भाषा

ENहिગુ
ग्रंथ पाठ

ज्ञानामृतसारसंहिता · अध्याय 1.1

1.1.1

श्री-नारद-पञ्च-रात्रम्
प्रथमैक-रात्रे प्रथमो ऽध्यायः
ओं नमो भगवते वासुदेवाय
अथ मङ्गलाचरणम्
नारायणं नमस् कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं चैव ततो जयम् उदीरयेत् ॥
गणेश-शेष-ब्रह्मेश-दिनेश-प्रमुखाः सुराः ।
कुमाराद्याश् च मुनयः सिद्धाश् च कपिलादयः

1.1.2

लक्ष्मी सरस्वती दुर्गा सावित्री राधिका परा ।
भक्त्या नमन्ति यं शश्वत् तं नमामि परात् परं

1.1.3

ध्यायन्ते सततं सन्तो योगिनो वैष्णवास् तथा ।
ज्योतिर्-अभ्यन्तरे रूपम् अतुलं श्याम-सुन्दरम्

1.1.4

ध्यायेत् तं परमं ब्रह्म परमात्मानम् ईश्वरम् ।
निरीहम् अति-निर्लिप्तम् निर्गुणं प्रकृतेः परं

1.1.5

सर्वेशं सर्व-रूपं च सर्व-कारण-कारणम् ।
सत्यं नित्यं च पुरुषं पुराणं परम् अव्ययम्

1.1.6

मङ्गल्यं मङ्गलार्हं च मङ्गलं मङ्गलालयम् ।
स्वेच्छा-मयं परं धाम भगवन्तं सनातनम्

1.1.7

स्तुवन्ति वेदा यं शश्वन्न् आनन्तं जानन्ति यस्य ते ।
तं स्तौमि परमानन्दं सानन्दं नन्द-नन्दनम्

1.1.8

भक्त-प्रियं च भक्तेशं भक्तानुग्रह-विग्रहं ।
श्रीदं श्रीशं श्री-निवासं श्री-कृष्णं राधिकेश्वरम्

1.1.9

ज्ञानामृतं ज्ञान-सिन्धोः संप्राप्य शङ्कराद् गुरोः ।
परावराच् च परमाद् योगीन्द्राणां गुरोर् गुरोः

1.1.10

वेदेभ्यो दधि-सिन्धुभ्यश् चतुर्भ्यः सुमनोहरम् ।
तज् ज्ञान-मन्थ-दण्डेन संनिर्मथ्य नवं नवम्

1.1.11

नवनीतं समुद्धृत्य नत्वा शम्भोः पदाम्बुजम् ।
विधि-पुत्रो नारदो ऽहं पञ्च-रात्रं समारभे

1.1.12

ओं नारायणाश्रमे पुण्ये पुण्य-क्षेत्रे च भारत ।
सिद्धे नारायण-क्षेत्रे वट-मूले सुपुण्यदे

1.1.13

कृष्णांशं कृष्ण-भक्तं च पलं कृष्ण-परायणम् ।
श्री-कृष्ण-चरणाम्भोज-ध्यानैकतान-मानसम्

1.1.14

जपन्तं परमं ब्रह्म कृष्ण इत्य् अक्षर-द्वयम् ।
सुखासने सुखासीनं कृष्ण-द्वैपायनं मुनिम्

1.1.15

पप्रच्छ शुकदेवश् च सर्व-ज्ञं पितरं मुनिः ।
कारणण् च पुराणानां पुराणं परम् अव्ययम्

1.1.16

श्री-शुक उवाच
भगवन् सर्व-तत्त्व-ज्ञ वेद-वेदाङ्ग-पारग ।
यद् यत् प्रकारं ज्ञानं च निगूढं श्रुति-सम्मतम्

1.1.17

तेषु यत् सार-भूतं चाप्य् अज्ञानान्ध-प्रदीपकम् ।
तत् तत् सर्वं समालोच्य मां बोधयितुम् अर्हसि

1.1.18

अथ श्री-कृष्ण-भक्ति-प्रशंशा
स पिता ज्ञान-दाता यो ज्ञानं तत् कृष्ण-भक्तिदम् ।
सा भक्तिः परमा शुद्धा कृष्ण-दास्य-प्रदा च या

1.1.19

तद् एव दास्यं शस्तं यत् साक्षाच् चरण-सेवनं ।
नित्यं गोलोक-वासं च पुरतः स्तवनं हरेः

1.1.20

शश्वन् निमेष-रहितं तत्-पाद-पद्म-दर्शनम् ।
शश्वत् तत्-सार्धम् आलाप-सेवा-कर्म-नियोजनम्

1.1.21

तेन सार्धम् अविच्छेद-स्थानं परं शोभनम् ।
भक्तानां वाञ्च्छितं वस्तु सार-भूतं श्रुतौ श्रुतम्

1.1.22

पुत्रस्य वचनं श्रुत्वा व्यासदेवो जहास सः ।
विज्ञाय ज्ञानिनं पुत्रं परमाह्लादम् आप ह

1.1.23

पुत्रं शुभाशिषं कृत्वा सर्व-ज्ञः सर्व-भावनः ।
यथाप्राप्तं गुरु-मुखात् प्रवक्तुम् उपचक्रमे

1.1.24

श्री-व्यास उवाच
शुक धन्यो ऽसि मान्यो ऽसि पुण्य-रूपो ऽसि भारते ।
पुत्रेण भवतास्माकं कुलं मुक्तं च पावनम्

1.1.25

स पुत्रः कृष्ण-भक्तो यो भारते सुयशस्-करः ।
पुनाति पुंसां शतकं जन्म-मात्रेण लीलया

1.1.26

माता-महानां शतकं मातरं मातृ-मातरम् ।
सोदरान् बान्धवांश् चैव भृत्यान् पत्नीं सहात्मजाम्

1.1.27

यत्-कन्यां प्रतिगृह्णाति तद्-आदि-पुरुष-त्रयम् ।
कन्या-प्रदाता श्वशुरो जीवन्-मुक्तः सभार्यकः

1.1.28

स्वयं विधाता भगवान् परं कृष्ण-परायणः ।
कृष्ण-भक्तो वसिष्टस् तु तत् सुतो वैष्णवः स्वयम्

1.1.29

वैष्णवस् तत् सुतः शक्तिः कृष्ण-ध्यानैक-मानसः ।
पराशरश् च तत्-पुत्रः कृष्ण-पादाब्ज-सेवया

1.1.30

जीवन्-मुक्तो महा-ज्ञानी योगीन्द्राणां गुरोर् गुरुः ।
अहं वेद-विभक्ता च श्री-कृष्ण-पाद-सेवया

1.1.31

गुरुर् मे भगवान् साक्षाद् योगीन्द्रो नारदो मुनिः ।
गुरोर् गुरुर् मे शम्भुश् च योगीन्द्राणां गुरोर् गुरुः

1.1.32

तेषां पुण्येन पुत्रस् त्वं पुण्य-राशिश् च मूर्तिमान् ।
पद्मानां मम पुंसां च प्रकाशो भास्करः स्वयम्

1.1.33

श्री-कृष्ण-चरणाम्भोजं पादाब्जं नारदेशयोः ।
सरस्वतीं नमस् कृत्य ज्ञानं वक्ष्ये सनातनम्

1.1.34

श्रूयताम् पञ्च-रात्रं च वेद-सारम् अभीप्सितम् ।
पञ्च-संवादम् इष्टं च भक्तानाम् अभिवाञ्च्छितम्

1.1.35

प्राणाधिकं प्रियं शुद्धं परं ज्ञानामृतं शुभं ।
अथ षट्-संवादाः ?wहत्? हि गोलोके शत-शृङ्गे च पर्वते

1.1.36

सुपुण्ये विरजा-तीरे वट-मूले मनोहरे ।
पुरतो राधिकायाश् च ब्रह्माणं कमलोद्भवम्

1.1.37

तम् उवाच महा-भक्तं स्तुवन्तं प्रणतं सुतम् ।
पञ्च-रात्रम् इदं पुण्यं श्रुत्वा च जगतां विधिः

1.1.38

प्रणम्य राधिकां कृष्णं प्रययौ शिव-मन्दिरम् ।
भक्त्या तम् पूजयाम् आस शङ्करः परमादरम्

1.1.39

सुखासने सुखासीनं स्वस्थं भक्तं च पूजितम् ।
पप्रच्छ वार्तां विनयी विनयेन सुखावहाम्

1.1.40

सर्वं तं कथयाम् आस पञ्च-रात्रादिकं शुभम् ।
वसन्तं वट-मूले च स्वर्गे मन्दाकिनी-तटे

1.1.41

योगीन्द्रैर् अपि सिद्धेन्द्रैर् मुनीन्द्रैश् च स्तुतं प्रभुं ।
ज्ञानामृतं तम् उक्त्वा स ब्रह्म-लोकं जगाम ह

1.1.42

शम्भुश् च कथयाम् आस स्व-शिष्यं नारदं मुनिम् ।
नारदः कथयाम् आस पुष्करे सूर्य-पर्वणि

1.1.43

मां भक्तम् अनुरक्तं च पुण्याहे मुनि-संसदि ।
पञ्च-रात्रम् इदं शुद्धं भ्रमान्ध-ध्वंस-दीपकम्

1.1.44

अथ पञ्च-रात्र-पद-व्याख्या
रात्रं च ज्ञान-वचनं ज्ञानं पञ्च-विधं स्मृतम् ।
तेनेदं पञ्च-रात्रं च प्रवदन्ति मनीषिणः

1.1.45

ज्ञानं परम-तत्त्वं च जन्म-मृत्यु-जरापहम् ।
ततो मृत्युञ्जयः शम्भुः संप्राप कृष्ण-वक्त्रतः

1.1.46

ज्ञानम् द्वितीयं परमं मुमुक्षूणां च वाञ्च्छितम् ।
परं मुक्ति-प्रदं शुद्धं यतो लीनं हरेः पदे

1.1.47

ज्ञानं शुद्धं तृतीयं च मङ्गलं कृष्ण-भक्तिदम् ।
तद्-दास्यम् अधीष्टं च यतो दास्यं लभेद् धरेः

1.1.48

चतुर्थं यौगिकं ज्ञानं सर्व-सिद्धि-प्रदं परम् ।
सर्वस्वं योगिनां पुत्र सिद्धानां च सुख-प्रदम्

1.1.49

अणिमा लघिमा व्याप्तिः प्राकाम्यं महिमा तथा ।
ईशित्वं च वशित्वं च तथाकामावसायिता

1.1.50

सावज्ञं दूर-श्रवणं पर-काय-प्रवेशनम् ।
काय-व्यूहं जीव-दानं पर-जीव-हरं परम्

1.1.51

सर्ग-कर्तृत्व-शिल्पं च सर्ग-संहार-कारणम् ।
सिद्धं च षोडश-विधं ज्ञानिनां च यतो भवेत्

1.1.52

ज्ञानं च परमं प्रोक्तं तद् वै वैषयिकं नृणां ।
यद् इष्ट-देवी माया सा परं संमोह-कारणं

1.1.53

विषये बद्ध-चितं च सर्वम् इन्द्रिय-सेवनम् ।
पोषनं स्व-कुटुम्बानां स्वात्मनश् च निरन्रतम्

1.1.54

प्रथमं सात्त्विकं ज्ञानं द्वितीयं च तद् एव च ।
नैर्गुण्यं च तृतीयं च ज्ञानं च सर्वतः परम्

1.1.55

चतुर्थम् च राजसिकं भक्तस् तन् नाभिवाञ्च्छति ।
पञ्चमं तामसं ज्ञानं विद्वांस् तन् नाभिवाञ्च्छति

1.1.56

ज्ञानं पञ्च-विधं प्रोक्तं पञ्च-रात्रं विदुर् बुधाः ।
पञ्च-रात्रं सप्त-विधं ज्ञानिनां ज्ञानदं परम्

1.1.57

ब्राह्मं शैवं च कौमारं वासिष्टं कापिलं परम् ।
गौतमीयं नारदीयम् इदं सप्त-विधं स्मृतम्

1.1.58

अथ ग्रन्थ-प्रशंसा
षट् पञ्च-रात्रं वेदाश् च पुराणानि च सर्वशः ।
इतिहासं धर्म-शास्त्रं शात्रं च सिद्धि-योग-जम्

1.1.59

दृष्ट्वा सर्वं समालोक्य ज्ञानं संप्राप्य शङ्करात् ।
ज्ञानामृतं पञ्च-रात्रं चकार नारदो मुनिः

1.1.60

पुण्यं च पाप-विघ्नं भक्ति-दास्य-प्रदं हरेः ।
सर्वस्वं वैष्णवानां च प्रियं प्राणाधिकं सुत

1.1.61

सार-भूतं च सर्वेषां वेदानां परमाद्भुतम् ।
नारदीयं पञ्च-रात्रं पुराणेषु सुदुर्लभम्

1.1.62

सर्वान्तरात्मा भगवान् ब्रह्म-ज्योतिः सनातनम् ।
परिपूर्णतमः श्रीमान् यथा कृष्णः सुरेषु च

1.1.63

यथा देवीषु पूज्या सा मूल-प्रकृतिर् ईश्वरी ।
वैष्णवानां च सिद्धानां ज्ञानिनां योगिनां शिवः

1.1.64

विश्वस्तानां इन्द्रियानाम् मनश् च शीघ्र-गामिनाम् ।
ब्रह्मा च वेद-विदुषां पूज्यानां च गणेश्वरः

1.1.65

सनत्-कुमारो भगवान् मुनीनां प्रवरो यथा ।
बृहस्पतिर् बुद्धिमतां सिद्धानां कपिलो यथा

1.1.66

योगीन्द्रानां सतां शुद्ध ऋषिर् नारायणो यथा ।
कवीनां च यथा शुक्रः पण्डितानां बृहस्पतिः

1.1.67

सरिताम् च यथा गङ्गा समुद्राणां जलार्णवः ।
वृन्दावनं वनानां च वर्षानां भारतं यथा

1.1.68

पुष्करं तत्र तीर्थानां पूज्यानां वैष्णवो यथा ।
आत्माकाशो यथाप्तानां यथा काशी पुरीषु च

1.1.69

वृक्षाणां कल्प-वृक्षश् च सुरभी काम-धेनुषु ।
पुष्पाणां पारिजातश् च पत्राणां तुलसी यथा

1.1.70

मन्त्राणां कृष्ण-मन्त्रश् च यथा विद्या धनेष्व् अपि ।
यथा तेजस्विनां सूर्यो मिष्टानाम् अमृतं यथा

1.1.71

आधाराणां च स्थूलानां महा-विष्णुर् यथा सुत ।
सूक्ष्माणां परमाणुश् च गुरुणां मन्त्र-तन्त्र-दः

1.1.72

पुत्रश् च स्नेह-पात्राणां नक्षत्राणां यथा शशी ।
यथा घृतं च गव्यानां शस्यानां धान्यम् ईप्सितम्

1.1.73

शास्त्राणां च यथा वेदाः साश्रमाणां यथा द्विजः ।
तैजसानां यथा रत्नं मुक्तामाणिक्यहीरकम्

1.1.74

यथा छन्दसि गायत्री दुर्गा शक्तिमतीष्व् अपि ।
पति-व्रतासु लक्स्मीश् च क्षमाशीलासु मेदिनी

1.1.75

सौभाग्यासु सुन्दरीषु राधा कृष्ण-प्रियासु च ।
हनुमान् वानराणां च पक्षिणां गरुडो यथा

1.1.76

वाहनानां बलवतां शङ्करस्य यथा वृषः ।
शालग्रामश् च यन्त्राणां पूजासु कृष्ण-पूजनम्

1.1.77

एकादशी व्रतानां च तपःस्व् अनशनं यथा ।
यज्ञानां जप-यज्ञश् च सत्यं धर्मेषु पुत्रक

1.1.78

सुशीलं च गुणानां च पुण्येषु कृष्ण-कीर्तनम् ।
शोभाशु सुख-दृश्येषु प्रभा तेजःसु सर्वतः

1.1.79

पोष्ट्रीणां उपकर्तृणां मित्राणां जननी यथा ।
लोकानाम् अपि लोकेशः शेषो नागेषु पूजितः

1.1.80

सुदर्शनं च शस्त्राणां विश्वकर्मा च शिल्पिनाम् ।
धर्मिष्ठेषु दयावत्सु देवर्षिसु महत्सु च

1.1.81

विष्णु-भक्तेषु विज्ञेषु यथैव नारदो मुनिः ।
एवं च सर्व-शास्त्रेषु पञ्च-रात्रं च पूजितम्

1.1.82

यथा निपीय पीयूषं न स्पृहा चान्य-वस्तुषु ।
पञ्च-रात्रम् अभिज्ञाय नान्येषु च स्पृहा सताम्

1.1.83

सर्वार्थ-ज्ञान-बीजं चाप्य् अज्ञानान्ध-प्रदीपम् ।
वेदसारोद्धृतं तत्त्वं सर्वेषां समभीप्सितम्

मूल पाठ: Jñānāmṛtasārasaṃhitā (also called “Nāradapañcarātra”) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc