भाषा

ENहिગુ
ग्रंथ पाठ

ज्ञानामृतसारसंहिता · अध्याय 1.14

1.14.1

इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे प्रथमैक-रात्रे
गन्धर्व-मोक्षणं नाम त्रयोदशो ऽध्यायः
प्रथमैक-रात्रे चतुर्दशो ऽध्यायः
श्री-शुक उवाच
प्रयाते राधिका-नाथे गोलोकं च निरामयम् ।
बभूव किं रहस्यं च गते गन्धर्व-पुङ्गवे

1.14.2

श्री-व्यास उवाच
सर्वे देवाश् च मुनयः प्रयाते परमात्मनि ।
सर्वे बभूवुस् ते तूष्णीं वयांसीव दिनात्यये

1.14.3

उवाच शम्भुर् ब्रह्माणं नीति-सार-विशारदम् ।
ज्ञानाधिदेवो भगवान् परिणाम-सुखं वचः

1.14.4

श्री-महा-देव उवाच
रक्षिता यस्य भगवान् कल्याणं तस्य सन्ततम् ।
स यस्य विघ्न-कर्ता च रक्षितुं तं च कः क्षमः

1.14.5

स्मृति-मात्रेण निर्विघ्ना ये च कृष्ण-परायणः ।
विघ्नं कर्तुं के समर्थास् तेषां च मुनयः सुराः

1.14.6

कोपाग्निनां स्थलं कुत्र स्तम्भितानां च साम्प्रतम् ।
देवानां च मुनीनां च क्षणेनैवेश्वरेच्छया

1.14.7

यदि तिष्ठन्ति भूमौ च दग्ध-शस्या वसुन्धरा ।
जले यदि ततस् तप्तं नष्ठास्ते जल-जन्तवः

1.14.8

स्थाले दहन्ति लोकांश् च वृक्षांश् च प्रलयाग्नयः ।
विधानं कर्तुम् उचितम् एषां च जगतां विधे

1.14.9

त्वम् एव धाता जगतां पिता च विष्णुर् ईश्वरः ।
कालाग्नि-रुद्रः संहर्ता नेदानी प्रलय-क्षमः

1.14.10

एते विषयिणः सर्वे कृष्णस्य परमात्मनः ।
आज्ञावहाश् च सततं दिक्-पालाश् च दिग्-ईश्वराः

1.14.11

तस्यैवाज्ञावहो धर्मः साक्षी च कर्मणां नृणाम् ।
भ्रमन्ति विषये शश्वन् मोहिता मायया हरेः

1.14.12

अहं न पाता न स्रष्टा न संहर्ता च जीवनाम् ।
निर्लिप्तो ऽ हं तपस्वी च हरेर् आराधनोन्मुखः

1.14.13

संहार-विषयं मह्यं श्री-कृष्णश् च पुरा ददौ ।
दत्वा रुद्राय तद् अहं तपस्यासु रतो हरेः

1.14.14

तद्-अर्चनेन ध्यानेन तपसा पूजनेन च ।
स्तवेन कवचनेनैव नाम-मन्त्र-जपेन च

1.14.15

मृत्युञ्जयो ऽ हं अधुना न च कालाद् भयं मम ।
कालः संहरते सर्वं मां विना च तथेश्वरम्

1.14.16

पुरा सर्वादि-सर्गे च कस्यचित् स्रष्टुर् एव च ।
भालोद्भवाश् च ते रुद्रास् तेष्व् एको ऽ हं शङ्करः

1.14.17

कल्पश् च ब्रह्मणः पाते लये प्राकृतिके तथा ।
सर्वे नष्टा विषयिणो न भक्ताश् च यथेश्वरः

1.14.18

असंख्य-ब्रह्मणः पातः कल्पश् चासंख्य एव च ।
समतीतः कति-विधो भविता या पुनः पुनः

1.14.19

श्री-कृष्णस्य निमेषेण ब्रह्मणः पतनं भवेत् ।
तत्र प्राकृतिकाः सर्वे तिरो-भूताः पुनः पुनः

1.14.20

न प्राकृतो न विषयी नित्य-देही च वैष्णवः ।
हरेर् वरेणामरो ऽहं शिवाधारस् ततस् ततः

1.14.21

जल-प्लुतं च विश्वौघं लये प्राकृतिके ध्रुवम् ।
आब्रह्म-लोक-पर्यन्तं परं कृष्णालयं विना

1.14.22

सर्वा देव्यो विलीनाश् च कृष्णः सत्यं सुनिश्चितम् ।
सर्वे पुमांसो लीनाश् च सत्ये नित्ये सनातने

1.14.23

अहं कृष्णश् च प्रकृतिः पार्षद-प्रवरो हरेः ।
नित्यं नित्या विद्यमाना गोलोके च निरामये

1.14.24

एक ईशो न द्वितीय इति सर्वादि-सर्गतः ।
नहि नश्यन्ति तद्-भक्ताः प्रकृति-प्राकृते लये

1.14.25

तस्य भक्तोत्तमानां च सततं स्मरणेन च ।
आयुर्-व्ययो नहि भवेत् कथं मृत्युर् भविष्यति

1.14.26

न वासुदेव-भक्तानाम् अशुभं विद्यते क्वचित् ।
तेषां भक्तोत्तमानां च सततं स्मरणेन च

1.14.27

जन्म-मृत्यु-जरा-व्याधि-भयं नाप्य् उपजायते ।
अत्र कल्पे भवान् ब्रह्मा व्यवस्थाता च कर्मसु

1.14.28

स्थलं कोपानलानां च विधानं यद् विधे कुरु ।
शम्भोश् च वचनं श्रुत्वा कम्पितः कमलासनः ।
स्थलं चकार वह्नीनाम् आज्ञया शङ्करस्य च

1.14.29

ब्रह्मोवच
ज्वरस् त्रि-पादस् त्रि-शिराः षड्-भुजो नव-लोचनः ।
भस्म-प्रहरणो रौद्रः कालान्तकयमोपमः

1.14.30

भवे भवतु सर्वत्र भव-कोपानलो ऽधुना ।
प्राकृतेषु च देहेषु व्यापारो ऽस्य मया कृतः

1.14.31

मम कोपानलः शम्भो संस्कृताग्निर् द्विजस्य च ।
भवे भवतु सर्वत्र व्यापारो ऽस्य मया कृतः

1.14.32

शेषस्य कोप-वह्निश् च शेषास्ये ऽस्त्व् अधुना शिव ।
यतो विश्वं च प्रलये दहेद् गोमय-पिण्डवत्

1.14.33

वह्नेर् मुख्यानलो विश्वे व्यवहाराग्निर् ईश्वरः ।
भ्वत्व् एव हि सर्वत्र सर्वेषाम् उपकारकः

1.14.34

धर्मास्य-कोप-वह्निश् च कृष्णाग्निश् च भवत्व् अयम् ।
अधर्मं कुर्वतां सर्वं दाहनं च करिष्यति

1.14.35

सूर्य-कोपानलश् चायं दावाग्निश् च वनेषु च ।
स्थितिर् अस्य तरोः स्कन्धे तद्-भक्ष्याः पशु-पक्षिणः

1.14.36

चन्द्र-कोपानलो विश्वे कामिनां विरहानलः ।
दम्पत्योर् विरहे शश्वद् भक्ष्यति स्म द्वयोस् तनुम्

1.14.37

इन्द्र-कोपानलः सद्यो वज्राग्निश् च बभूव ह ।
उपेन्द्रस्यानलश् चैव विद्युद् एव भ्वत्व् अयम्

1.14.38

रुद्राणाम् आस्य-वह्निश् च महोल्काग्निर् भवत्व् अयम् ।
गणेशाग्निः पृथिव्यां तु यथास्थाने तु तिष्ठति

1.14.39

यत्र तिष्ठेत् तद् उषरम् एवम् एवं विदुर् बुधाः ।
स्कन्द-कोपानलश् चैव रणास्त्राग्निर् बभूव ह

1.14.40

कामेतराणां देवानां मुनीनां च मुखानलः ।
जग्राहौर्व-मुनिस् तत्र तेजसि ब्रह्मणः सुतः

1.14.41

स्व-दक्षिणोरौ स मुनिः संस्थाप्य वेद-मन्त्रतः ।
ब्रह्मणं च नमस्-कृत्य शङ्करं तपसे ययौ

1.14.42

कालेन तस्मान् निःसृत्य समुद्रे वाडवानलः ।
स बभूव पुरा पुत्र परमौर्वानलः स्वयम्

1.14.43

कामाग्निम् उल्वणं दृष्ट्वा विचिन्त्य मनसा विधिः ।
समालोच्य सुरैः सार्धं मुनीन्द्रैः सह संसदि

1.14.44

अजुहाव स्त्रियः सर्वाः सुव्रताश् च पति-व्रताः ।
आयुयुर् योषितः सर्वास् ता ऊचुः कमलोद्भवम्

1.14.45

स्त्रिय ऊचुः
किम् अस्मान् ब्रूहि भगवन् शाधि नः करवाम किम् ।
आलोच्य मनसा सर्वं देहि भारं वयं स्त्रियः

1.14.46

ब्रह्मोवाच
गृहीत्वा मदनाग्निं च मैथुने सुख-दायकम् ।
विश्वे च योषितः सर्वाः शश्वत्-कामा भवन्तु च

1.14.47

ब्रह्मणश् च वचः श्रुत्वा कोप-रक्तास्य-लोचनः ।
तम् ऊचुः योषितः सर्वा भयं त्यक्त्वा च संसदि

1.14.48

स्त्रिय ऊचुः
धिक् त्वां जगद्-विधिं व्यर्थं चकार परमेश्वरः ।
अपूज्यो मोहिनी-शापात् पुत्र-शापेन साम्प्रतम्

1.14.49

गृहीत्वा मदनाग्निं च पुरुषाश् च तथा स्त्रियः ।
नित्यं दहन्ति सततं वास्तवं दुःसहं परम्

1.14.50

तद्-एक-भागः पुरुषे त्रि-भागश् चापि योषिति ।
तेन दुग्धाः स्त्रियः सर्वाश् चास्माकम् अपरेण किम्

1.14.51

समर्पणं चेत् पुरुषे यद् यस्मासु स्मरानलः ।
भस्मी-भूतं करिष्यामो रक्षिता को भवेत् तव

1.14.52

पति-व्रता-वचः श्रुत्वा तम् उवाच शिवः स्वयम् ।
हितं सत्यं निति-सारं परिणाम-सुखावहम्

1.14.53

अथ कुलटोत्पत्तिः
श्री-महा-देव उवाच
त्यज द्वन्द्वं महा-भाग सुव्रताभिः सहाधुना ।
पति-व्रतानां तेजश् च सर्वेभ्यश् च परं भवेत्

1.14.54

निर्माणं कुरु देवेन्द्र कृत्यां स्त्री-जातिम् ईश्वर ।
तस्यै देहि दुःख-बीजं काम-कोपानलं परम्

1.14.55

शङ्करस्य वचः श्रुत्वा सत्वरं जगतां विधिः ।
ससृजे तत्-क्षणं मूर्तिं स्त्री-रूपां सुमनोहरां

1.14.56

अहो रूपम् अहो वेशम् अहो अस्या नवं वयः ।
अहो चक्षुः कटाक्षं च मुनीनां मोहयन् मनः

1.14.57

अहो कठिनं चारु स्तन-युग्मं सुवर्तुलम् ।
विचित्रं कठिनं स्थूलं श्रोणि-युग्मं च सुन्दरम्

1.14.58

नितम्ब-युग्मं वलितं चक्राकारं सुकोमलम् ।
श्वेत-चम्पक-वर्णाभं सर्वावयम् ईप्सितम्

1.14.59

शरत्-पार्वण-कोटीन्दु-विनिन्दास्यं सुशोभनम् ।
ईषद्धास्य-प्रसन्नास्यं वस्त्रेणाच्छादितं मुदा

1.14.60

वपुः सुकोमलम् चालं नाति-दीर्घं न वखरम् ।
वह्नि-शुद्धांशुकं रत्न-भूषणैर् भूषितं सदा

1.14.61

दाडिम्ब-कुमुदाकारं सान्द्रं सिन्दूर-सुन्दरम् ।
कस्तूरी-विन्दुना सार्धं स्निग्ध-चन्दन-विन्दुभिः

1.14.62

पक्व-बिम्ब-फलाकारम् अध-रौष्ठ-पुटं परम् ।
दन्त-पंक्ति-युगं चैव दाडिम्ब-बीज-सन्निभम्

1.14.63

सुचारु कवरी-भारं मालती-माल्य-मण्डितम् ।
तस्यै ददौ च कामाग्निं दृष्ट्वा तां कमलोद्भवः

1.14.64

दृष्ट्वा सा चन्द्र-रूपं च कामोन्मत्ता विचेतना ।
कृत्वा कटाक्षं स्मेराश्या मां भजस्वेत्य् उवाच सा

1.14.65

सस्पितः प्रययौ चन्द्रो लज्जया च सभा-तलात् ।
कामं दृष्ट्वा च चकमे कामार्ता सा गत-त्रपा

1.14.66

दुद्राव कामस् तस्माच् च तत्-पश्चात् सा दधाव च ।
जहसुर् देवताः सर्वा मुनयश् चापि संसदि

1.14.67

लज्जिता योषितह् सर्वास् तां वारयितुम् अक्षमाः ।
सर्वे चक्रुः परीहासं स्त्री-वर्गं शङ्करादयः

1.14.68

कामं न लब्ध्वा सा च स्त्री निवृत्यागत्य संसदि ।
तम् अश्विनी-कुमारं चाप्य् उवाच सुर-सन्निधौ

1.14.69

कृत्या-कामिन्य् उवाच
मां भजस्व रवेः पुत्र प्रियां रसवतीं मुदा ।
शृङ्गारे सुखदां शान्तां परां कामातुरां वरां

1.14.70

त्वया शार्धं भ्रमिष्यामि सुन्दरे गहने वने ।
रहसि रहसि क्रीडां करिष्यामि दिवानिशम्

1.14.71

मधु-पानं च दास्यामि वासितं चामलं जलम् ।
सकर्पूरं च ताम्बूलं भोग-वस्तु मनोहरम्

1.14.72

शय्यां मनोरमां कृत्वा सपुष्प-चन्दनार्चिताम् ।
भगवन्तं करिष्यामि पुष्प-चन्दन-चर्चितम्

1.14.73

कुमार उवाच
वचनं वद वामे माम् आत्मनो हृदयङ्गम ।
विहाय कपटं कान्ते कपटं धर्म-नाशनम्

1.14.74

स्त्री-धर्मं स्त्री-मनस्-कामं स्त्री-स्वभावं च कीदृशम् ।
तद्-आचारं कति-विधं तन् मां व्याख्यातुम् अर्हसि

1.14.75

अश्विनीज-वचः श्रुत्वा कामार्ता तम् उवाच सा ।
कामार्तानां क्व लज्जा च क्व भयं मानम् एव च

1.14.76

अथ कुलटा-स्वभाव-कथनम्
कामिन्य् उवाच
स्थानं नास्ति क्षणं नास्ति नास्ति दूती तद् उत्तमा ।
तेनैव युवतीनां च सतीत्वम् उपजायते

1.14.77

सुवेशं कामुकं दृष्ट्वा कामिनी मदनातुरा ।
तद् रात्रं च पुलकितं योनौ कण्डूयनं परं

1.14.78

विचेतना भवेत् सा च काम-ज्वर-प्रपीडिता ।
सर्वं त्यजति तद्-धेतोः पुत्रं कान्तं गृहं धनम्

1.14.79

॥
लब्ध्वा युवानं पुरुषं देश-त्यागं करोति सा ।
तद्-उत्तमं पुनर् लब्ध्वा तं त्यजेत् सा क्षणेन च

1.14.80

विषं दातुं समर्था सा स्वामिनं गुणिनां वरम् ।
म्लेच्छं युवानं सम्प्राप्य सर्वस्वं दातुम् उत्सुका

1.14.81

त्यजेत् कुल-भयं लज्जां धर्मं बन्धुं यशः श्रियम् ।
सम्प्राप्य रति-शूरं च युवानं सुरतोन्मुखम्

1.14.82

सुदृश्यं सुन्दर-मुखं शश्वन्-मधुरितं वचः ।
हृदयं क्षुर-धाराभं को वा जानाति तन्-मनः

1.14.83

विद्युच्छटा जले रेखा चास्थिरा च यथाम्बरे ।
तथास्थिरा च कुलटा-प्रीतिः स्वप्नं च तद्-वचः

1.14.84

कुलटानां न सत्यं च न च धर्मो भयं दया ।
न लौकिकं न लज्जा स्याज् जार-जिन्ता निरन्तरम्

1.14.85

स्वप्ने जागरणे चैव भोजने शयने सदा ।
निरन्तरं काम-चिन्ता जारे स्नेहो न चान्यतः

1.14.86

कुलटा नर-घातिभ्यो निर्दया दुष्ट-मानसाः ।
जारार्थे च सुतं हन्ति बान्धवस्य च का कथा

1.14.87

न हि वेदा विदन्त्य् एवं कुलता-हृदयङ्गमम् ।
कथं देवास् च मुनयः सन्तो जानन्ति निश्चयम्

1.14.88

रति-शूरं प्रियं दृष्ट्वा क्षीरं घृतम् इवाचरेत् ।
गते वयसि जीर्णं तं विषं दृष्ट्वा त्यजेत् क्षणात्

1.14.89

न विश्वसेयुस् तां दुष्टो तस्मात् सन्तो हि सन्ततं ।
न रिपुः पुरुषाणां च दुष्ट-स्त्रीभ्यः परो भुवि

1.14.90

विषं मन्त्राद् उपशमं जलाद् वह्निश् च निश्चितं ।
अग्नेश् च कण्ठकोच्छन्नं दुर्जनः स्तवनाद् वशः

1.14.91

लुब्धो धनेन राजा च सेवया सततं वशः ।
मिश्रं स्वच्छ-स्वभावेन भयेन च रिपुर् वशः

1.14.92

आदरेण वशो विप्रो यौवती प्रेम-भारतः ।
बन्धुर् वशः समतया गुरुः प्रणतिभिः सदा

1.14.93

मूर्खो वशः कथायां च विद्वान् विद्या-विचारतः ।
न हि दुष्टा च कुलटा पुंसश् च वशगा भवेत्

1.14.94

स्व-कार्ये तत्-परा शश्वत् प्रीतिः कार्यानुरोधतः ।
न सर्वस्य वशी-भूता विना शृङ्गारम् उल्वणम्

1.14.95

न प्रीत्या न धनेनैव न स्तवान् न सेवया ।
न प्राण-दानतो वेश्या वशी-भूता भवेत् क्षणम्

1.14.96

आहारो द्वि-गुणस् तासां बुद्धिस् तासां चतुर्-गुणा ।
षड्-गुणा मन्त्रणा तासां कामश् चाष्ट-गुनः स्मृतः

1.14.97

शश्वत्-कामा च कुलटा न च तृप्तिश् च क्रीडया ।
हविषा कृष्ण-वर्त्मेव भूय एवाभिवर्धते

1.14.98

दिवानिशं च शृङ्गारं कुरुते तत्-पुमान् यदि ।
न तृप्तिः कुलटानां च पुमांसं ग्रस्तुम् इच्छति

1.14.99

नाग्निस् तृप्यति काष्ठानां नापगानां महोदधिः ।
नान्तकः सर्व-भूतानां नासां तृप्यति सम्पदाम्

1.14.100

न श्रेयसां मनस् तृप्तं वाडवाग्निर् न पाथसाम् ।
वसुन्धरा न रजसां न पुंसां कुलटा तथा

1.14.101

इत्य् एवं कथितं किंचित् सर्वं वक्तुं च नोचितम् ।
लज्जा बीजं योषितां च निबोध भास्करात्मज

1.14.102

श्रुत्वा च कृत्या-स्त्री-वाक्यं जहसुर् मुनयः सुराः ।
चुकुपुर् योषितः सर्वाः पद्माद्या लज्जिताः सुत

1.14.103

लज्जा-नतानना लक्ष्मीर् निर्ययौ देव-मण्डलात् ।
तत् पश्चात् पार्वती सार्धं सरस्वत्या नतानना

1.14.104

सावित्री रोहिनी स्वाहा वारुणी च रतिः शची ।
सर्वा बभूवुर् एकत्र प्रचक्रुर् मन्त्रणां च ताः

1.14.105

कृत्या-स्त्रियः समाहूय ता ऊचुश् च क्रमेण च ।
रोधयाम् आसुर् इष्टां तां सुगोप्यां अपि योषितः

1.14.106

तस्या मुखे ददौ हस्तं सुशीला कमलालया ।
सलज्जिता भव सुते शान्ता चेति शुभाशिषम्

1.14.107

सरस्वती ददौ तस्यै चाभिमानं च धैर्यताम् ।
मौखर्यं वावदूकत्वं मन्त्रणाम् आत्म-रक्षणम्

1.14.108

सावित्री च ददौ तस्यै सौशील्यं चातिदुर्लभम् ।
आत्म-संगोपनं चैव गाम्भीर्यं कुलतो भयम्

1.14.109

पार्वत्य् उवाच
धिक् त्वां स्व-भाव-कुलटां लज्जिता भव सुन्दरि ।
स्व-मानं गौरवं रक्ष ह्य् अस्माकं च स्मरातुर

1.14.110

जनि लभ पृथिव्यां च काय-व्यूहं विधाय च ।
पुंसाम् अष्ट-गुणं कामं लभस्व च पृथक् प्रृथक्

1.14.111

लज्जां चतुर्-गुणां चापि द्विगुणां धैर्यतां तथा ।
अभोगेच्छधमे गच्छ दूरं गच्छ ममान्तिकात्

1.14.112

पुंसां च द्वि-गुणः कामो वास्तवीणां च योषिताम् ।
लज्जा चाष्ट-गुणा चापि धैर्यता च चतुर्-गुणा

1.14.113

कुल-धर्मः कुल-भयं सौशील्यं मानम् ऊर्जितम् ।
शश्वत् तिष्ठतु पुंस्य् एव स्त्रीषु च ममाज्ञया

1.14.114

यस्मात् सदसि सर्वेभ्यो लज्जा-हीनः सुराधमः ।
स्त्री-स्व-भावं च पप्रच्छ यज्ञ-भाक् न भवेत् ततः

1.14.115

अद्य-प्रभृति विश्वेषु नाग्राह्यं पाप-संयुतम् ।
चिकित्सकानां विदुषां न भक्ष्य ममाज्ञया

1.14.116

इत्य् एवम् उक्त्वा प्रययुर् देव्यश् च सर्व-योषितः ।
देवाश् च मुनयश् चापि ये चान्ये च समागतः

1.14.117

देवाश् च मुनयश् चापि ये चान्ये सर्वतः सुत ।
पति-व्रताणां स्त्रीणां च लज्जा बीज-स्वरूपिणी

मूल पाठ: Jñānāmṛtasārasaṃhitā (also called “Nāradapañcarātra”) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc