भाषा

ENहिગુ
ग्रंथ पाठ

ज्ञानामृतसारसंहिता · अध्याय 1.7

1.7.1

इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे प्रथ्मैक-रात्रे
लोमश-नारद-संवादे षष्ठो ऽध्यायः
प्रथमैक-रात्रे सप्तमो ऽध्यायः
संभाष्य लोमशं तस्माज् जगाम नारदो मुनिः ।
पुष्प-भद्रा-नदी-तीरम् अतीव सुमनोहरम्

1.7.2

यत्रास्ते शृङ्ग-कूटश् च शुद्ध-स्फटिक-सन्निभिः ।
नाना-वृक्ष-समायुक्तैस् त्रिभिर् अन्यैः सरोवरैः

1.7.3

हंसकारण्डवाकीर्णैर् भ्रमरैर् ध्वनि-सुन्दरैः ।
पुंस्-कोकिल-निनादैश् च सन्ततं सुमनोहरैः

1.7.4

शैत्य-सौगन्ध्य-मान्ध्यैश् च वायुभिः सुरभी-कृतैः ।
समाधि-युक्तो यत्रास्ते मार्कण्डेयो महा-मुनिः

1.7.5

स मुनिर् नारदं दृष्ट्वा भक्त्या च प्रणनाम च ।
पप्रच्छ कुशलं शान्तं शान्तः सत्त्व-गुणाश्रयः

1.7.6

मार्कण्डेयो उवाच
अद्य मे सफलं जन्म जीवनं चातिसार्थकम् ।
ममाश्रमे पुण्य-राशिर् ब्रह्म-पुत्रश् च नारदः

1.7.7

अहो देवर्षि-प्रवरो दीप्तमान् ब्रह्म-तेजसा ।
क्व यासि कुत आयासि किं ते मनसि वर्तते

1.7.8

मानसं प्राणिनाम् एव सर्व-कर्मैक-कारणम् ।
मनोनुरूपं वाक्यं च वाक्येन प्रस्फुटं मनः

1.7.9

मुनेश् च वचनं श्रुत्वा वीणा-पाणि स्वम् ईप्सितम् ।
उवाच सस्मितं शान्तं वचः सत्यं सुधोपमम्

1.7.10

नारद उवाच
हे बन्धो यामि कैलासं ज्ञानार्थं ज्ञानिनां वरम् ।
द्रष्टुं महा-देवं च प्रणामं कर्तुम् ईश्वरम्

1.7.11

पूजां गृहीत्वा चेत्य् उक्त्वा प्रययौ नारदो मुनिः ।
मार्कण्डेयश् च शोकार्तः सद्विच्छेदः सुदारुणः

1.7.12

हिमालयं च दुर्लघ्यं विलघ्यं चैव लीलया ।
स्वर्ग-मन्दाकिनी-तीरं कैलासं प्रययौ मुनिः

1.7.13

ददर्श वट-वृक्षं च योजनायतम् उच्छ्रितम् ।
शोभितं शतकैः स्कन्धैः रक्त-पक्व-फलान्वितैः

1.7.14

सुस्निग्धैः सुन्दरैः रम्यै रम्य-पक्षीन्द्र-संकुलैः ।
सिद्धेन्द्रैश् च मुनीन्द्रैश् योगीन्द्रैः परिशोभितम्

1.7.15

प्रणतांस् तांश् च संभाष्य पार्वती-काननं ययौ ।
सुन्दरं वर्तुलाकारं चतुर्-योजनम् ईप्सितम्

1.7.16

शोभितं सुन्दरै रम्यैः सप्तभिश् च सरोवरैः ।
शश्वन्-मधुकरासक्त-पद्म-राजि-विराजितैः

1.7.17

नील-रक्तोत्पल-दल-पटलैः परिशोभितैः ।
पुष्पोद्यानैश् च शतकैः पुष्पितैः सुमनोहरैः

1.7.18

मल्लिका-मालती-कुन्द-यूथिका-माधवी-लता ।
केतकी-चम्पकाशोक-मन्दारक-विराजिका

1.7.19

नाग-पुन्नाग-कुटजपाटलाज्ञिण्ट्ज्ञिज्ज्ञिका ।
विष्णु-क्रान्ता च तुलसी शोफली सप्तला तथा

1.7.20

एतेषां च समूहैश् च पुष्प-वल्ली-विराजितैः ।
आम्रैर् आम्रातकैस् तालनारिकेलैः पियालकैः

1.7.21

खर्जूरैश् च गुवाकैश् च पलासैर् जम्बुभिस् तथा ।
दाडिम्बैश् चापि जम्बीरैर् निम्बैश् चैव वटैस् तथा

1.7.22

करञ्जैर् वदरीभिश् च परितः श्री-फलोज्ज्वलैः ।
कदम्बानां कदम्बैश् च तिन्तिण्डीनां कदम्बकैः

1.7.23

अश्वत्थैः सरलैः शालैः शाल्मलीनां समूहकैः ।
वट-शाखोटकैः कुन्दैः शंगुभिः सप्त-पर्णकैः

1.7.24

पिच्छिलैः पर्ण-शालैश् च गम्भारिभिश् च वल्गुकैः ।
हिङ्गुलैर् अञ्जनैर् वल्कैर् भूर्ज-पत्रैः सपत्रकैः

1.7.25

अन्यैश् च दुर्लभैर् वन्यैः पुष्प-पत्रैर् विराजितम् ।
कल्प-वृक्षैः पारिजातैश् चारु-चन्दन-पल्लवैः

1.7.26

सुस्निग्ध-स्थल-पद्मैश् च चित्रितैर् भूमि-चम्पकैः ।
अन्यैश् च दुर्लभैर् वन्यैः पुष्प-पत्रैर् विभूषितम्

1.7.27

सिंहेन्द्रैः शरभेन्द्रैश् च गजेन्द्रैर् गण्डकेन्द्रैः ।
शार्दूलेन्द्रैश् च महिषैर् अश्वैश् च वन्य-शूकरैः

1.7.

शल्लकैर् बल्लकैर् मर्कैः कूटैश् च शशकैः शकैः ।
कृष्ण-सारैश् च हरिणैश् चमरी-चामरोज्ज्वलम्

1.7.29

28 ॥
पुंस्-कोकोल-कुलानां च गानैश् च विराजितम् ।
मत्तानां पल्लव-स्थानां माधवेषु मनोहरम्

1.7.30

शुकानां राज-हंसानां मयूराणां च पुत्रकैः ।
क्षेम-करी-खञ्जनानां राजिभिश् च मनोहरम्

1.7.31

हरित्-पीत-रक्त-कृष्ण-सुपक्व-फल-पत्रकैः ।
सुस्निग्धाक्षत-पत्रैश् च नूतनैर् अभिभूषितम्

1.7.32

हिंसा-भयादि-रहितं सर्वेषां पशु-पक्षिणां ।
परस्परं च सुप्रीतं हिंस्राणां क्षुद्र-जन्तुभिः

1.7.33

तत्र क्रीडा-स्थलं रम्यं पार्वती-परमेशयोः ।
मुनीन्द्रैर् इन्द्र-नीलैश् च पद्म-रागैः परिष्कृतम्

1.7.34

क्रोशायतं परिमितं वर्तुलं चन्द्र-विम्बवत् ।
अम्लान-रम्भा-स्तम्भानां लक्ष-लक्षैश् च वेष्टितम्

1.7.35

चित्रितं सूक्ष्म-सूत्राक्तैर् नूतनैर् अभिभूषितम् ।
नूतनाक्षत-पत्रैश् च ललितैः परिशोभितम्

1.7.36

रक्त-पीतासितैः स्निग्धैर् अम्लानैः सुमनोहरैः ।
परितः परितः शश्वन् मालाजालैर् विभूषितम्

1.7.37

शय्या-भूतं सुतल्पैश् च स्निग्ध-चम्पक-चन्दनैः ।
पुष्प-चन्दन-युक्तेन वायुना सुरभी-कृतम्

1.7.38

कस्तूरी-कुङ्कमासक्त-सुगन्धि-चन्दनैः सितैः ।
मार्जितं चित्रितं चित्रैः परितो रङ्ग-वस्तुभिः

1.7.39

दृष्ट्वा तद् अद्भुतं शीघ्रं प्रययौ स्वर्-णदीं मुनिः ।
शुद्ध-स्फटिक-संकासां सर्व-पाप-विनाशिनीम्

1.7.40

भवाब्धिघोर-तरणे तरणीं नित्यनूतनाम् ।
कृष्ण-पाद-प्रसूतां च जगत्-पूज्यां पति-व्रतां

1.7.41

स्नाट्वा कृष्णं च संपूज्य परमात्मानम् ईश्वरम् ।
प्रकृतेः परिमिष्टं च निर्लिप्तं निर्गुणं परम्

1.7.42

साक्षिणं कर्मणाम् एव ब्रह्म ज्योतिः सनातनम् ।
प्रययौ पुरतो रम्यं राज-मार्गं ददर्श सः

1.7.43

मणिभिः स्फटिकाकारैर् अमलैर् बहु-मूल्यकैः ।
परिष्कृतं च सर्वत्र निर्मितं विश्व-कर्मणा

1.7.44

सतां पुण्यवतां दृष्टम् अदृष्टं कृत-पापिनाम् ।
धनुः शतं परिमितं चित्र-राजि-विराजितम्

1.7.45

दध्यं सर्वाश्रमान्तं च प्रख्यात् कोटि-गुणोत्तरम् ।
रथं ददर्श पुरतो मनोयायि मनोहरम्

1.7.46

अमूल्य-रत्न-निर्माण-विमाण-सार-सुन्दरम् ।
धनुर् लक्षं परिमितं परितो वर्तुलाकृतम्

1.7.47

ऊर्ध्व-स्थितम् ऊर्ध्व-गं च सहस्र-चक्र-संयुतम् ।
धनुर् लक्षो ऽपि सूतं च वह्नि-शुद्धांशुकान्वितम्

1.7.48

हीरासार-विनिर्माणं सुचारु-कलशोज्ज्वलम् ।
रत्न-प्रदीप-दीप्ताढ्यं रत्न-दर्पण-भूषितम्

1.7.49

मुक्ताशुक्ति-निबद्धैश् च शोभितं श्वेत-चामरैः ।
माणिक्य-सार-हारेण मणि-राजैर् विराजितम्

1.7.50

पारिजाट-प्रसूतानां मायाजालैः परिष्कृतम् ।
ग्रीष्म-मध्याह्न-मार्तण्डं सहस्र-सदृशोज्ज्वलम्

1.7.51

ईश्वरेच्छा-विनिर्माणं काम-पुरं च कामिनाम् ।
सर्व-भोग-समाविष्टं कल्प-वृक्ष-परं वरम्

1.7.52

ससक्त-चित्रितै रम्यै रति-मन्दिर-सुन्दरैः ।
गोलोकाद् आगतं पूर्वं क्रीडार्थं शङ्करस्य च

1.7.53

विवाहे परिनिष्पन्ने पार्वती-परमेशयोः ।
रथं दृष्ट्वा च प्रययौ कियद् दूरं महा-मुनिः

1.7.54

अतीव रम्यं रुचिरं ददर्श शङ्कराश्रमम् ।
रत्नेन्द्र-सार-निर्माणं शिविरैः शत-कोटिभिः

1.7.55

मितैस् तस्मात् शत-गुणैस् तत्र सुन्दर-मन्दिरैः ।
युक्तं रत्न-कपाटैश् च रत्न-धातु-विचित्रितैः

1.7.56

परम-स्तम्भ-सोपानैर् वज्र-मिश्रैर् विभूषितम् ।
ददर्श शिविरं शम्भोः परिखाभिस् त्रिभिर् युतम्

1.7.57

दुर्लघ्याभिरा-मित्राणां सुगम्याभिः सताम् अहो ।
प्रकारैश् च त्रिभिर् युक्तं धनुर् लक्षोच्छ्रितं सुत

1.7.58

सम्मितं सप्तभिर् द्वारैर् नाना-रक्षक-रक्षितैः ।
धनुः-शत-सहस्रं च चतुरस्रं च सम्मितम्

1.7.59

अमूल्य-रत्न-निर्माणं चतुः-शाला-शतैर् युतम् ।
अतीव रम्यं पुरतो पुर-द्वारं ददर्श सः

1.7.60

पुरतो रत्न-भित्तौ च कृत्रिमं च सुशोभितम् ।
पुण्यं वृन्दावनं रम्यं तन्-मध्ये रास-मण्डलम्

1.7.61

सर्वत्र राधा-कृष्णं च प्रत्येकं रति-मन्दिरे ।
रम्यं कुञ्ज-कुटीराणां सहस्रं सुमनोहरम्

1.7.62

सुगन्धि पुष्प-शय्यानां सहस्रं चन्दनोक्षितम् ।
द्वार-पालं च तत्रैव मणि-भद्रं भयंकरम्

1.7.63

त्रि-शूल-पट्टिश-धरं व्याघ्र-चर्माम्बरं परम् ।
तं संभाष्य विलोक्यैवं द्वितीय-द्वारम् ईप्सितम्

1.7.64

जगाम च मुनि-श्रेष्ठो ददर्श चित्रम् उत्तमम् ।
कदम्बानां समूहं च तन्-मूलं च मनोहरम्

1.7.65

रत्न-भित्ति-समायुक्तं कालिन्दी-कूलम् उत्तमम् ।
स्नातं गोपी-समूहं च नग्न-सर्वाङ्गम् अद्भुतम्

1.7.66

कदम्बाग्रे च श्री-कृष्णं वस्त्र-पुञ्ज-करं परम् ।
तत्रैव शूल-हस्तं च महा-कालं ददर्श च

1.7.67

कृपालुं द्वार-पालं तं संभाष्य नारदो मुनिः ।
प्रययौ शीघ्र-गामी स तृतीय-द्वारम् उत्तमम्

1.7.68

ददर्श तत्र पुरतः कृत्रिमं वट-मूलकम् ।
गोपानां च समूहं च पीतम्बर-धरं परम्

1.7.69

बाल-क्रीडां च कुर्वन्तं तन्-मध्ये कृष्णम् उत्तमम् ।
ब्राह्मणीभिः प्रदत्तम् च भुक्तवन्तं सुपायसम्

1.7.70

कुर्वन्तं च समाधानं मुनेः वाम-करेण च ।
गृहीत्वा तद्-अनुज्ञां च चतुर्थं द्वारम् ईप्सितम्

1.7.71

प्रययौ ब्रह्म-पुत्रश् च ददर्श चित्रम् उत्तमम् ।
गोवर्धनं पर्वतं च तत्र कृष्ण-कर-स्थितम्

1.7.72

गोकुलं गोकुल-स्थानां गोपीनां चैव रक्षणम् ।
व्याकुलं गोकुलं भीतं शक्र-वृष्टि-भयेन च

1.7.73

अभयं दत्तवन्तं च कृष्णं दक्ष-करेण च ।
नन्दिनं द्वार-पालं च शूल-हस्तं च सस्मितम्

1.7.74

विलोक्य प्रययौ विप्रः पञ्चमं द्वाऋअम् उत्तमम् ।
नाना-कृतिम-चित्राढ्यं वीर-भद्रान्वितं परम्

1.7.75

तत्रैव नीप-मूलं च यमुनाकुलम् एव च ।
कालीय-दमनं तत्र कृतिमं च ददर्श ःअ

1.7.76

तद् दृष्ट्वा सस्मितस् तुष्टः षष्ट-द्वाऋअं जगाम सः ।
द्वारे नियुक्तं बालं च शूल-हस्तं चतुर्-भुजम्

1.7.77

रत्न-सिंहासन-स्थं च सस्मितं स्व-गणाधिपम् ।
ददर्श चित्रं तत्रैव मथुरा-गमनं हरेः

1.7.78

गोपिकानां विलापं च यशोदा-नन्दयोस् तथा ।
व्याकुलं गोकुलं चापि रथ-स्थं शरणं हरिम्

1.7.79

॥
अक्रूरं च तथा नन्दं निरानन्दं शुचाकुलम् ।
तद् दृष्ट्वा सप्तम-द्वारं द्वार-पालं ददर्श सः

1.7.80

चित्रं कौतुक-युक्तं च मथुरायाः प्रवेशनम् ।
सबलं गोप-सहितं श्री-कृष्णं प्रकृतेः परम्

1.7.81

मथुरा-नागरीभिश् च बालकैर् वानिरर्गलैः ।
वीक्षन्तं सादरं सर्वैर् नगर-स्थैर् मनोहरम्

1.7.82

धनुर् भङ्गं तथा शंभोः कंसादि-निधनादिकम् ।
सभार्यं वसुदेवं च निगडान् मुक्तम् ईप्सितम्

1.7.83

द्वारे नियुक्तं देवेशं गणेशं गण-संयुतम् ।
ध्यान-स्थं च विभान्तं च शुद्ध-स्फटिक-मालया

1.7.84

जपन्तं परमं शुद्धं ब्रह्म-ज्योतिः सनातनम् ।
निर्लिप्तं निर्गुणं कृष्णं परमं प्रकृतेः परम्

1.7.85

दृष्ट्वा तं च सुर-श्रेष्ठं मुनि-श्रेष्ठो ऽपि नारदः ।
साम-वेदोक्त-स्तोत्रेण पुष्टाव परमेश्वरम् ।
साश्रु-नेत्रः पुलकितो भक्ति-नम्रात्मकंधरः

1.7.86

अथ गणपति-स्तोत्रम्
भो गणेश सुर-श्रेष्ठ लम्बोदर परात् पर ।
हेरम्ब मङ्गलारम्भ गज-वक्त्र त्रि-लोचन

1.7.87

मुक्तिद शुभद श्रीद श्रीधर-स्मरणे रत ।
परमानन्द परम पार्वती-नन्दन स्वयम्

1.7.88

सर्वत्र पूज्य सर्वेश जगत्-पूज्य महा-मते ।
जगद्-गुरो जगन्-नाथ जगद्-ईश नमो ऽस्तु ते

1.7.89

यत्-पूजा सर्व-परतो यः स्तुतः सर्व-योगिभिः ।
यः पूजितः सुरेन्द्रैश् च मुनीन्द्रैस् तं नमाम्य् अहम्

1.7.90

परमाराधनेनैव कृष्णस्य परमात्मनः ।
पुण्यकेन व्रतेनैव यं प्राप पार्वती सती

1.7.91

तं नमामि सुर-श्रेष्ठं सर्व-श्रेष्ठं गरिष्ठकम् ।
ज्ञानि-श्रेष्ठं वरिष्ठं च तं नमामि गणेश्वरम्

1.7.92

इत्य् एवम् उक्त्वा देवर्षिस् तत्रैवान्तर् दधे विभुः ।
नारदः प्रययौ शीघ्रम् ईश्वराभ्यन्तरं मुदा

1.7.93

इदं लम्बोदर-स्तोत्रं नारदेन कृतं पुरा ।
पूजा-काले पठेन् नित्यं जयस् तस्य पदे पदे

1.7.94

संकल्पितं पठेद् यो हि वर्षम् एकं सुसंयतः ।
विशिष्ट-पुत्रं लभते परं कृष्ण-परायणम्

1.7.95

यशस्विनं च विद्वांसं धनिनं चिर-जीविनम् ।
विघ्न-नाशो भवेत् तस्य महैश्वर्यं यशो ऽमलम् ।
इहैव च सुखं भक्त्यान्ते याति हरेः पदम्

मूल पाठ: Jñānāmṛtasārasaṃhitā (also called “Nāradapañcarātra”) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc