ज्ञानामृतसारसंहिता · अध्याय 1.13
इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे प्रथमैक-रात्रे
गन्धर्व-कृत-स्तोत्रं नाम द्वादशो ऽध्यायः
प्रथमैक-रात्रे त्रयोदशो ऽध्यायः
श्री-शुक उवाच
स्तोत्रान्तरे च काले च किं रहस्यं बभूव ह ।
तन् मे कथय भद्रं ते भगवन् भगवद्-वचः
श्री-व्यास उवाच
स्तोत्रान्तरे च काले च गन्धर्वश् चोपवर्हणः ।
उवाच ब्रह्म-संसदि भगवन्तं सनातनम्
सर्वैर् देवैर् अहं शप्तश् चाधुना देव-हेतुना ।
देवानाम् अग्नि-पुञ्जश् च प्रदीप्तश् च सुमेरुवत्
अधुना च त्वयि गते भस्मासान् मां करिष्यति ।
अतो रक्ष जगन्नाथ मां समुद्धर्तुम् अर्हसि
त्वद्-अंश-शूकरेणैव धरोद्धारः कृतः पुरा ।
हिरण्याख्यं महा-दैत्यं निहत्य चावलीलया
पाद्म-पद्मार्चित-पदे पद्मे ते शरणागतम् ।
माम् अनाथं भयाक्रान्तं रक्ष रक्ष सुरानलात्
गन्धर्वस्य वचः श्रुत्वा प्रहस्य जगद्-ईश्वरः ।
उवाच श्लक्ष्णया वाचा ब्रह्मेशो ब्रह्म-संसदि
अथ गन्धर्व-मोक्षणम्
श्री-भगवान् उवाच
गन्धर्व-राज-प्रवर स्थिरो भव भयं त्यज ।
शुभाश्रयस्य भक्तस्य भयं किं ते मयि स्थिते
सर्वेभ्यो ऽपि भयं नास्ति मद्-भक्तानाम् अकर्मणाम् ।
जन्म-मृत्यु-जरा-व्याधि-भयं तेषां न विद्यते
मन्-मन्त्रोपासकश् चैव स्वतन्त्रो नित्य-विग्रहः ।
पुनर् न विद्यते जन्म मन्त्र-ग्रहण-मात्रतः
नास्ति कालाद् भयं तस्य न निषेकाद् विधेर् अपि ।
मन्त्र-ग्रहण-मात्रेण मुच्यते सर्व-कर्मणः
मन्-मन्त्रो हि देहात् पापं कोटि-जन्म-कृतं च यत् ।
सुदीप्तो ज्वलद्-अग्निश् च तृण-पुञ्जं देहाद् यथा
मन्-मन्त्र-ग्रहणाद् योगान् मन्-नाम-ग्रहणस्य वा ।
तेषां पापानि वेपन्ते कोटि-जन्म-कृतानि च
यमस् तन्-नाम-लिखनं दूरी-भूतं करोति च ।
अन्ते दास्यं च लभते गत्वा गोलोकम् उत्तमम्
यावद् आयुर् भ्रमेत् तावत् स्वतन्त्रो मत्त-कुञ्जरः ।
ततः पापाः फलायन्ते वैनतेयाद् इवोरगाः
तेषां च पाद-रजसा सद्यः पूता वसुन्धरा ।
पुनाति सर्व-तीर्थानि दूरतो दर्शनाद् अपि
पूतश् च पवनो वह्निर् जलं च तुलसी-दलम् ।
पूतान्य् एव हि तीर्थानि गङ्गादीनि च गायन
पूता सुशीला धर्मिष्ठा सुव्रता स्त्री पति-व्रता ।
मन्-मन्त्रोपासकाश् चैव तेभ्यः पूतोत्तमाः सदा
मन्त्रोपासकानां च तीर्थ-स्थानं व्रतं सुत ।
श्राद्धं दानं पूजनं च यथा चर्वित-चर्वणम्
भक्त्या तीर्थानि पूतानि स्वतः पूतो हि वैष्णवः ।
तत् तन्त्रं च तथा दान-मलं श्राद्धं च निष्फलम्
श्राद्धस्य सम्प्रदानं च कर्तुश् च पुरुष-त्रयम् ।
पुरुषाणां शतं मुक्तं को भुङ्क्ते श्राद्ध-वस्तु च
केचिद् एवं वदन्तीति पितृ-लोकार्थम् एव च ।
तद्-विरुद्धं च ते तुष्टा मन्त्र-ग्रहण-मात्रतः
तेषां शुभाशिषं कर्म नैव भोगाय कल्पते ।
देवान् न प्रभवेद् वत्स सिद्ध-धान्ये यथाङ्कुरः
साक्षात् करोति तेषां च कर्म-मूल-निकृन्तनम् ।
मन्त्रोपासकाद् अन्ये कर्म-भोगं च भुञ्जते
मया स्वयं प्रदत्तश् च स्व-मन्त्रः पुरुषाय च ।
पर-द्वाराद् ग्राहयित्वा भक्तं मुक्तं करोम्य् अहम्
मया प्रदत्त-मन्त्रश् च पुरा मृत्युञ्जयस् तथा ।
मृत्युञ्जयाय गोलोके शुद्ध-सत्त्व-गुणाय च
पुनः सनत्-कुमाराय धर्माय ब्रह्मणे तथा ।
कपिलाय च शेषाय गणेशाय च महा-मते
नारायणर्षये चैव धर्म-पुत्राय धीमते ।
पुनर् महा-विष्णवे च विश्वानि यस्य लोमसु
कालाधिष्ठातृ-देवाय तस्मै सर्वान्तकाय च ।
उपेन्द्राय च कामाय भृगवे ऽङ्गिरसे तथा
सरस्वत्यै च पद्मायै राधायै विरजा-तटे ।
शवित्र्यै विष्णु-मायायै पार्षदेभ्यश् च पुत्रक
तुभ्यं न दत्तो मन्त्रो ऽत्र श्रूयतां तन् निमित्तकम् ।
जनिष्यसि शूद्र-योनौ ब्रह्मणो वाक्य-पालनात्
इत्य् एवं कथितं सर्वं गच्छ वत्स यथा सुखम् ।
द्वादशाब्दान्तरे शूद्र-योनौ देवाज् जनिष्यसि
पञ्च-वर्षाभ्यन्तरे च मन्-मन्त्रं प्राप्य विप्रतः ।
दशाब्दान्ते वपुस् त्यक्त्वा ब्रह्म-पुत्रो भविष्यसि
मन्-मन्त्रं पुनर् एवेति शम्भु-वक्त्राल् लभिष्यसि ।
इत्य् एवम् उक्त्वा सर्वात्मा तत्रैवान्तरधीयत
गन्धर्वः प्रययौ तस्माद् योषिद्भिः सह पुत्रक ।
इत्य् एवं कथितं सर्वं पूर्व-वृत्तान्तम् एव च
मूल पाठ: Jñānāmṛtasārasaṃhitā (also called “Nāradapañcarātra”) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0