भाषा

ENहिગુ
ग्रंथ पाठ

ज्ञानामृतसारसंहिता · अध्याय 1.2

1.2.1

इति श्री-नारद-पञ्च-रात्रे ग्रन्थ-प्रशंसनं नाम प्रथमो ऽध्यायः
प्रथमैक-रात्रे द्वितीयो ऽध्यायः
शुक उवाच
कुत्र वा पञ्च-रात्रं च नारदस्य च धीमते ।
प्रदत्तं शम्भुना तात तन् मे व्याख्यातुम् अर्हसि

1.2.2

अथ नारदस्य तपो-वर्णनम्
व्यास उवाच
अधीत्य सर्वान् वेदांश् च वेदाङ्गाण् पितुर् अन्तिके ।
जगाम तीत्र्हं केदारं सुप्रशस्तं च भारते

1.2.3

हिमालयस्य पूर्वे य गङ्गा-तीरे मनोहरे ।
सिद्धे नारायण-क्षेत्रे सर्वेषां अभिवाञ्च्छिते

1.2.4

तपश् चकार स मुनिर् दिव्यं वर्ष-सहस्रकम् ।
पित्रोक्तेनैव विधिना सततं संयुतः शुचिः

1.2.5

शुश्रावाकाश-वाणीं च तपसो ऽन्ते महा-मुनिः ।
स्वल्पाक्षरां च बह्व्-अर्थां परिणाम-सुखावहाम्

1.2.6

अथ नारदं प्रति दैव-वाणी
अशरीरिष्य् उवाच
आधारितो यदि हरिस् तपसा ततः किम् ।
नाधारितो यदि हरिस् तपसा ततः किम् ।
अन्तर् बहिर् यदि हरिस् तपसा ततः किम् ।
नान्तर् बहिर् यदि हरिस् तपसा ततः किम्

1.2.7

विरम विरम ब्रह्मन् किं तपस्यासु वत्स ।
व्रज व्रज द्विज शीघ्रं शङ्करं ज्ञान-सिन्धुम् ।
लभ लभ हरि-भक्तिं वैष्णवोक्तां सुपक्वां ।
भव-निगड-निबन्ध-छेदिनीं कर्तनीं च

1.2.8

इति श्रुत्वा च स मुनिर् विमनाः स्वर्-णदी-तटे ।
चकारार्थानुसन्धानं न प्रसन्नम् च तन् मनः

1.2.9

रुरोद स्वर्-णदी-तीरे स्मारं स्मारं हरेः पदम् ।
ददर्श पुरतस् तातं ब्रह्माणं सकुमारकम्

1.2.10

ननाम सहसा मूर्ध्ना पितरं तं सहोदरम् ।
पाद्यम् अर्घ्यं च प्रददौ जवेन सादरं मुनिः

1.2.11

श्लोक-द्वयार्थं पप्रच्छ कुमारं जगतां विधिम् ।
सुखासीनं सुस्थिरं च सस्मितं च गत-श्रमम्

1.2.12

स्वात्मारामं पूर्ण-कामं ज्ञानिनां च गुरोर् गुरुम् ।
साश्रु-नेत्रः पुलकितो भक्त्या प्रणत-कन्धरम्

1.2.13

नारदस्य वचः श्रुत्वा दृष्ट्वा तं कातरं विधिः ।
पुत्रेण सार्द्धम् आलोच्य व्याख्यां कर्तुं समारेभे

1.2.14

अथ दैव-वाण्यर्थः
ब्रह्मोवाच
हे वत्स पूर्व-श्लोकार्थं निगूढं श्रुति-सम्मतम् ।
वेदार्थं द्वि-विधं शुद्धं व्याख्यां कुर्वन्ति वैदिकाः

1.2.15

आराधितो यदि हरिर् येन पुंसा स्व-भक्तितः ।
किं तस्य तपसा व्यर्थं तीर्थ-पूतस्य नारद

1.2.16

कृष्ण-मन्त्रोपासकस्य जीवन्-मुक्तस्य भारते ।
तपश् चोपहास-बीजं तथा चर्वित-चर्वणम्

1.2.17

मन्त्र-ग्रहण-मात्रेण पुरुषाणां शतं सुत ।
पुनाति स्व-स्व-भक्तं च चान्धवंश् चावलीलया

1.2.18

नहि धर्मो नहि तपः श्री-कृष्ण-सेवनात् परम् ।
परिश्रमं च विफलं तपसा वैष्णवस्य च

1.2.19

कृष्ण-मन्त्रोपासकस्य तीर्थ-पूतस्य पुत्रक ।
तीर्थ-स्नानम् अनशनं वेदेषु च विडम्बनम्

1.2.20

पूर्व-कर्मानुरोधेन यत् पापं वैष्णवस्य च ।
मन्त्र-ग्रहण-मात्रेण नष्टं वह्नौ यथा तृणम्

1.2.21

पवित्रः परमो वह्निः पवित्रं चामलं जलं ।
पवित्रं भारतं वर्षं तीर्थं यत् तुलसी-दलम्

1.2.22

पुनाति लीलयैतानि शुद्धः कृष्ण-परायणः ।
उपस्पर्श च भक्तस्याप्य् एते वाञ्च्छन्ति सादरम्

1.2.23

भक्तस्य पाद-रजसा सद्यः पूता वसुन्धरा ।
नहि पूत-स्त्रि-भुवने श्री-कृष्ण-सेवकात् परः

1.2.24

शालिग्राम-शिला-चक्रे करोति कृष्ण-पूजनम् ।
तत्-पादोदक-नैवेद्यं नित्यं भुङ्क्ते च यः पुमान्

1.2.25

स वैष्णवो महा-पूतस् तन्-मन्त्रोपासकः शुचिः ।
पुनाति पुंसां शतकं जन्म-मात्रात् सबान्धवम्

1.2.26

वत्स श्लोकस्यैक-पादं व्याख्यातं च यथागमम् ।
व्याख्यातं करोम्य् अन्य-पादं यथाज्ञानं मिशामय

1.2.27

नाराधितो यदि हरिर् येन पुंसाधमेन च ।
किं तस्य तपसा व्यर्थं निष्फलं तत्-परिश्रमः

1.2.28

व्रतान्य् एव हि दानानि तपांस्य् अनशनानि च ।
वेदोपयुक्ता यज्ञाश् च कर्माणि च शुभानि च ।
न निष्पुनात्य् अभक्तं च सुराकुम्भम् इवापगा

1.2.29

अभक्त-स्पर्श-मात्रेण तीर्थानि कम्पितानि च ।
अभक्त-भार-दुःखेन कम्पिता सा वसुन्धरा

1.2.30

श्लोकार्धं कथितं वत्स किंचिद् एव यथागमम् ।
तस्यार्धस्यापि व्याख्यानं करोमीति निशामय

1.2.31

वेद-सारं कृष्ण-मतं ममापि नहि कल्पना ।
अन्तर् बहिर् यदि हैर् येषां पुंसां महात्मनां

1.2.32

स्वप्ने जागरणे शश्वत् तपस् तेषां च निष्फलम् ।
स एव विष्णु-तुल्यो हि तद्-अंशो भारते मुने

1.2.33

तस्य रक्षा-निबन्धेन तद्-अभ्यासे सुदर्शनम् ।
ध्यान-मात्रेण निष्-पापः पुनाति भुवन-त्रयम्

1.2.34

दत्वा चक्रं च रक्षार्थं न निश्चिन्तो जनार्दनः ।
स्वयं तन् निकटं याति द्रष्टुं रक्षणाय च

1.2.35

तत्-परो हि प्रियो नास्ति कृष्णस्य परमात्मनः ।
नहि भक्तात् परश् चात्मा प्राणाश् चावयवादयः ।
न लक्ष्मी राधिका वाणी स्वयंभुः शम्भुर् एव च

1.2.36

भक्त-प्राणो हि कृष्णश् च कृष्ण-प्राणा हि वैष्णवाः ।
ध्यायन्ते वैष्णवाः कृष्णं कृष्णश् च वैष्णवांस् तथा

1.2.37

व्याख्यातम् च त्रि-पादं च हे मुनीन्द्र यथागमम् ।
शेष-पादस्य व्याख्यानं करोमीति निशामय

1.2.38

नान्तर् बहिर् यदि हरिर् येषां पुंसां च नारद ।
तेषाम् अपि तपो व्यर्थम् अन्तर्-मलिन-चेतसां

1.2.39

किं तज्-ज्ञानेन तपसा व्रतेन नियमेन च ।
तीर्थ-स्नानेन पुण्येनापि अभक्त-मूढ-चेतसां

1.2.40

कृष्ण-भक्ति-विहीनेभ्यो द्विजेभ्यः श्वपचो महान् ।
शूकरो म्लेच्छ-निवहः स्व-धर्माचरेण च

1.2.41

स्व-धर्म-हीना विप्राश् चाप्य् अभक्ष्य-भक्षणेन च ।
नित्यं नित्यं विधर्मेण पतिताः श्वपचाधमाः

1.2.42

ब्रह्मणानां स्व-धर्मश् च सन्ततं कृष्ण-सेवनम् ।
नित्यं ते भुञ्जते सन्तस् तन्-नैवेद्यं पादोदकम्

1.2.43

न दत्वा हरये यस् तु यदि भुङ्क्ते द्विजाधमः ।
अन्नं विष्ठा-समं मूत्र-समं तोयं विदुर् बुधाः

1.2.44

भुङ्क्ते स्व-भक्ष्यं कोलश् च म्लेच्छश् च श्वपचाधमः ।
विप्रो नित्यम् अभक्ष्यं च भुङ्क्ते च पतितस् ततः

1.2.45

श्लोकम् एकं च व्याख्यातं यथा-ज्ञानं च नारद ।
सन्निबोध परस्यार्धं व्याख्यानं च यथोचितं

1.2.46

तपसो विरम ब्रह्मन् व्यर्थं भक्त-तपो ध्रुवम् ।
शङ्करश् च गुरुं कृत्वा हरि-भक्तिं लभाचिरम्

1.2.47

सुपक्वा हरि-भक्तिश् च तरणी भव-तारणे ।
गुरुर् एव परं ब्रह्म कर्ण-धार-स्वरूपकः

1.2.48

इत्य् एवम् उक्त्वा त्वां देवी प्रजगाम सरस्वती ।
व्याख्यातस् तद्-अभिप्रायः किं भूयः कथयामि ते

1.2.49

ब्रह्माणश् च वचः श्रुत्वा जहास योगिनां गुरुः ।
सनत्-कुमारो भगवान् उवाच पितरं शुक

1.2.50

सनत्-कुमार उवाच
पूर्व-श्लोकस्य व्याख्यानं न बुद्धं शिशुना मया ।
पुत्रं शिष्यम् अबोधं च युक्तं बोधयितुम् पुनः

1.2.51

आराधितो हरिर् येन तस्य व्यर्थं तपो यदि ।
नाराधितो हैर् येन तस्य व्यर्तं तपो यदि

1.2.52

तस्यारहितौ तौ द्वौ तपसश् च स्थलं कुतः ।
तपः कुर्वन्ति ये तात त्वं मां बोधय बालकम्

1.2.53

पुत्रस्य वचनं श्रुत्वा सन्दिग्धो जगतां गुरुः ।
दध्यौ कृष्ण-पदाम्भोजं परं कल्प-तरुं शुक

1.2.54

क्षणं संचित्य पादाब्जं प्राप राद्धान्तम् ईप्सितम् ।
व्याख्यां कर्तुं समारेभे विधाता जगताम् अपि

1.2.55

अथ नैवेद्य-प्रशंसा
ब्रह्मोवाच
धन्यो ऽहं भवतः पुत्रात् ज्ञानिनां च गुरोर् गुरोः ।
विष्णु-भक्ताच् च धर्मिष्ठात् सत्-पुत्राच् च पिता सुखी

1.2.56

धन्यो ऽसि पण्डितो ऽसि त्वं हरि-भक्तो ऽसि पुत्रक ।
ममापि सफलं जन्म जीवनं च त्वया बुध

1.2.57

निबोध पूर्व-श्लोकार्थं पुनर् व्याख्यां करोमि च ।
तथापि चेन् न सन्तोषो भवान् व्याख्यां करिष्यति

1.2.58

आशब्दः सम्यग्-अर्थे च राधितः प्राप्त-वाचकः ।
संप्राप्तश् च हरिर् येन व्यर्थस् तस्य तपः-श्रमः

1.2.59

येन सम्यक्-प्रकारेण संप्राप्तो हरिर् ईश्वरः ।
स्वप्ने ज्ञाने च ज्ञातस् तेषां व्यर्थस् तपः-श्रमः

1.2.60

श्री-कृष्ण-विमुखं मूढं द्विजम् एव नराधमम् ।
तीर्थं दानं तापः पुण्यं व्रतं नैव पुनाति तम्

1.2.61

यश् च मूढतमो लोके यश् च भक्तिं परां गतः ।
ताव् उभौ सुख-सेधेते तपः कुर्वन्ति मध्यमाः

1.2.62

देवान् अन्यांश् च भजते हरिं जानाति तत्-परः ।
तपः करोति तं प्राप्तुम् आकाङ्क्षन् मध्यमो जनः

1.2.63

प्राक्तनाद् अनुरागी च गृही संसार-संवृतः ।
तपः करोति श्री-कृष्ण-पाद-पद्मार्थम् ईप्सितम्

1.2.64

परं श्री-कृष्ण-भजनं ध्यानं तन्-नाम-कीर्तनम् ।
तत्-पादोदक-नैवेद्य-भक्षणं सर्व-वाञ्च्छितम्

1.2.65

अतीव मूढो विप्रश् च प्राक्तनाद् गुरु-दोषतः ।
तामसो हि न जानाति श्री-कृष्णं त्रि-गुणात् परम्

1.2.66

अज्ञानाद् अथ वा ज्ञानात् सत्-सङ्गाद् एव प्राक्तनात् ।
भुङ्क्ते नैवेद्यं ईशस्य कृष्णस्य परमात्मनः

1.2.67

स च मुक्तो भवेत् पुत्र मुच्यते सर्व-पातकात् ।
स याति दिव्य-यानेन गोलोकं लोकम् उत्तमम्

1.2.68

शृणु वत्स प्रवक्ष्यामि पूर्वाख्यानं पुरातनम् ।
अतीव सुश्रवं चारु मधुरं मुक्तिदं परम्

1.2.69

कान्यकुब्जः सुक्षुब्धश् च ब्राह्मणो ग्राम-याजकः ।
देवलो वृष-वाहश् च महा-मूढश् च पातकी

1.2.70

स्वप्ने ज्ञाने न जानाति पुण्यं वा कृष्ण-पूजनम् ।
कृष्ण-भक्त-सहालाप-दर्शन-स्पर्शनं शुभं

1.2.71

बभूव प्राक्तनात् तस्य क्षण-मात्रं सुदुर्लभम् ।
तेन पुण्येन नैवेद्यं लेभे कृष्णस्य ब्राह्मणः

1.2.72

पितुः पुण्येन पुत्रश् च मार्गे पतितम् अल्पकम् ।
स्वयं भुक्तावशेषं च पतितं वैष्णवाज् जनात्

1.2.73

सुस्निग्धाक्षत-जीर्णं च रजसा मिश्रितं परम् ।
गच्छतस् तत्र विप्रस्य पतितं भक्ष्य-वस्तु च

1.2.74

नैवेद्योपरि कृष्णस्य त्वरायुक्तस्य पुत्रक ।
तद्-वस्तु भुक्तं विप्रेण कृष्ण-नैवेद्य-मिश्रितम्

1.2.75

सपुत्रेण क्षुधार्तेन तौ ययतुर् गृहम् ।
विप्रोच्छिष्टं च बुभुजे तस्य पत्नी पति-व्रता

1.2.76

परम्परानुसंबन्धात् पवित्रा सा बभूव ह ।
जीवन्-मुक्तो ब्राह्मणश् च बभूव स सपुत्रकः

1.2.77

कालेन तेन पुण्येन व्याघ्र-भुक्तश् च कानने ।
सार्धं च व्याघ्र-पुत्राभ्यां गोलोकं प्रययौ द्विज ।
पति-व्रता सह-मृता भर्ता सार्धं जगाम सा

मूल पाठ: Jñānāmṛtasārasaṃhitā (also called “Nāradapañcarātra”) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc