भाषा

ENहिગુ
ग्रंथ पाठ

ज्ञानामृतसारसंहिता · अध्याय 1.5

1.5.1

इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे ब्रह्मा-नारद-संवादे
प्रथमैक-रात्रे कवच-प्रश्नो नाम चतुर्थो ऽध्यायः
प्रथमैक-रात्रे पञ्चमो ऽध्यायः
श्री-सनत्-कुमार उवाच
तवेच्छा यत्र कवचे ध्याने तद् वद साम्प्रतम् ।
यच् छृणोमि शुभं तच् च केन श्रेयसि तृप्यते

1.5.2

ब्रमोवाच
ध्यानं साम-वेदोक्तं दत्तम् नारायणेन वै ।
कवचं च सुभद्राय धर्मिष्ठाय महात्मने

1.5.3

नवीन-जलद-श्यामं पीत-कौशेय-वाससम् ।
चन्दनोक्षित-सर्वाङ्गं सस्मितं श्यामसुन्दरम्

1.5.4

मालती-माल्य-भूषाढ्यं रत्न-भूषण-भूषितम् ।
मुनीन्द्रेश-सुसिद्धेश-ब्रह्मेश-शेष-वन्दितम्

1.5.5

सर्व-स्वरूपं सर्वेशं सर्व-बीजं सनातनम् ।
सर्वाद्यं सर्व-ज्ञं पुरुषं प्रकृतेः परम्

1.5.6

निर्गुणं च निरीहं च निर्लिप्तम् ईस्वरं भजे ।
ध्यात्वा मूलेन तस्मै च दद्यात् पाद्यादिकं मुदा

1.5.7

ततः स्तोत्रं च कवचं भक्त्या च प्रपठेन् नरः ।
जप्त्वा च मन्त्रं भक्त्या दण्डवत् प्रणमेद् भुवि ।
इति ते कथितं वत्स किं भूयः श्रोतुम् इच्छसि

1.5.8

श्री-सनत्कुमार उवाच
ब्रूहि मे कवचं ब्रह्मन् जगन्-मङ्गल-मङ्गलम् ।
पूज्यं पुण्य-स्वरूपं च कृष्णस्य परमात्मनः

1.5.9

अथ जगन्-मङ्गल-मङ्गल-कवचम्
ब्रह्मोवाच
शृणु वक्ष्यामि विप्रेन्द्र कवचं परमाद्भुतं ।
श्री-कृष्णेनैव कथितं मह्यं च कृपया परा

1.5.10

मया दत्तं च धर्माय तेन नारायणर्षये ।
ऋषिणा तेन तद् दत्तं सुभद्राय महात्मने

1.5.11

अति-गुह्यतमं शुद्धं परं स्नेहाद् वदाम्य् अहम् ।
यद् धृत्वा पठनात् सिद्धाः सिद्धानि प्राप्नुवन्ति च

1.5.12

एवम् इन्द्रादयः सर्वे सर्वैश्वर्यम् आप्नुयुः ।
ऋषिश् छन्दश् च सावित्री देवो नारायणः स्वयम्

1.5.13

धर्मार्थ-काम-मोक्षेषु विनियोगः प्रकीर्तितः ।
राधेशो मे शिरः पातु कण्ठं रधेश्वरः

1.5.14

गोपीशश् चक्षुषी पातु तालु च भगवान् स्वयम् ।
गण्ड-युग्मं च गोविन्दः कर्ण-युग्मं च केशवः

1.5.15

गलं गदाधरः पातु स्कन्धं कृष्णः स्वयं प्रभुः ।
वक्ष-स्थलं वासुदेवश् चोदरं चापि सो ऽच्युतः

1.5.16

नभिं पातु पद्म-नाभः कङ्कालं कंस-सूदनः ।
पुरुषोत्तमः पातु पृष्ठं नित्यानन्दो नितम्बकम्

1.5.17

पुण्डरीकः पाद-युग्मं हस्त-युग्मं हरिः स्वयम् ।
नासां च नखरं पातु नरसिंहः स्वयं प्रभुः

1.5.18

सर्वेश्वरश् च सर्वाङ्गं सन्ततं मधु-सूदनः ।
प्राच्यां पातु च रामश् च वह्नौ च वंशी-धरः स्वयम्

1.5.19

पातु दामोदरो दक्षे नैरृते च नरोत्त्मः ।
पश्चिमे पुण्डरीकाक्षो वायव्यां वामनः स्वयम्

1.5.20

अनन्तश् चोत्तरे पातु ऐशान्याम् ईश्वरः स्वयम् ।
जले स्थले चान्तरीक्षे स्वप्ने जागरणे तथा

1.5.21

पातु वृन्दावनेशश् च मां भक्तं शरणागतम् ।
इति ते कथितं वत्स कवचं परमाद्भुतम्

1.5.22

सुखदं मोक्षदं सारं सर्व-सिद्धि-प्रदं सताम् ।
इदं कवचम् इष्टं च पूजा-काले च यः पठेत्

1.5.23

हरि-दास्यम् अवाप्नोति गोलोके वासम् उत्तमम् ।
इहैव हरि-भक्तिं च जीवन्-मुक्तो भवेन् नरः

1.5.24

नारद उवाच
नारायणर्षिणा दत्तं कवचं यत् सुदुर्लभम् ।
सुभद्राय ब्राह्मणाय तन् मे वक्तुम् इहार्हसि

1.5.25

ब्रह्मोवाच
मद्-इष्ट-देव्याः कवचं कथं तत् कथयामि ते ।
मत्-कण्ठे पश्य कवचं सद्-रत्न-गुटिकान्वितम्

1.5.26

नारायणर्षिणा दत्तं कवचं गुटिकान्वितम् ।
तथापीदं न कथितं निषिद्धं हरिणा स्मृतम्

1.5.27

तस्यर्षेश् चेष्ट-देव्याश् च नोक्तं तेनेदम् ईप्सितम् ।
मह्यं न दत्ता गुटिका बान्धवैर् भर्त्सितेन च

1.5.28

आत्मनः कवचं मन्त्रं स्वयं दातुं न चार्हति ।
प्राणा नष्टाश् च दानेन चेति वेद-विदो विदुः

1.5.29

शङ्करं गच्छ भगवन् जन्मान्तर-गुरुं तव ।
स एव तुभ्यं कवचं दास्यस्य् एव न संशयः

1.5.30

त्वत्-प्राक्तनेन विप्रेन्द्र सत्-वरेण शुभेन च ।
ध्रुवं प्राप्स्यसि त्वं वत्स कवचं तत् सुदुर्लभम्

1.5.31

कुमार गच्छ वैकुण्ठं स्व-गुरुं पश्य सत्-वरम् ।
नारायणश् च कवचं तुभ्यं दास्यसि निश्चितम्

1.5.32

सनत्-कुमारो भगवान् गत्वा वैकुण्ठम् ईप्सितम् ।
संप्राप्य कवचं वत्स कवचं तत् सुदुर्लभम्

1.5.33

आज्ञया ब्रह्मणश् चापि नारदो गन्तुम् उद्यतः ।
ब्रह्मा ययौ ब्रह्म-लोकं जन्म-मृत्यु-जरापहम्

मूल पाठ: Jñānāmṛtasārasaṃhitā (also called “Nāradapañcarātra”) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc