च

1.8.16

श्री-नारद उवाच
नमस् तुभ्यं जगन्-नाथ मम नाथ मम प्रभो ।
भव-रूप-तरोर् बीज फल-रूप फल-प्रद

1.8.17

अबीजज प्रज प्राज सर्व-बीज नमो ऽस्तु ते ।
सद्-भाव परमाभाव विभाव भावनाश्रय

1.8.18

भवेश भव-बन्धेश भावाब्धिनाविनायक ।
सर्वाधार निराधार साधार धरणी-धर

1.8.19

वेद-विद्याधाराधार गङाधर नमो ऽस्तु ते ।
जयेश विजयाधार जय-बीज जयात्मक

1.8.20

जगद्-आदे जयानन्द सर्वानन्द नमो ऽस्तु ते।
इत्य् एवम् उक्त्वा देवर्षिः शम्भोश् च पुरतः स्थितः ।
प्रसन्न-वदनः श्रीमान् भगवांस् तम् उवाच सः

1.8.21

श्री-महा-देव उवाच
वरं वृणु महा-भाग यत् ते मनसि वर्तते ।
दास्यामि त्वां ध्रुवं पुत्र दाताहं सर्व-संपदाम्

1.8.22

सुखं मुक्तिं हरेर् भक्तिं निश्चलाम् अविनाशिनीम् ।
हरेः पादं तद्-दास्यं सालोक्यादि-चतुष्टयम्

1.8.23

इन्द्रत्वम् अमरत्वं वा यमत्वम् अनिलेश्वरम् ।
प्रजा-पतित्वं ब्रह्मत्वं सिद्धत्वं सिद्ध-साधनम्

1.8.24

सिद्धैश्वर्यं सिद्धि-बीजं वेद-विद्याधिपं परम् ।
अणिमादिक-सिद्धिं च मनो-यायित्वम् ईप्सितम्

1.8.25

हरेः पदं च गमनं स-शरीरेण लीलया ।
एतेषु वाञ्छितार्थेषु किं वा ते वाञ्छितं सुत

1.8.26

तन् मे ब्रूहि मुनि-श्रेष्ठ सर्वं दातुम् अहं क्षमः ।
शङ्करस्य वचः श्रुत्वा तम् उवाच महा-मुनिः

1.8.27

श्री-नारद उवाच
देहि मे हरि-भक्तिं च तन्-नाम-सेवने रुचिः ।
अति-तृष्णा गुणाख्याने नित्यम् अस्तु ममेश्वर

1.8.28

नारदस्य वचः श्रुत्वा जहास शङ्करः स्वयम् ।
पार्वती भद्र-काली च कार्त्तिकेयो गणेश्वरः

1.8.29

सर्वं ददौ महा-देवो नारदाय च धीमते ।
सर्व-प्रदस् तु सर्वेशः सर्व-कारण-कारणः

1.8.30

नारदेन कृतं स्तोत्रं नित्यं यः प्रपठेत् शुचिः ।
हरि-भक्तिर् भवेत् तस्य तन्-नाम्नि गुणतो रुचिः

1.8.31

दश-वार-जपेनैव स्तोत्र-सिद्धिर् भवेन् नृणाम् ।
सर्व-सिद्धिर् भवेत् तस्य सिद्ध-स्तोत्रो भवेद् यदि

1.8.32

इह प्राप्नोति लक्ष्मीं च निश्चलां लक्ष-पौरुषीम् ।
परि-पूर्णम् अहैश्वर्यम् अन्ते याति हरेः पदम्

1.8.33

पुत्रं विशिष्टं लभते हरि-भक्तं जितेन्द्रियम् ।
सुसाध्यां सुविनीतां सुव्रतां च पति-व्रताम्

1.8.34

प्रजां भूमिं यशः कीर्तिं विद्यां स-कवितां लभेत् ।
प्रसूयते महा-बन्ध्या वर्षम् एकं शृणोति चेत्

1.8.35

गलत्-कुष्ठी महा-रोगी सद्यो रोगात् प्रमुच्यते ।
धनी महा-दरिद्रश् च कृपणः सत्यवान् भवेत् ।
विप्रद्-ग्रस्तो राज-बद्धो मुच्यते नात्र संशयः

मूल पाठ: Jñānāmṛtasārasaṃhitā (also called “Nāradapañcarātra”) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc