भाषा

ENहिગુ
ग्रंथ पाठ

ज्ञानामृतसारसंहिता · अध्याय 1.10

1.10.1

इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे प्रथमैक-रात्रे
नारदोपदेश-ग्रहणं नाम नवमो ऽध्यायः
प्रथमैक-रात्रे दशमो ऽध्यायः
श्री-शुक उवाच
नारदो हि महा-ज्ञानी देवर्षिर् ब्रह्मणः सुतः ।
सर्व-वेद-विदां श्रेष्ठो गरिष्ठश् च वरिष्ठकः

1.10.2

कथं स नोपदिष्टश् च ज्ञान-हीनो महा-मुनिः ।
तन् मां बोधय विभो सन्देह-भञ्जनं कुरु

1.10.3

श्री-व्यास उवाच
नारदो ब्रह्मणः पुत्रः पुरा-कल्पे बभूव सः ।
सर्व-ज्ञानं ददौ तस्मै विधाता जगताम् अपि

1.10.4

वेदांश् च पाठयाम् आस वेदाङ्गान्य् अपि सुव्रत ।
सिद्ध-विद्यां शिल्प-विद्यां योग-शास्त्रं पुराणकम्

1.10.5

भगवान् एकदा पुत्रं कथयाम् आस संसदि ।
सृष्टिं कुरु महा-भाग कृत्वा दार-परिग्रहम्

1.10.6

ब्रह्मणश् च वचः श्रुत्वा कोप-रक्तास्य-लोचनः ।
उवाच पितरं कोपात् परं कृष्ण-परायनः

1.10.7

श्री-नारद उवाच
सर्वेषाम् अपि वन्द्यानां पिता चैव महा-गुरुः ।
ज्ञान-दातुः परो वन्द्यो न भूतो न भविष्यति

1.10.8

स्तन-दात्री गर्भ-धात्री स्नेह-कर्त्री सदाम्बिका ।
जन्म-दातान्न-दाता स्यात् स्नेह-कर्ता पिता सदा

1.10.9

न क्षमौ तौ च पितरौ पुत्रस्य कर्म खण्डितुम् ।
करोति सद्-गुरुः शिष्य-कर्म-मूल-निकृन्तनम्

1.10.10

गुरुश् च ज्ञानोद्गिरणात् ज्ञानं स्यान् मन्त्र-तन्त्रयोः ।
तत् तन्त्रं स च मन्त्रश् च कृष्ण-भक्तिर् यतो भवेत्

1.10.11

श्री-कृष्ण-विमुखो भूत्वा विषये यस्य मानसम् ।
विषम् अत्यमृतं त्यक्त्वा स च मूढो नराधमः

1.10.12

स गुरुः स पिता वन्द्यः सा माता स पतिः सुतः ।
यो ददाति हरौ भक्तिं कर्म-मूल-निकृन्तनी

1.10.13

श्री-कृष्ण-भजनं तात सर्व-मङ्गल-मङ्गलम् ।
कर्मोपभोग-रोगआणाम् औषधं तन्-निकृन्तनम्

1.10.14

अहो जगद्-विधातुश् च धर्म-शास्तुर् इयं मतिः ।
स्वयं माया-मोहितश् च परं भ्रष्टं करोति च

1.10.15

विष्णुस् त्वां मोहिताम् कृत्वा युयोज स्रष्टुम् ईश्वरः ।
न ददौ स्वात्म-भक्तिं तां स्व-दास्यं चाति-दुर्लभम्

1.10.16

माता ददाति पुत्राय मोदकं क्षुन्-निवारकम् ।
स च बालो न जानाति कथंभूतं च मोदकम्

1.10.17

बालकं वञ्चनं कृत्वा मिष्टं द्रव्यं प्रदाय सः ।
पिता प्रयाति कार्यार्थं विष्णुना मोहितस् तथा

1.10.18

संसार-कूप-पतितो विष्णुना प्रेरितो भवान् ।
न युक्तं पतनं तत्र तद् उद्धारम् अभीप्सितम्

1.10.19

ज्ञानी गुरुश् च बलवान् भवाब्धेः शिष्यम् उद्धरेत् ।
गुरुः स्वयम् असिद्धश् च दुर्बलः कथम् उद्धरेत्

1.10.20

गुरोर् अत्य्-अवलिप्तस्य कार्याकार्यम् अजानतः ।
उत्पथ-प्रतिपन्नस्य परित्यागो विधीयते

1.10.21

स गुरुः परमो वैरी यो ददाति ह्य् असन्-मतिम् ।
तं नमस्-कृत्य सत्-शिष्यः प्रयाति ज्ञानदं गुरुम्

1.10.22

संसार-विषयोन्मत्तो गुरु-रार्तः स्व-कर्मणि ।
दुर्बलो दुर्वहं भारं ददाति जनकाय च

1.10.23

नारदस्य वचः श्रुत्वा क्रुद्धः पुत्रम् उवाच सः ।
कम्पितस् तमसा धाता कोप-रक्तास्य-लोचनः

1.10.24

ब्रह्मोवाच
ज्ञानं ते भवतु भ्रष्टं स्त्री-जितो भव पामर ।
सर्व-जातिषु गन्धर्वः कामी सो ऽपि भवान् भव

1.10.25

पञ्चाशत्-कामिनीनां च स्वयं भर्ता भवाचिरात् ।
तासां वशश् च सततं स्त्रीणां क्रीडा मृगो यथा

1.10.26

शृङ्गार-शूरो भव रे शश्वत्-सुस्थिर-यौवनः ।
तासां नित्यं यौवनानां सुन्दरीणां प्रियो भव

1.10.27

काम-बाध्यो भव चिरं दिव्य-वर्ष-सहस्रकम् ।
निर्जने निर्जने रम्ये वने क्रीडां करिष्यसि

1.10.28

ततो वर्ष-सहस्रान्ते मया शप्तः स्व-कर्मणा ।
विप्र-दास्यां तु शूद्रायां जनिष्यसि न संशयः

1.10.29

ततो वैष्णव-संसर्गात् विष्णोर् उच्छिष्ट-भोजनात् ।
विष्णु-मन्त्र-प्रसादेन विष्णु-माया-विमोहितः

1.10.30

तातस्य वचनं श्रुत्वा चुकोप नारदो मुनिः ।
शशाप पितरं शिघ्रं दारुणं च यथोचितम्

1.10.31

अपूज्यो भव दुष्टं त्वं त्वन्-मन्त्रोपासकः कुतः ।
अगम्यागमनेच्छा ते भविष्यति न संशयः

1.10.32

नारदस्य तु शापेन सो ऽपूज्यो जगतां विधिः ।
दृष्ट्वा स्व-कन्या-रूपं च पश्चाद् धावितवान् पुरा

1.10.33

पुनः स्व-देहं तत्याज भर्त्सितः सनकादिभिः ।
लज्जितः काम-युक्तश् च पुनर् ब्रह्मा बभूव सः

1.10.34

नारदस् तु नमस्-कृत्य पितरं कमलोद्भवम् ।
विप्र-देहं परित्यज्य गन्धर्वश् च बभूव सः

1.10.35

नव-यौवन-कालेन बलवान् मदनोद्धतः ।
जहार कन्याः पञ्चाशत् बलाच् चित्र-रथस्य तु

1.10.36

गान्धर्वेन विवाहेन ता उवाह च निर्जने ।
मूर्च्छां प्रापुश् च ताः कन्या दृष्ट्वा सुन्दरम् ईश्वरम्

1.10.37

विसस्पुरुश् च पितरं मातरं भ्रातरं तथा ।
रेमिरे तेन सार्धं च कामुक्यः कामुकेन च

1.10.38

कन्दरेर् कन्दरे रम्ये रम्ये सुन्दर-मन्दिरे ।
शैले शैले सुरहसि कानने कानने तथा

1.10.39

पुष्पोद्यने तरु-द्याने नद्यां नद्यां नदे नदे ।
सरःश्रेष्ठे सरःश्रेष्ठे वरे चन्द्र-सरोवरे

1.10.40

सुरेशस्यापि निकटे सुभद्रस्य तटे तटे ।
अगम्ये च महा-घोरे गन्ध-मादन-गह्वरे

1.10.41

परिजात-तरुणां च पुष्पितानां मनोहरे ।
तद्-अन्तरे सुन्दरे चामोदिते पुष्प-वायुना

1.10.42

मलये निलये रम्ये सुगन्धे चन्दनान्विते ।
चन्दनोक्षित-सर्वाङ्गश् चन्दनाक्तेन कामिना

1.10.43

रम्य-चम्पक-शय्यासु चन्दनाक्तासु सस्मिताः ।
दिवानिशं न जानन्ति कामिना सस्मितेन च

1.10.44

विस्यन्दके शूरसेने नन्दने पुष्प-भद्रके ।
स्वाहा-वने काम्यके च रम्यके पारिभद्रके

1.10.45

सुरन्धके गन्धके च सुरङ्ह्रे पुण्ड्रके ऽपि च ।
कालञ्जरे पञ्जरे च काञ्ची-काञ्चन-कानने

1.10.46

मधु-माधव-मासे च मधूरे मधु-कानने ।
वने कल्प-तरूणां च विश्व-कारु-कृत-स्थले

1.10.47

रत्नाकराणां निकरे सुन्दरे सुन्दरान्तरे ।
सुवेले च सुपार्श्वे च प्रवालांकुर-कानने

1.10.48

मन्दारे मन्दिरे पूरे गान्धारे च युगन्धरे ।
वने केलि-कदम्बानां केतकीनां मनोहरे

1.10.49

माधवी-मालतीनां च यूथिकानां वने वने ।
चम्पकानां पलाशानां कुन्दानां विपिने तथा

1.10.50

नागेश्वर-लवङ्गानां अन्तरे ललितालये ।
कुमुदानां पङ्कजानां पङ्किले कोमल-स्थले

1.10.51

स्थल-पद्म-प्रकारो च भूमि-चम्पक-कानने ।
लाङ्गलीनां रसालानां पनसानां सुख-प्रदे

1.10.52

कदली-बदरीणां च श्री-फलानां च श्री-युते ।
जम्बीराणां च जम्बूनां करञ्जानां तथैव च

1.10.53

कृत्वा बिहारं ताभिश् च गन्धर्वश् चोपवर्हणः ।
दिव्यं वर्ष-सहस्रं च स्वाश्रमं पुनर् आययौ

1.10.54

श्रुत्वा विधातुर् आह्वानं पुष्करं च ययौ पुनः ।
ददर्श तत्र ब्रह्माणम् रत्न-सिंहासन-स्थितम्

1.10.55

देवेन्द्रैश् चापि सिद्धेन्द्रैर् मुनीन्द्रैः सन्कादिभिः ।
समावृतं सभायां च रक्षो-गन्धर्व-किन्नरैः

1.10.56

सुशोभितं यथा चन्द्रं गगने भगणैः सह ।
प्रणनाम सभा-मध्ये ताभिः सार्धं जगद्-विधिम्

1.10.57

महेशं च गणेशं च धनेशं शेषम् ईश्वरम् ।
धर्मं धन्वन्तरिं स्कन्दं सूर्य-सोम-हुताशनम्

1.10.58

उपेन्द्रेन्द्रं विश्व-कारुं वरुणं पवनं स्मरम् ।
यमम् अष्टौ वसून् रुद्रान् जयन्तं नलकूवरम्

1.10.59

सर्वान् देवान् नमस्-कृत्य ननाम मुनि-पुङ्गवम् ।
अगस्त्यं च पुलस्त्यं च पुलहं च प्रचेतसम्

1.10.60

सर्व-श्रेष्ठं वसिष्ठं च दक्षं च कर्दमं तथा ।
सनकं सनन्दं च तृतीयं च सनातनम्

1.10.61

सनत्-कुमारं योगीशं ज्ञानिनां च गुरोर् गुरुम् ।
वोढुं पञ्च-शिखं सङ्खं भृगुम् अङ्गिरसं तथा

1.10.62

आसुरिं कपिलं कौत्सं क्रतुं नारायणं नरम् ।
मरीचिं कश्यपं कण्वं व्यासं दुर्वाससं कविम्

1.10.63

बृहस्पतिं च च्यवनं मार्कण्डेयं च लोमशम् ।
वाल्मीकिं परशु-रामं संवर्तं च विभाण्डकम्

1.10.64

देवलं च वाम-देवम् ऋशयशृङ्गं पराशारम् ।
एतान् सर्वान् नमस्-कृत्य तस्थौ स पुरतो विधेः

1.10.65

तुष्टाव सर्वान् देवांश् च मुनीन्द्रांश् च तथैव च ।
तम् उवाच सभा-मध्ये विधाता जगताम् अपि ।
सस्मितः सुप्रसन्नश् च गन्धर्वम् उपवर्हणम्

1.10.66

ब्रह्मोवाच
श्री-कृष्ण-रस-सङ्गीतं वीणा-ध्वनि-समन्वितम् ।
कुरु वत्साधुनात्रैव शृण्वन्तु मुनयः सुराः

1.10.67

गोपीनां वस्त्र-हरणं हरं रास-महोत्सवम् ।
ताभिः सार्धं जल-क्रीडां हरेर् उत्कीर्तनं कुरु

1.10.68

कृष्ण-सङ्कीर्तनं तूर्णं पुनाति श्रुति-मात्रतः ।
श्रोतारं च प्रवक्तारं पुरुषैः सप्तभिः सह

1.10.69

यत्रैव प्रभवेद् वत्स तन्-नाम-गुणानुकीर्तनम् ।
तत्र सर्वाणि तीर्थानि पुण्यानि मङ्गलानि च

1.10.70

तत्-कीर्तन-ध्वनिं श्रुत्वा सर्वाणि पातकानि च ।
दूराद् एव पलायन्ते वैनतेयम् इवोरगाः

1.10.71

तद् दिनं सफलं धन्यं यशस्यं सर्व-मङ्गलम् ।
श्री-कृष्ण-कीर्तनं यत्र तत्रैव नायुषो व्ययः

1.10.72

संकीर्तन-ध्वनिं श्रुत्वा ये च नृत्यन्ति वैष्णवाः ।
तेषां पाद-रजः-स्पर्शात् सद्यः पूता वसुन्धरा

1.10.73

तत्-कीर्तनं भवेद् यत्र कृष्णस्य परमात्मनः ।
स्थानं तच् च भवेत् तीर्थं मृतानां तत्र मुक्तिदम्

1.10.74

नात्र पापानि तिष्ठन्ति पुण्यानि सुस्थिराणि च ।
तपस्विनां च व्रतिनां व्रतानां तपसां स्थलम्

1.10.75

वर्तते पापिनां देहे पापानि त्रि-विधानि च ।
महा-पापोपपापातिपापान्य् एव स्मृतानि च

1.10.76

हन्ता यो विप्र-भिक्षूणां यतीनां ब्रह्म-चारिणां ।
स्त्रीणां च वैष्णवानां च स महा-पातकी स्मृतः

1.10.77

भ्रूणा-घ्नश् चापि गो-घ्नश् च शूद्र-घ्नश् च कृत-घ्नकः ।
विश्वास-घाती विड्-भोजी स एव ह्य् उपपातकी

1.10.78

अगम्यागमिनो ये च सुर-विप्र-स्वहारिणः ।
अतिपातकिनश् चैते वेद-विद्भिः प्रकीर्तिताः

1.10.79

कृष्ण-संकीर्त्न-ध्यानात् तन्-मन्त्र-ग्रहणाद् अहो ।
मुच्यन्ते पातकैस् तैस् तैः पापिनस् त्रि-विधाः स्मृताः

1.10.80

तपो-यज्ञ-कृती पूतस् तीर्थ-स्नात-व्रती तथा ।
भिक्षुर् यतिर् ब्रह्म-चारी वान-प्रस्थश् च तापसः

1.10.81

पवित्रः परमो वह्निः सुपवित्रं जलं यथा ।
एते सर्वे वैष्णवानां कलां नार्हन्ति षोडशीम्

1.10.82

विष्णु-पादोदकोच्छिष्टं भुञ्जते ये च नित्यशः ।
पश्यन्ति च शिला-चक्रं पूजां कुर्वन्ति नित्यशः

1.10.83

जीवन्-मुक्तास् च ते धन्या हरि-दासाश् च भारते ।
पदे पदे ऽश्वमेधस्य प्राप्नुवन्ति फलं ध्रुवम्

1.10.84

नहि तेषां पराभूताः पुण्यवन्तो जगत्-त्रये ।
तेषां च पाद-रजसा तीर्थं पूतं तथा धरा

1.10.85

॥
तेषां च दर्शनं स्पर्शं वाञ्छन्ति मुनयः सुराः ।
पुरुषाणां सहस्रं च पूतं तज्-जन्म-मात्रतः

1.10.86

इत्य् उक्त्वा जगतां धाता तत्र तूष्णीं बभूव सः ।
आश्चर्यं मेनिरे श्रुत्वा देवाश् च मुनयस् तथा

1.10.87

एतस्मिन्न् अन्तरे तत्र विद्या-धर्यः समागताः ।
गन्धर्वाश् चापि विविधा ननृतुः किन्नरा जगुः

1.10.88

रम्भोर् वशी घृताची च मेनका च तिलोत्तमा ।
सुधामुखी पूर्ण-चित्ती मोहिनी कलिका तथा

1.10.89

चम्पावती चन्द्र-मुखी पद्मा पद्म-मुखीति च ।
एताश् चान्याश् च बह्व्यश् च श्वश्वत् सुस्थिर-यौवनाः

1.10.90

बृहन्-नितम्ब-श्रोणीकास्तनभारैः समानताः ।
ईषद्धास्याः प्रसन्नास्याः कामार्ताश् च समाययुः

1.10.91

वेद-ज्ञा मूर्तिमन्तश् च वेदाश् चात्वार एव च ।
ब्राह्मणा भिक्षवः सिद्धा यतयो ब्रह्म-चारिणः

1.10.92

समाययुस् तथा मन्दा दैव-ज्ञाः स्तुति-पाठकाः ।
लक्ष्मी सरस्वती दुर्गा सावित्री रोहिणी रतिः

1.10.93

तुलसी पृथिवी गङ्गा स्वाहा च यमुना तथा ।
वारुणी मनसेन्द्राणी ताः सर्वा देव-योषितः

1.10.94

मुनि-पत्न्यश् च गन्धर्व्यो हर्ष-युक्ताः समाययुः ।
अहो महोत्सवं परमानन्द-मानसाः ।
विचित्रां च ब्रह्म-सभां पुष्करं तीर्थम् आययुः

मूल पाठ: Jñānāmṛtasārasaṃhitā (also called “Nāradapañcarātra”) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc