ज्ञानामृतसारसंहिता · अध्याय 1.6
इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे प्रथमैक-रात्रे पञ्चमो ऽध्यायः
प्रथमैक-रात्रे षष्ठो ऽध्यायः
श्री-शुक उवाच
सनत्-कुमारो वैकुण्ठं ब्रह्म-लोकं च ब्रह्मणि ?wहत्?।
गते ब्रह्मन् किं चकार भगवान् नारदो मुनिः
व्यासो उवाच
मुनिस् तयोश् च गतयोः स रुरोद सरित्-तटे ।
इतस् ततश् च बभ्राम मद्-वियोग-शुचास्पद
स्व-मानसे समालोक्य मुनि-श्रेष्ठः स उन्मनाः ।
ध्यायमानो हरि-पदं शिवं द्रष्टुं समुत्सुकः
प्रणम्य पितरं भक्त्या कुमारं भ्रातरं तथा ।
जगाम तपस-स्थानात् कैलासाभिमुखे मुनिः
स्नात्वा च कृत-मालायां संपूज्य परमेश्वरम् ।
भुक्त्वा फलं जलं पीत्वा प्रययौ गन्ध-मादनम्
ददर्श ब्राह्मणं तत्र वट-मूले मनोहरे ।
कटमस्तम् ध्यायमानं श्री-कृष्ण-चरणाम्बुजम्
दीर्गं नग्नं गौराङ्गं दीर्घ-लोमभिर् आवृतम् ।
निमीलिताक्षं सानन्दं सानन्दाश्रु-समन्वितम्
पाद्मे पद्मेश-शेषादि-सुर-पूजित-वन्दिते ।
श्री-पाद-पद्मे शोभाढ्ये शश्वत्-संन्यस्त-मानसम्
बाह्य-ज्ञान-परित्यक्तं योग-ज्ञान-विशारदम् ।
शिवस्य शिष्यं सद्-भक्तं योगीन्द्राणां गुरोर् गुरोः
हृत्-पद्मे पद्म-नाभं च परमात्मानम् ईश्वरम् ।
प्रदीप-कलिकाकारं ब्रह्म-ज्योतिः-सनातनम्
साक्षि-स्वरूपं परमं भगवन्तम् अधोक्षजम् ।
पश्यन्तं सस्मितं कृष्णं पुलकाङ्कित-विग्रहम्
सद्-भावोद्रिक्त-चित्तं च सद्-भावं पुरुषोत्तमे ।
दृष्ट्वा महर्षि-प्रवरं देवर्षि-विस्मयम् ययौ
इतस् ततश् च बभ्राम ददर्श स्वाश्रमं मुनेः ।
अतीव सुरहः-स्थानं रम्यं रम्यं नवं नवम्
सुस्निग्धं सुन्दरं शुद्धं परं स्वच्छं सरोवरम् ।
श्वेत-रक्तोत्पल-दलैः कमलैः कमनीयकम्
गुञ्जदिन्दिन्द-वरैर् ?wहत्? मकरन्दोदरैस् तथा ।
व्याकुलैः संकुलैः शश्वद्-राजितैश् च विराजितम्
वन्यैर् वृक्षैर् बहु-विधैः फल-शाखा-सुशोभितैः ।
करञ्जकैश् च करजैर् बिम्बैः शाखोटिकैस् तथा
तिन्तिडीभिः कपित्थैश् च वट-शिंशपा-चन्दनैः ।
मन्दारैः सिन्धु-वारैश् च ताडि-पत्रैः सुशोभनैः
गुवाकैर् नारिकेतैश् च खर्जुरैः पनसैस् तथा ।
तालैः शालैः पियालैश् च हिन्तालैर् वकुलैर् अपि
आम्रैर् आम्रातकैश् चैव जम्बीरैर् दाडिमैस् तथा ।
श्री-फलैर् वदरीभिश् च जम्बुभिर् नागरङ्गकैः
सुपक्व-फल-शोभाड्यैः सुस्निग्धैः सुमनोहरैः ।
तरुणैस् तरु-राजैस् च नाना-जातिभिर् ईप्सितम्
मल्लिका-मालती-कुन्द-केतकी-कुसुमैः शुभैः ।
माधवीनां लता-जालैश् चर्चितं चारु-चम्पकैः
कदम्बानां कदम्बैश् च स्वच्छैः श्वेतैश् च पुष्पितैः ।
नागेश्वराणां वृन्दैश् च दीप्तं मन्दारकैर् वरैः
हंस-कारण्ड-वकुलैः पुंस्-कोकिल-कुलैस् तथा ।
सन्ततं कूजितं शुद्धं सुव्यक्तं सुमनोहरम्
शार्दूलैः शरभैः सिंहैर् गण्डकैर् महिषैः परम् ।
मनोहरैः कृष्ण-सारैश् चमरभिर् भाव-भूषितम्
महा-मुनि-प्रभावेन हिंसा-दोष-विवर्जितम् ।
दस्यु-चौर-हिंस्र-जन्तु-भय-शोक-विवर्जितम्
सुपुण्यदं तीर्थ-वरं भारते सुप्रशंसितम् ।
सिद्ध-स्थलं सिद्धिदं तं मन्त्र-सिद्धि-करं परं
दृष्ट्वाश्रमं मुनि-श्रेष्ठो जगाम मुनि-संसदि ।
आसने च समासीनं ध्यान-हीनं ददर्श तम्
समुत्तस्थौ स वेगेन दृष्ट्वा देवर्षि-पुङ्गवम् ।
दत्वामलं फलं मूलं संभाषां स चकार ह
प्रश्नं चकार स मुनि-वीणा-पाणिं नारदम् ।
सस्मितः सस्मितं शुद्धं शुद्ध-वंश-समुद्भवम्
सद्-भाग्योपस्थितं दीप्तं ज्वलन्तं ब्रह्म-तेजसा ।
अतिथिं ब्राह्मण-वरं ब्रह्म-पुत्रं च पूजितं
मुनिर् उवाच
किं नाम भवतो विप्र क्व यासीति क्व चागतः ।
क्व ते पिता स को वापि क्व वासः कुत्र संभवः
मां वा ममाश्रमं वापि पूतं कर्तुम् इहागतः ।
मूर्तिमद्-ब्रह्म-तेजो हि मम भाग्याद् उपस्थितः
अथ वैष्णव-दर्शन-फलम्
न ह्य् अम्मयानि तीर्थानि न देवा मृच्छितामयाः ।
ते पुनन्त्य् उरुकालेन वैष्णवो दर्शनेन च
सद्यः पूतानि तीर्थानि सद्यः पूता स-सागरा ।
स-शैल-कानन-द्वीपा पाद-स्पर्शाद् वसुन्धरा
धन्यो ऽहं कृत-कृत्यो ऽहं सफलं मम जीवनम् ।
सहसोपस्थितो गेहे ब्राह्मणो वैष्णवो ऽतिथिः
पूजितो वैष्णवो येन विश्वं च तेन पूजितम् ।
आश्रमं वस्तु-सहितं सर्वं तुभ्यं निवेदितम्
फलानि च सुपक्वानि भुङ्क्ष्व भोगानि साम्प्रतम् ।
सुवासितम् पिब स्वादु शीतलं निर्मलं जलम्
दुग्धं च सुरभी-दत्तं रम्यं मधुरितं मधु ।
परिपक्वं फल-रसं पिब स्वादु मुहुर् मुहुः
सुख-बीज्ये सुतल्पे च शयनं कुरु सुन्दरे ।
सुशीत-वात-सौगन्ध्य-पूतेन सुरभी-कृते
अथातिथि-पूजन-फलम्
अतिथिर् यस्य पुष्टो हि तस्य पुष्टो हरिः स्वयम् ।
हरौ तुष्टे गुरुस् तुष्टो गुरौ तुष्टे जगत्-त्रयम्
अधिष्ठातातिथिर् गेहे सन्ततं सर्व-देवताः ।
तीर्थान्य् एतानि सर्वाणि पुण्यानि च व्रतानि च
तपांसि यज्ञाः सत्यं च शीलं धर्मः सुकर्म च ।
अपूजितैर् अतिथिभिर् सार्धं सर्वे प्रयान्ति ते
अथातिथि-विमुखे दोषाः
अतिथिर् यस्य भग्नाशो गृहात् प्रतिनिवर्तते ।
पितरस् तस्य देवाश् च पुण्यं धर्म-व्रताशनाः
यमः प्रतिष्ठा लक्ष्मीश् चाभीष्ट-देवो गुरुस् तथा ।
निराशाः प्रतिगच्छन्ति त्यक्त्वा पापं च पूरुषम्
स्त्री-घ्नैश् चैव कृत-घ्नैश् च ब्रह्म-घ्नैर् गुरु-तल्प-गैः ।
विश्वास-घातिभिर् दुष्टैर् मित्र-द्रोहिभिर् एव च
सत्य-घ्नैश् च कृत-घ्नैश् च पापिभिः स्थापिभिस् तथा ।
दानापहारिभिश् चैव कन्या-विक्रियिभिस् तथा
सीमापहारिभिश् चैव मिथ्या-साक्षि-प्रदातृभिः ।
ब्रह्म-स्वहारिभिश् चैव तथा स्थाप्यस्वहारिभिः
वृष-वाहैर् देवलैश् च तथैव ग्राम-याजिभिः ।
शूद्रान्न-भोजिभिश् चैव शूद्र-श्राद्धाह-भोजिभिः
श्री-कृष्ण-विमुखैर् विप्रैर् हिंस्रैर् नर-विघातिभिः ।
गुराव् अभक्तै रोगार्तैः शश्वन्-मिथ्या-प्रवादिभिः
विप्र-स्त्री-गामिभिः शूद्रैर् मातृ-गामिभिर् एव च ।
अश्वत्थ-घातिभिश् चैव पत्नीभिः पति-घातिभिः
पितृ-मातृ-घातिभिश् च शरणागत-घातिभिः ।
ब्राह्मण-क्षत्र-विट्-शूद्रैः शिला-स्वर्णापहारिभिः
तुल्यो भवति विप्रेन्द्रातिथिर् एव त्व् अनर्चितः ।
इत्य एवम् उक्त्वा मुनिः पूजयाम् आस नारदम् ।
मिष्टं च भोजयाम् आस शाययाम् आस भक्तितः
श्री-नारद उवाच
नारदो ऽहं मुनि-श्रेष्ठ ब्राह्मणो ब्रह्मणः सुतः ।
तपः-स्थलाद् आगतो ऽहं यामि कैलासम् ईप्सितम्
आत्मानं पावनं कर्तुं त्वां च द्रष्टुम् इहागतः ।
पुनन्ति प्राणिनः सर्वे विष्णु-भक्त-प्रदर्शनात्
को भवान् ध्यान-पूतश् च नग्नश् च कट-मस्तकः ।
किं ध्यायसे महा-भाग श्रेष्ठ-देवश् च को गुरुह्
मुनिर् उवाच
जीव-मुक्तो भवान् एव पुनासि भुवन-त्रयम् ।
यस्य तत्र कुले जन्म तस्य तत्-तद्-वचोमनः
पुत्रे यशसि तोये च कवित्वेन च विद्यया ।
प्रतिश्ह्ठायां च ज्ञायेत सर्वेषां मानसं नृणाम्
विधाता जगतां ब्रह्मा ब्रह्मैकतान-मानसः ।
तत्-पुत्रो ऽसि महाख्यातो देवर्षि-प्रवरो महान्
लोमशो ऽ हं महा-भाग जगत्-पावन-पावन ।
नग्नोऽल्पायुर् विवेकी च वाससा किं प्रयोजनम्
वृक्ष-मूले निवासे मे छत्रेण किं गृहेण च ।
रौद्र-वृष्टि-वारणार्थं सांप्रतं कट-मस्तकः
जल-बुद्बुद-विद्युद्वत्-त्रैलोक्यं कृत्रिमं द्विज ।
ब्रह्मादि-तृण-पर्यन्तं सर्वं मिथ्याइव स्वप्नवत्
किं कलत्रेण पुत्रेण धनेन संपदा श्रिया ।
किं वित्तेन च रूपेण जीवनाल्पायुषा मुने
इन्द्रस्य पतनेनैव लोमकोत्पाटनं मम ।
मनोश् च पतनं तत्र मायया किं प्रयोजनम्
सर्व-लोमकोत्पाटनेन केशौघोत्पाटनेन च ।
अल्पायुषो मम मुने मरणं निश्चितं भवेत्
ध्याये श्री-पाद-पद्मं तत्-पाद्म-पद्मेश-वन्दितम् ।
परस्य प्रकृतेस् तस्य कृष्णस्य परमात्मनः
तस्य मे ऽभीष्ट-देवस्य सर्वेषां कारणस्य च ।
गुरुर् मे जगतां नाथो योगीन्द्राणां गुरुः शिवः
मत्-कण्ठे कवचं यस्य मद्-गुरुः कथयिष्यति ।
गुरोर् निषेधो यत्रास्ते तद् वक्तुं कः क्षमो भुवि
गुरोश् च वचनं यो हि पालनं न करोति च ।
गुरूक्तम् उक्त्वा पापी स ब्रह्म-हत्यां लभेद् ध्रुवम्
स्व-गुरुं शिव-रूपं च तद्-भिन्नं मन्यते हि यः ।
ब्रह्म-हत्यां लभेत् सो ऽपि विघ्नस् तस्य पदे पदे
अकर्तव्यं तु कर्तव्यं पालनीयं गुरोर् वचः ।
अपालने सर्व-विघ्नं लभते नात्र संशयः
आशिषा पाद-रजसा चोच्छिष्टालिङ्गेन च ।
मुच्यते सर्व-पापेभ्यो जीवन्-मुक्तो भवेन् नरः
स्व-गुरुं शङ्करं पश्य गच्छ कैलासम् ईप्सितम् ।
मुच्यते विघ्न-पापेभ्यो गुरोश् चरण-दर्शनात्
मूल पाठ: Jñānāmṛtasārasaṃhitā (also called “Nāradapañcarātra”) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0