भाषा

ENहिગુ
ग्रंथ पाठ

ज्ञानामृतसारसंहिता · अध्याय 1.15

1.15.1

इति श्री-नारद-पञ्च-रात्रे ज्ञाणामृत-सारे प्रथमैक-रात्रे
कुलटोत्त्पतिर् नाम चतुर्दशो ऽध्यायः
प्रथमैक-रात्रे पञ्चदशो ऽध्यायः
गते नियमिते काले गन्धर्वश् चोपवर्हणः ।
स्व-योगेन जहौ देहं भारते प्राक्तनाद् अहो

1.15.2

स जज्ञे शुद्र-योनौ च पितुः शापेन च दैवतः ।
विष्णु-प्रसादं भुक्त्वा च बभूव ब्रह्मणः सुतः

1.15.3

विमुक्तस् तात-शापेन सम्प्राप्य ज्ञानम् उत्तमम् ।
प्रति-जन्म-स्मृतिस् तस्य कृष्ण-मन्त्र-प्रसादतः

1.15.4

पितुः सकाशाद् आगत्य सम्प्राप चन्द्र-शेखरात् ।
श्री-कृष्ण-मन्त्रम् अतुलं स्वर्ग-मन्दाकिनी-तटे

1.15.5

स्वर्ग-मन्दाकिनी-तीराद् गुरुणा शङ्करेण च ।
सहितः प्रययौ तूर्णं पार्वती-सन्निधानतः

1.15.6

उवास तत्र शम्भुश् च नारदश् च महा-मुनिः ।
पार्वती भद्र-काली स्कन्दो गण-पतिः स्वयम्

1.15.7

महा-कालश् च नन्दी च वीर-भद्रः प्रतापवान् ।
सिद्धा महर्षयश् च मुनयः सन्कादयः

1.15.8

योगीन्द्रा ज्ञानिनः सर्वे समूचुः शम्भु-संसदि ।
यत् स्तोत्रं कवचं ध्यानं सुभद्राय च कानने

1.15.9

नारायणर्षि-भगवान् ब्राह्मणाय ददौ पुरा ।
पूजा-विधानं यद् यच् च पुरश्-चरण-पूर्वकम्

1.15.10

तद् एव भगवान् शम्भुः प्रददौ नारदाय च ।
उवाच शम्भुं देवर्षिर् योगिनां च गुरोर् गुरुम् ।
पार्वती-सन्निधौ तत्र नारदश् च महा-मुनिः

1.15.11

भगवन् सर्व-धर्म-ज्ञ सर्व-ज्ञ सर्व-कारण ।
सद् यत् पृष्टं मया पूर्वं तन् मां व्याख्यातुम् अर्हसि

1.15.12

यद् यत् पृष्टं त्वया ब्रह्मन् प्रत्येकं च क्रमेण च ।
पुनः प्रश्नं कुरु मुने शृण्वन्तु मत्-सभासदः

1.15.13

आध्यात्मिकं च यज् ज्ञानं वेदानां सारम् उत्तमम् ।
ज्ञानं ज्ञानिषु सारं यत् कृष्ण-भक्ति-प्रदं शुभं

1.15.14

निर्वाण-मुक्तिदं ज्ञानं कर्म-मूल-निकृन्तनम् ।
तत्-सिद्धि-योगान् मुक्तिश् च योगिनाम् अपि वाञ्च्छितम्

1.15.15

संसार-विषयं ज्ञानं शश्वत् सम्मोह-वेष्टितम् ।
आश्रमाणां समाचारं तेषां धर्म-परिष्कृतम्

1.15.16

चतुर्णां वर्णनां विधानां महेश्वर ।
भिक्षूणां वैष्णवानां च यतीनां ब्रह्म-चारिणाम्

1.15.17

वान-प्रस्थाश्रमाणां च पण्डितानां तथैव च ।
पति-व्रतानां यद् यच् च श्री-कृष्ण-पूजनं च यत्

1.15.18

यत् स्तोत्रं कवचं मन्त्रं पुरश्-चरणम् ईप्सितम् ।
सार्वाह्निकम् अभीष्टं च विपाकं कर्म-जीविनाम्

1.15.19

संसार-वासना-बद्धं लक्षणं प्रकृतीशयोः ।
तयोः परं वा यद् ब्रह्म तस्यावतार-वर्णनम्

1.15.20

कस् तत् कलावतीर्णश् च कस् तद्-अंशश् तथैव च ।
परिपूर्णतमः कश् च कः पूर्णः कः कलांशकः

1.15.21

कस्य वाराधने शम्भो किं फलं किं यशस् तथा ।
अङ्गाङ्गिनोर् भेद-फलं विस्तीर्णं निरपेक्षकम्

1.15.22

नारायणर्षि-कवचं सुभद्र-ब्राह्मणाय च ।
यद् दत्तं किं तद् देवेश तद्-आराध्यश् च कः सुरः

1.15.23

अति-संगोपनीयं च कवचं परमाद्भुतम् ।
सुदुर्लभं च विश्वेषु नोक्तं मां ब्रह्मणा पुरा

1.15.24

सनत्-कुमारो जानाति नोक्तं तेन पुरा च माम् ।
मया ज्ञानम् अनापृष्टं यद् यज् जानासि मङ्गलम्

1.15.25

वेद-सारम् अनुपमं कर्म-मूल-निकृन्तनम् ।
तन् मे कथय भद्रेश माम् एवानुग्रहं कुरु

1.15.26

अपूर्वं राधिकाख्यानं वेदेषु च सुदुर्लभम् ।
पुराणेष्व् इतिहासे च वेदाङ्गेषु सुदुर्लभम्

1.15.27

गुरोश् च ज्ञानोदिगरणात् ज्ञानं स्यान् मन्त्र-तन्त्रयोः ।
तत् तन्तं स च मन्त्रः स्यात् कृष्ण-भक्तिर् यतो भवेत्

1.15.28

ज्ञानं स्याद् विदुषां किंचिद् वेद-व्याख्यानतः प्रभो ।
वेद-कारण-पूज्यश् त्वं ज्ञानाधिष्ठातृ-देवता

1.15.29

तस्माद् भवान् परं ज्ञानं वद वेद-विदां वर ।
मां भक्तम् अनुरक्तं च शरणागतम् ईश्वर

1.15.30

नारदस्य वचः श्रुत्वा योगिनां च गुरोर् गुरुः ।
भगवत्या सहालोच्य ज्ञानं वक्तुं समुद्यतः

1.15.31

इत्य् एवं कथितं सर्वं पूर्वाख्यानं मनोहरम् ।
हरि-भक्ति-प्रदं सर्वं कर्म-मूल-निकृन्तनम्

मूल पाठ: Jñānāmṛtasārasaṃhitā (also called “Nāradapañcarātra”) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc