भाषा

ENहिગુ
ग्रंथ पाठ

ज्ञानामृतसारसंहिता · अध्याय 1.12

1.12.1

इति श्री-नारद-पञ्च-रात्रे ज्ञानामृत-सारे प्रथमैक-रात्रे
महोत्सव-दर्शनं नाम एकादशो ऽध्यायः
प्रथमैक-रात्रे द्वादशो ऽध्यायः
शुक उवाच
महोत्सवे सुनिष्पन्ने दानस्योत्तर-कालतः ।
किं बभूव रहस्यं च तन् मां व्याख्यातुम् अर्हसि

1.12.2

श्री-व्यास उवाच
संप्राप्य दानं देवानां गन्धर्वश् चोपवर्हणः ।
तेषां च पुरतो भक्त्या विदयाम् आस वै सदा

1.12.3

श्रुत्वा तद् वचनं ब्रह्मा तम् उवाच च संसदि ।
शम्भुना च समालोच्य ब्रह्मोवाच विधाता जगताम् अपि

1.12.4

मथुरा-गमनं चैव कृष्णस्य परमात्मनः ।
विलापं गोप-गोपीनां श्रावयास्मांश् च साम्प्रतम्

1.12.5

॥
महोत्सवं कुरु पुनः शृण्वन्तु मुनयः सुराः ।
गायन्तु ताश् च संगीतं नृत्यन्त्व् अप्सरां गणाः

1.12.6

ब्रह्मणश् च वचः श्रुत्वा ननृत्युश् चाप्सरोगणाः ।
चक्रुस् ताः सरसं गीतं विद्याधर्यश् च संसदि

1.12.7

मायिनां चैव प्रवरो गन्धर्वश् चोपवर्हणः ।
जगौ सन्धान-भावेन मथुरा-गमनं हरेः

1.12.8

विलापं गोकुल-स्थानां श्रुत्वा विप्राः सुरादयः ।
मूर्च्छां प्रापुश् च रुरुदुर् ददुर् दानं पुनः पुनः

1.12.9

गोपीनां विरहालापैर् मूर्च्छितश् चोपवर्हणः ।
विस्वरेण वितनात् तु ताल-भङ्गो बभूव ह

1.12.10

तत् ताल-भङ्गं विज्ञाय देवाश् च मुनयस् तथा ।
चुकुपुः सहसा सर्वे निर्गतास् तन् मुखाग्नयः

1.12.11

तद् दृष्ट्वा सहसा भीतो गन्धर्वश् चोपवर्हणः ।
सस्मार कृष्णं स्वभीष्टं परमात्मानम् ईश्वरम्

1.12.12

ददृशुः स्मृति-मात्रेण तत्-तेजो नभसि स्थितम् ।
स्तम्भिता देवताः सर्वाशि-चक्र-पुत्तलिका यथा

1.12.13

स्तम्भिता वह्नयः सर्वे मुनयश् च विजृम्भिताः ।
हरि-स्मृतिश् चाभयदा शुभदा विघ्न-नाशिनी

1.12.14

ददृशुर् देवताः सर्वाः मुनयश् चापि योषितः ।
गन्धर्वाश् च तथैवान्ये तेजो दृश्यं सुख-प्रदम्

1.12.15

परं कुञ्ज्ञटिकाकारं कोटीन्दु-किरण-प्रभम् ।
योजनायत-विस्तीर्णं सुस्निग्धं सुमनोहरम्

1.12.16

तत् तेजो ऽभ्यन्तरे सर्वे ददृशू रथम् उत्तमम् ।
गव्यूतिमानं विस्तीर्णं धनुष्-कोटि-समुच्छ्रितम्

1.12.17

श्वेताश्वानां च चक्राणां सहस्रेण समावृतम् ।
अमूल्य-रत्न-रचितम् ईश्वरेच्छा-विनिर्मितम्

1.12.18

नाना-चित्र-विचित्राढ्यं मनोयायि ममोहरम् ।
मुक्तामाणिक्य-परम-हीराहारैर् विराजितम्

1.12.19

रत्न-दर्पण-लक्षैश् च त्रि-लक्षैः श्वेत-चामरैः ।
वह्नि-शुद्धांशुकानां च त्रि-लक्षैः परिशोभितम्

1.12.20

त्रि-कोटिभिश् च ज्वलितं क्रीडा-सुन्दर-मन्दिरैः ।
पारिजात-प्रसूनानां मन्दराणां मनोहरैः

1.12.21

मालाजालैस् त्रि-लक्षैश् च मालतीनां च मण्डितम् ।
एवंभूतं रथं दृष्ट्वा ददृशुस् ते तद्-अनन्तरे

1.12.22

मध्य-कोष्ठाभ्यन्तरे च किशोरं श्याम-सुन्दरम् ।
वह्नि-शुद्धांशुकेनैव पीत-वर्णेन शोभितम्

1.12.

रत्न-केयूर-वलय-रत्न-मञ्जीर-रञ्जितम् ।
रत्न-कुण्डल-युग्मेन गण्ड-स्थल-समुज्ज्वलम्

1.12.24

23 ॥
ईषद्धास्य-प्रसन्नास्यं नित्योपास्यं सुरासुरैः ।
चन्दनोक्षित-सर्वाङ्गं मालती-माल्य-मण्डितम्

1.12.25

मणिना कौस्तुभेन्द्रेण गण्ड-स्थल-विभूषितम् ।
परं प्रधानं परमं परमात्मानम् ईश्वरम्

1.12.26

स्तुतं ब्रह्मेश-शेषैश् च राधा-वक्षः स्थल-स्थितम् ।
वेदानिर्वचनीयं च स्वेच्छामयम् अनीश्वरम्

1.12.27

नित्यं नित्यं निर्गुणं च ज्योति-रूपं सनातनम् ।
प्रकृतेः परम् ईशानं भक्तानुग्रहकातरम्

1.12.28

कोटि-कन्दर्प-लावण्य-लीला-धाम-मनोहरम् ।
मयूर-पुच्छ-चूडं च वरं वंशी-धरं परं

1.12.29

दृष्ट्वा तम् अद्भुतं रूपं तुष्टाव कमलोद्भवः ।
गणेशः शेषः शम्भुश् च तद्-अन्ये मुनयः सुराः

1.12.30

ब्रह्मोवाच
परं ब्रह्म परं धाम परमात्मानम् ईश्वरम् ।
वन्दे वन्द्यं च सर्वेषां सर्व-कारण-कारणम्

1.12.31

सर्वेश्वरं सर्व-रूपं सर्वाद्यं सद्भिर् ईडितम् ।
वेदावेद्यं च विद्वद्भिर् न दृष्टं स्वप्न-गोचरे

1.12.32

श्री-महादेव उवाच
सिद्ध-स्वरूपं सिद्धाद्यं सिद्ध-बीजं सनातनम् ।
प्रसिद्धं सिद्धिदं शान्तं सिद्धानां च गुरोर् गुरुम्

1.12.33

वन्दे वन्द्यं च महतां परात् परतरं विभुम् ।
स्वात्मा-रामं पूर्ण-कामं भक्तानुग्रहकातरम्

1.12.34

भक्ति-प्रियं च भक्तेशं स्व-भक्ति-दास्यदं परम् ।
स्व-पद-प्रदम् एकं च दातारं सर्व-सम्पदाम्

1.12.35

अनन्त उवाच
वक्त्राणां च सहस्रेण किं वा स्तौमि श्रुति-श्रुतम् ।
कोटिभिः कोटिभिर् वक्त्रैः को वा स्तोतुं क्षमः प्रभो

1.12.36

किम् उ स्तोष्यति शम्भुश् च पञ्च-वक्त्रेण वाञ्च्छितम् ।
कर्ता चतुर्णां वेदानां किं स्तोष्यति चतुर्-मुखः

1.12.37

षड्-वक्त्रो गज-वक्त्रश् च देवाश् च मुनयो ऽपि वा ।
वेदा वा किं वेद-विदः स्तुवन्ति प्रकृतेः परम्

1.12.38

वेदानिर्वचनीयं च वेदा निर्वक्तुम् अक्षमाः ।
वेद-विज्ञात-वाक्येन विद्वांसः किं स्तुवन्ति तम्

1.12.39

श्री-गणेश उवाच
मूर्खो वदति विष्णाय बुधो वदति विष्णवे ।
नम इत्य् एवम् अर्थम् च द्वयोर् एव समं फलम्

1.12.40

यस्मै दत्तं च यज् ज्ञानं ज्ञान-दाता हरिः स्वयम् ।
ज्ञानेन तेन स स्तौति भाव-ग्राही जनार्दनः

1.12.41

एक-वक्त्रो ऽनेक-वक्त्रो मूर्खो विद्वान् स्व-कर्मणा ।
अधनी च धनी वापि सपुत्रो वाप्य् अपुत्रकः

1.12.42

कर्मणा परम् ईशं च स्तोतुं को वाप्य् अनुत्तमम् ।
यथा-शक्ति स्तुतिः पूजा वन्दनं स्मरणं हरेः

1.12.43

संकीर्तनं च भजनं जपनं बुद्ध्य्-अनुक्रमम् ।
कुर्वन्ति सन्तो ऽसन्तश् च सन्ततं परमात्मनः

1.12.44

कार्तिकेय उवाच
सर्वान्तरात्मा भगवान् ज्ञानं च सर्व-जीविनां ।
ज्ञानानुरूपं स्तवनं सन्तो नैव हसन्ति तम्

1.12.45

भवेषु त्रि-विधो लोको ऽप्य् उत्तमो मध्यमो ऽधमः ।
सर्वे स्व-कर्म-वश-गा निषेकः केन वार्यते

1.12.46

सर्वेश्वरं च संवीक्ष्य सर्वो वदति मत्-प्रभुम् ।
मद्-ईश्वरस्य समता सर्वेषु किंकरेषु च

1.12.47

भजन्ति केचित् शुद्धान्तं परमात्मानम् ईश्वरम् ।
केचित् तद्-अंशांशं प्राप्नुवन्ति क्रमेण तम्

1.12.48

धर्म उवाच
अहं साक्षी च सर्वेषां विधिना निर्मितः पुरा ।
विधातुश् च विधाता त्वं सर्वेश्वरं नमो ऽस्तु ते

1.12.49

देवा ऊचुः
यं स्तोतुम् असमर्थश् च सहस्रायुः स्वयं विधिः ।
ज्ञानाधिदेवः शम्भुश् च तं स्तोतुं किं वयं क्षमाः

1.12.50

वेदा ऊचुः
किं जानीमो वयं के वाप्य् अनन्तेशस्य यो गुणः ।
वयं वेदाश् त्वम् अस्माकं कारणस्यापि कारकः

1.12.51

मुनयः ऊचुः
यदि वेदा न जानन्ति माहात्म्यं परमात्मनः ।
न जानीमस् तव गुणं वेदानुसारिणो वयम्

1.12.52

सरस्वत्य् उवाच
विद्याधिदेवताहं च वेदा विद्याधिदेवकाः ।
वेदाधिदेवो धाता च तद्-ईशं स्तौमि किं प्रभो

1.12.53

पद्मोवाच
यत् पाद-पद्मं पद्मेशः शेषाश् चान्ये सुरास् तथा ।
ध्यायन्ते मुनयो देवा ध्याये तं प्रकृतेः परम्

1.12.54

सावित्र्य् उवाच
सावित्री वेद-माताहं वेदानां जनको विधिः ।
त्वाम् एव धत्ते धातरं नमामि त्रि-गुणात् परम्

1.12.55

श्री-पार्वत्य् उवाच
तव वक्षसि राधाहं रासे वृन्दावने वने ।
महा-लक्ष्मीश् च वैकुण्ठे पाद-पद्मार्चने रता

1.12.56

श्वेत-द्वीपे सिन्धु-कन्या विष्णोर् उरसि भू-तले ।
ब्रह्म-लोके च ब्रह्माणी वेद-माता च भारती

1.12.57

तवाज्ञया च देवानाम् अविर्भूता च तेजसि ।
निहत्य दैत्यान् देवारीन् दत्वा राज्यं सुराय च

1.12.58

तत्-पश्चाद् दक्ष-कन्याहम् अधुना पार्वती हरे ।
तवाज्ञया हर-क्रोडे त्वद्-भक्ता प्रति-जन्मनि

1.12.59

नारायण-प्रिया शश्वत् तेन नारायणी श्रुतौ ।
विष्णोर् अहं परा-शक्तिर् विष्णु-माया च वैष्णवी

1.12.60

अनन्त-कोटि ब्रह्माण्डं मया सम्मोहितं सदा ।
विदुषां रसनाग्रे च प्रत्यक्षं हि सरस्वती

1.12.61

महा-विष्णोश् च माताहं विश्वानि यस्य लोमसु ।
रामेश्वरी च सर्वाद्या सर्व-शक्ति-स्वरूपिणी

1.12.62

तद्-रासे धारणाद् राधा विद्वद्भिः परिकीर्तिता ।
परमानन्द-पादाब्जं वन्दे सानन्द-पूर्वकम्

1.12.63

यत्-पाद-पद्मं ध्यायन्ते परमानन्द-कारणम् ।
पाद-पद्मेश-शेषाद्या मुनयो मनवः सुराः

1.12.64

योगिनः सन्ततं सन्तः सिद्धाश् च वैष्णवास् तथा ।
अनुग्रहं कुरु विभो बुद्धि-शक्तिर् अहं तव

1.12.65

इति संवृतं स्तोत्रं यः पठेत् संयतः शुचिः ।
इहैव च सुखं भुङ्क्ते यात्य् अन्ते श्री-हरेः पदम्

1.12.66

निवृत्तेषु च वेदेषु देवीषु मुनि-पुङ्गवे ।
उपवर्हण-गन्धर्वः स्तुतिं कर्तुं समुद्यतः

1.12.67

अथ गन्धर्व-कृत-स्तोत्रम्
गन्धर्व उवाच
वन्दे नव-घन-श्यामं पीत-कौशेय-वाससम् ।
सानन्दं सुन्दरं शुद्धं श्री-कृष्णं प्रकृतेः परम्

1.12.68

राधेशं राधिका-प्राण-वल्लभं वल्लवी-सुतम् ।
राधा-सेवित-पादाब्जं राधा-वक्षः-स्थल-स्थितम्

1.12.69

राधानुरागं राधिकेष्टं राधापहृत-मानसम् ।
राधाधरं भवाधारं सर्वाधारं नमामि तम्

1.12.70

राधा-हृत्-पद्म-मध्ये च वसन्तं सन्ततं शुभम् ।
राधा-सह-चरं शश्वत् राधाज्ञा-परि-पालकम्

1.12.71

ध्यायन्ते योगिनो योगात् सिद्धाः सिद्धेश्वराश् च यम् ।
तं ध्याये सततं शुद्धं भगवन्तं सनातनम्

1.12.72

सेवन्ते सन्ततं सन्तो ब्रह्मेश-शेष-संज्ञकाः ।
सेवन्ते निर्गुणं ब्रह्म भगवन्तं सनातनम्

1.12.73

निर्लिप्तं च निरीहं च परमात्मानम् ईश्वरम् ।
नित्यं सत्यं च परं भगवन्तं सनातनम्

1.12.74

यं सृष्टेर् आदि-भूतं च सर्व-बीजं परात् परम् ।
योगिनस् तं प्रपद्यन्ते भगवन्तं सनातनम्

1.12.75

बीजं नानावताराणां सर्व-कारण-कारणम् ।
वेदावेद्यं वेद-बीजं वेद-कारण-कारणम्

1.12.76

योगिनस् तं प्रपद्यन्ते भगवन्तं सनातनम् ।
इत्य् एवम् उक्त्वा गन्धर्वः पपात धरणी-तले

1.12.77

ननाम दण्डवद् भूमौ देव-देवं परात् परम् ।
इति तेन कृतं स्तोत्रं यः पठेत् प्रयतः शुचिः

1.12.78

इहैव जीवन्-मुक्तश् च परे याति परां गतिम् ।
हरि-भक्तिं हरेर् दास्यं गोलोके च निरामयः ।
पार्षद-प्रवरत्वं च लभते नात्र संशयः

मूल पाठ: Jñānāmṛtasārasaṃhitā (also called “Nāradapañcarātra”) · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc